०९ विधुराधिकरणम्

अन्तरा चापि तु तद्दृष्टेः ॥। 3-4-36 ॥

चतुर्णामाश्रमिणां ब्रह्मविद्यायाम् …. …. देवताराधनादिभिः विद्यानुग्रहः शक्यते कर्तुम् ॥ 36 ॥

अन्तरा चापि तु तद्दृष्टेः । सङ्गतिमाह - चतुर्णाम् इति । आदि शब्दात्

अकृतदारः । वर्णधर्मैः अनुग्रहः इत्यर्थः । अनैकान्तिकानाम् - अनियतानाम् ॥ 36 ॥

अपि स्मर्यते ॥ 3-4-37 ॥

अपि च अनाश्रमिणामपि … … जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः ॥ 37 ॥

अपि स्मर्यते । ब्राह्मणः - तदधीते , तद्वेद इत्यर्थः । कथं जपादिभिरनुग्रहोपगम इत्यत्राह - जपादि इति ॥ 37 ॥

विशेषानुग्रहश्च ॥ 3-4-38 ॥

न केवलं न्यायस्मृतिभ्यामयमर्थः …. … विद्ययाऽऽत्मानमन्विष्येत् इति ॥ 38 ॥

विशेषानुग्रहश्च । स्फुटम् ॥ 38 ॥

अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ 3-4-39 ॥

तुशब्दोऽवधारणे । अतः - अनाश्रमित्वात् …. …. मृतभार्यस्य चावैराग्ये सति दारालाभ आपत् ॥ 39 ॥

तर्हि शक्तैरप्याश्रमा उपेक्ष्या इत्यत्राह - अतस्त्वितरज्ज्यायो लिङ्गाच्च । अतुल्यकार्यत्वात् - शक्तं प्रति इत्यर्थः । आपदं शिक्षयति - निवृत्त इति । ब्रह्मनिष्ठेष्वनुगतं वैराग्यं कालान्तरादिभोग्यनैरपेक्ष्यं गार्हस्थ्यधर्मलिप्सा चेत्यविरोधः ॥ 39 ॥

इति विधुराधिकरणम् -9