स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ 3-4-21 ॥
इदमिदानीं चिन्त्यते - स एष रसानां … .. उद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ॥ 21 ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् । ब्रह्मसंस्थश्रुतिप्रसङ्गात् रसतमत्वादिपरवाक्यानि स्तुत्यर्थानि नेति शङ्का जायेतेति प्रसङ्गात् सङ्गतिः । पूर्वोक्तपप्तरसापेक्षया अष्टमत्वम् । हेतुं विवृणोति - क्रत्वङ्ग इति । ततः किमित्यत्राह - यथा इति । क्रत्वङ्गोपादानपूर्वकत्वेपि न पर्णतायाः स्तुत्यर्थता , उपादातुं शक्यात्वात् । स्वर्लोकत्वादिकं त्वशक्यमिति भावः ॥
राद्धान्ते - जुह्वादेः पृथिवीत्वादिकमप्यप्राप्तमित्यत्राह - न च इति । न च रसतमत्वादेः
पृथिवीत्वादेरिवोपादातुमशक्यत्वम् , उत्पत्तिरूपेणाशक्यत्वेऽपि ज्ञप्तिरूपेण शक्यत्वात् । पृथिवीत्वादेः ज्ञप्तिरूपेणोपादातुं शक्यत्वेऽपि एकवाक्यत्वप्रतीति बलात् न दृष्टिविध्यर्थतेति भावः । यया कया च इति । रसतमत्वादेरप्राप्तत्वात् न तदनुवादेन स्तुतिः । अयोग्यत्वात् नाप्राप्तविधानेन स्तुनतिः । क्रतुमन्निध्यभावेन एकवाक्यत्वप्रतीत्यभावात् नामुख्यगुणान्वयेन स्तुतिः। अतो दृष्टिविधिरित्यभिप्रायः ॥ 21 ॥
भावशब्दाच्च ॥ 3-4-22 ॥
उपासीत इत्यादिभावशब्दाच्च … …. तस्मादुपासनविधानार्था एताः श्रुतयः ॥ 22 ॥
पूर्वपक्षयुक्तिः परिहृता । स्वपक्षे हेतुरुच्यते - भावशब्दाच्च । भावः - क्रिया ॥ 22 ॥
इति स्तुतिमात्राधिकरणम् -2