शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥ 3-4-27 ॥
गृहस्थस्य शमदमादीन्यपि … …. अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेयाः ॥ 27 ॥
शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् । सङ्गतिः पूर्वपक्षे सफुटा । लत्वशनादिव्यावृत्त्यर्थं प्रयोजनशून्येषु इत्युक्तम् । काम्यं च मुमुक्षाः प्रयोजनशून्यम् । अविहितं- विहितादन्यत् ; अविहिताप्रतिषिद्धं निषिद्धं च ॥ 27 ॥
इति शमदमाद्यधिकरणम् -6