०५ सर्वापेक्षाधिकरणम्

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ 3-4-26 ॥

यदि विद्या यज्ञाद्यानपेक्षैव …. … स्वकर्मणा तमभ्यर्च्य सिदिं्ध विन्दति मानवः इति ॥ 26 ॥

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । सङ्गतिः स्फुटा । यज्ञादिश्रुतिरपि इति । इच्छासाधन्वमाहेति भावः ॥

राद्धान्ते - सत्येव इति । इच्छासाधनत्वे अन्योन्याश्रयत्वादिरभिप्रेतः । न यज्ञापेक्षा , वाक्यादेव तदुत्पत्तेरित्यत्राह - ज्ञानं च इति । आप्रयाणात् इति । अङ्गिनोऽनुवृत्त्याऽङ्गानुवृत्तिरिति भावः । प्रवृत्तिरूपयज्ञादिः मनोव्याकुलायेत्यत्राह - एवंरूपं च इति । अदृष्टद्वारा इति परिहारः ॥ 26 ॥

इति सर्वापेक्षाधिकरणम् - 5