स्वामिनः फलश्रुतेरित्यात्रेयः ॥ 3-4-44 ॥
कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि … …. रसतमत्वानुसन्धानं यजमनेनैव कर्तुं शक्यते ॥ 44 ॥
स्वामिनः फलश्रुतेरित्यात्रेयः । उपासनानुष्ठातृविभागचिन्तान्तरम् उद्गीथाद्युपासनस्यापि तच्चिन्तनं क्रियते इति प्रसङ्गात् सङ्गतिः । स्फुटम् ॥
सिद्धान्तः
इति प्राप्तेऽभिधीयते -
आÐत्वज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ 3-4-45 ॥
आÐत्वज्यं - ऋत्विजः कर्म …. … शास्त्रफलं प्रयोक्तरि इति न्यायाच्च फलिकर्तृकत्वमेव ॥ 45 ॥
राद्धान्ते - आÐत्वज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते । तच्छब्दार्थः फलसाधन इति व्याख्यातः । प्रयोजनाय इति चतुर्थ्यर्थ उक्तः । परिक्रीयते इत्यस्यार्थमाह - कर्मविधिषु इति । ततः किमित्यत्राह - तदन्तर्गतानि इति । अङ्गत्वे सति हि ऋत्विक्कर्तृकत्वमित्यत्राह - यद्यपि इत्यादि । क्रत्वधिकृत इति । अग्र्यप्रायनय उक्तः । ऋत्विक्कर्तृककर्मणो वीर्यवत्तरत्वसाधनविद्यायास्तत्कर्तृकत्वम् अन्तरङ्गनयाच्च स्यात् । तदुनुगृहीतं विद्यया करोति इति वाक्यस्वारस्यं च । दहरादिधियां 3मतथात्वे किं वैषम्यमित्राह - दहरादिषु इति ॥ 45 ॥
इति स्वाम्यधिकरणम् - 11