०३ पारिप्लवार्थाधिकरणम्

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ 3-4-23 ॥

प्रतर्दनो ह वै दैवोदासिः ….. … आख्यानश्रुतयः पारिप्लवप्रयोगार्थाः , अपि तु विद्याविध्यर्थाः ॥ 23 ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् । इदं च प्रासङ्गिकम् । रसतमत्वादेः स्तुत्यर्थत्वं पूर्वपक्षीकृतम् । एवं प्रातर्दनाद्याख्यानानि किं स्तुत्यर्थानि न वेति सङ्गतिः । पारिप्लवाः - आख्यानानि ; तच्छंसनार्था इत्यर्थः । प्रतिपादनार्थानि - स्तावकत्वेन प्रतिपादनार्थानि । विद्याविध्यर्थाः - स्तावकतया शेषभूताः तेषामेव। अन्यथा आख्यानानन्त्यात् अशक्यत्वमिति भावः ॥ 23 ॥

तथा चैकवाक्योपबन्धात् ॥ 3-4-24 ॥

आत्मा वा अरे द्रष्टव्यः …. … इत्येवमादेः कर्मविध्यर्थत्वम् ; न पारिप्लवार्थत्वम् ॥ 24 ॥

तथा चैकवाक्योपबन्धात् । उपबन्धः - अन्वयः ॥ 24 ॥

इति पारिप्लवार्थाधिकरणम् - 3