१० तद्भूताधिकरणम्

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तद्रूपाभावेभ्यः

॥ 3-4-40 ॥

नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः ….. जैमिनेरपि - इत्यविगानं दर्शन्नुक्तं स्वाभिमतं द्रढयति ॥ 40 ॥

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात् तदूपाभावेभ्यः । विधुरादेरिव

अनाश्रमित्वसाम्यात् प्रच्युतानामपि विद्याधिकारोऽस्ति नेति शङ्काया सङ्गतिः । वैखानसः - वानप्रस्थः । ब्रह्मचारी इत्यादिश्रुतिः नैष्ठिकविषया

॥ 40 ॥

अथ स्यात् नैष्टिकादीनां … …

न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ 3-4-41 ॥

अधिकारलक्षणोक्तमपि प्रायश्चित्तं … … अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्म चारिविषयम् ॥ 41

अनन्तरस्य शङ्कामाह - अथ स्यात् इति । अधिकारलक्षणम् षष्ठम्। अवकीर्णिपशुः - गर्दभः । उपकुर्वाणब्रह्म वारी भ्रष्टः अवकीर्णी । न चाधिकारिकमपि पतनानुमानात् तदयोगात् । तर्हि तत्प्रायश्चितं किं विषयमित्यत्राह - अतः इति ॥ 41 ॥

उपपूर्वमपीत्येके भावमशनवत् तदुक्तम् ॥ 3-4-42 ॥

नैष्ठिकादीनां ब्रह्मचर्यप्रच्यवनं … … प्रायश्चित्तसंभवात् ब्रह्मविद्यायोग्यताऽप्यस्ति ॥ 42 ॥

उपपूर्वमपीत्येके भावमशनवत् तदुक्तम् । उपकुर्वाणस्य ब्रह्मचर्यभ्रंशस्य उपपातकस्य प्रायश्चितं नैष्ठिकादिष्वतिदिष्टमिति विद्यायोग्यता इत्यर्थः । स्त्रीसंसर्गादिप्रायश्चित्तादेः गृहस्थादावप्रसङ्गात् स्वाश्रमाविरोधि शब्दः ॥ 42 ॥

बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥ 3-4-43 ॥

तुशब्दो मतान्तरव्यावृत्त्यर्थः । … … अतस्येषां नास्ति ब्रह्मविद्यायामधिकारः ॥ 43 ॥

बहिस्तूभयथाऽपि स्मृतेराचाराच्च । यद्यपि इति । पतनतत्प्रायश्चित्तवचनविरोधे सति पतनस्मृतिः पापकर्मणो वैदिककर्मानधिकारापादकशक्तिनाशकप्रायश्चित्ताभावविषया । प्रायश्चित्तवचनं प्रत्यवायसजातीयरुचिजननशक्तिविनाशकविषयमिति व्यवस्था कार्येत्यर्थः । वर्जनफलमाह - नोपदिशन्ति इति ॥ 43 ॥

इति तद्भूताधिकरणम् - 10