सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ 3-4-28 ॥
वाजिनां छन्दोगानां च प्राणविद्यायां … … प्राणविदः सर्वन्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ॥ 28 ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् । शमाद्यनुष्ठानमुक्तम् ।
शमविशेषरूपभोजननियतिः चिन्त्यते इति सङ्गतिः । प्राणविदोऽपि सर्वान्नानुमतिरस्ति किमुत ब्रह्मविद इत्याद्याभिप्रायिकम् । न तु सूत्रे कण्ठोक्तम् ॥
राद्धान्ते - मटची - अश्मवृष्टिः । इभ्यम् - हस्तिपम् ॥
अबाधाच्च ॥ 3-4-29 ॥
आहाराशुद्धौ सत्त्वशुद्धिः … … प्राणविदोऽल्पशक्तेः सर्वान्नानुमतिरापद्विषयैव ॥ 29 ॥
अबाधाच्च । स्पष्टम् ॥ 29 ॥
अपि स्मर्यते ॥ 3-4-30 ॥
अपि च आपद्विषयमेव सर्वान्नीनत्वं …. …. लिप्यते न स पापेन पद्मपत्रमिवांभसा इति ॥ 30 ॥
अपि स्मर्यते । न परं सर्वान्नीनत्वस्य आपद्विषयत्वं प्राणविदः कल्प्यम ; सर्वेषां कण्ठोक्तं चेत्यर्थः ॥ 30 ॥
शब्दश्चातोऽकामकारे ॥ 3-4-31 ॥
यतो बह्मविदामन्येषां च …. … इति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ॥ 31 ॥
शब्दश्चातोऽकामकारे । ब्राह्मण शब्दः असङ्कोचात् ब्रह्मविदमप्याहेति भावः ॥ 31 ॥
इति सर्वान्नानुमत्यधिकरणम् - 7