०८ विहितत्वाधिकरणम्

विहितत्वाच्चाश्रमकर्मापि ॥ 3-4-32 ॥

यज्ञादिकर्माङ्गिका ब्रह्मविद्या …. …. जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थः ॥ 32 ॥

विहितत्वाच्चाश्रमकर्मापि । परमप्रकृतेनावान्तरसङ्गतिमाह - यज्ञादि इति। नित्यानित्य इति । यावज्जीवमनुष्ठानं मुमुक्षानुगुणमनुष्ठानं च विरुद्धमित्यर्थः ॥

आश्रमि इति पाठे केवल शब्दः अ#ुमुमुक्षुपरः । अनुष्ठेयानि इति । कर्माणि

इत्यध्याहारः ॥ 32 ॥

तथा विद्याङ्गतया च , तमेतं … …

सहकारित्वेन च ॥ 3-4-33 ॥

विद्योत्पत्तिद्वारेण विद्यासहकारितया …. … विनियोगपृथक्त्वेनोभयार्थत्वं न विरुध्यते इत्यर्थः ॥ 33 ॥

सहकारित्वेन च । विद्योत्पत्ति इति समुच्चयव्युदासः । नित्यानित्यसंयोगविरोध इत्यत्राह - अग्निहोत्र इति । विनियोगः - शेषत्वज्ञापकविधिः ॥ 33 ॥

तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह -

सर्वथाऽपि त एवोभयलिङ्गात् ॥ 3-4-34 ॥

सर्वथा - विद्यार्थत्वे आश्रमार्थत्वेऽपि … … विनियोगात् कर्मस्वरूपभेदे प्रमाणाभावाच्च ॥ 34 ॥

सर्वथाऽपि त एवोभयलिङ्गात् । शब्दैक्येऽपि कुण्डपायिनामयनाग्निहोत्रे भेदो दृश्यते इत्यत्राह - - कर्मस्वरूप इति । आवृत्तेरङ्गान्तरस्य च नैरपेक्ष्यं त एव इति निर्णयफलम् ॥ 34 ॥

अनभिभवं च दर्शयति ॥ 3-4-35 ॥

धर्मेण पापमपनुदति इत्यादिभिश्च … … प्रत्यहं प्रकृष्यमाणा विद्योत्पत्तये । अतस्त एव उभयत्र यज्ञादयः ॥ 35 ॥

अनभिभवं च दर्शयति । आदि शब्दो यज्ञादिवाक्यपरः । अङ्गत्वं तत्कृतकिञ्चित्कारं च वद्द्वाक्यम् यज्ञादिशब्देन तत्तुल्यशब्देन वा निर्दिशतीत्यर्थः ॥ 35 ॥

इति विहितत्वाधिकरणम् - 8