०१ पुरुषार्थाधिकरणम्

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ 3-4-1 ॥

गुणोपसंहारानुपसंहारफला … …. तथा विद्वान् नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम् इत्यादि ॥1 ॥

पुरुषार्थोऽतःशब्दादिति बादरायणः । अङ्गिचिन्तानन्तरमङ्गचिन्तेति पादसङ्गतिः । विद्यायाः अङ्गित्वे सति हि तदङ्गस्य चिन्त्यता । अतः तस्या अङ्गित्वं प्रथमं निरूप्यते ॥ 1 ॥

अत्र पूर्वपक्षी प्रत्यवतिष्ठते -

शेषत्वात् पुरुषार्थंवादो यथाऽन्येष्विति जैमिनिः ॥ 3-4-2 ॥

नैतदेवं यद्विद्यातः पुरुषार्थावाप्तिः … … अतः विद्यायाः क्रतुशेषत्वान्नातः पुरुषार्थः ॥ 2 ॥

द्वितीयमवतारयति - अत्र इति । शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः । कर्मसु इति । अधीत्य इति ज्ञानं कर्मशेषमिति आत्मज्ञानमपि तच्छेषम् । क्रतुशेषप्रोक्षणादिद्वारभूतव्रीह्यादेरिव ज्ञातव्यात्मनश्च कर्मशेषतया तत्स्वरूपोक्तिपरत्वादित्यर्थः । ऐतदात्म्यमिदं सर्वम् सर्वं खलु इति अचितेव चिताऽप्यैक्यायोग इति भावः । वेदान्तवाक्येष्वेव - विलक्षणपरतया त्वदुक्तेष्वेवेति भावः । लिङ्गैः - ज्ञापकैः । कर्तु र्जुह्वा इवाव्यभिचरितक्रतुसंबन्धित्वाभावात् न तद्धीः पर्णतावत् क्रत्वङ्गमिति चोदयति - ननु च इति । परिहरति - नैवम् इति ॥ 2 ॥

कानि पुनस्तानि लिङ्गानि , यदुषबृंहित … …..

आचारदर्शनात् ॥ 3-4-3 ॥

ब्रह्मविदां प्राधान्येन कर्मस्वेव …. … कर्मङ्गत्वमेवेति न विद्यातः पुरुषार्थः ॥ 3 ॥

अनन्तरसूत्रावतारायाह - कानि इति । आचारदर्शनात् । गुणमुख्यव्यतिक्रमे मुख्यस्य हि अनुरोद्धव्यता । अतः कर्मप्राधान्यमिति भावः ॥ 3 ॥

लिङ्गमिदम् , प्राप्तिरुच्यतामित्यत्राह -

तच्छØतेः ॥ 3-4-4 ॥

श्रुतिरेव हि विद्यायाः कर्मङ्गत्वमाह … … विद्यया करोति इति विद्यामात्रविषया हीयं श्रुतिः ॥ 4 ॥

लिङ्गम् - अनुग्राहकम् । प्राप्तिः - मानत सिद्धिः । तच्छØतेः । तृतीयाश्रुत्या अङ्गत्वावगमः ॥ 4 ॥

समन्वारंभणात् ॥ 3-4-5 ॥

तं विद्याकर्मणी समन्वारेभेते … …. न्यायेन विद्यायाः कर्मङ्गत्वे सत्येव भवति ॥ 5 ॥

समन्वारंभणात् । विपर्ययेऽपि साहित्यं संभवतीत्यत्राह - उक्तेन इति । न्यायेन - आत्मनः कर्मशेषत्वादिना ॥ 5 ॥

तद्वतो विधानात् ॥ 3-4-6 ॥

विद्यावतः कर्मविधानात् विद्या …. ….. कर्मसु विनियुक्तेति न पृथक्फलायावकल्पते ॥ 6 ॥

तद्वतो विधानात् । अधीत्य इति । स्नात्वा जुहोति इतिवदिति भावः । ततः किमित्यत्राह - अर्थावबोध इति । अर्थधीपर्यन्तता कथमित्यत्राह - - अर्थ इति । श्रुतेरविवक्षितार्थत्वादिदोषपरिहारर्थमित्यर्थः ॥ 6 ॥

नियमात् ॥ 3-4-7 ॥

इचश्च न विद्यातः पुरुषार्थः । … …. कर्मण एव फलमित्यवगम्यते। विद्या तु कर्माङ्गमिति ॥ 7 ॥

नियमात् । कृत्स्नायुषः क्रतुशेषत्वात् , मध्यगतं सर्वं तच्छेषमित्यर्थः

॥ 7 ॥

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे -

आधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॥ 3-4-8 ॥

तुशब्दात् पक्षो व्यावृत्तः … …. श्रूयमाणं फलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्तम् ॥ 8 ॥

राद्धान्ते - अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । लिङ्गेषु सत्सु कथं विद्यातः फलमित्यत्राह - लिङ्गानि इति । उपासनवाक्यानां स्वरूपपरवाक्योक्तगुणसापेक्षत्वात् वेदनोपदेशवाक्येषु इत्युक्तम् । जुहूवत् कर्तुः प्रत्यभिज्ञाभावात् न तद्द्वारा तद्धियः कर्माङ्गत्वमिति फलश्रुतिः नार्थवाद इत्यर्थः

॥ 8 ॥

लिङ्गान्यपि निरस्यन्ते -

तुल्यं तु दर्शनम् ॥ 30-4-9 ॥

यदुक्तं ब्रह्मविदां कर्मनुष्ठानदर्शनात् … … विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते ॥ 9 ॥

तुल्यं तु दर्शनम् । अननुष्ठानेऽपि दर्शनं तुल्यम् इति शब्दार्थः। अनैकान्तिकम् इति फलितोक्तिः । अनैकान्तिकम् - अनियतम् । अनुष्ठानस्यैव दर्शनमिति न नियतमित्यर्थः । अनुष्ठानाननुष्ठानव्याहतिस्त्वन्मत एव । ब्रह्मविद्याफलानामर्थवादत्वात् मोक्षार्थत्वत्रिवर्गार्थत्वविभागानुपपत्तेरित्यभिपयन्नाह - विद्यायाः इति ॥ 9 ॥

यदुक्तं - श्रुत्यैव विद्यायाः … …

असार्वत्रिकी ॥ 3-4-10 ॥

न सर्वविद्याविषयेयं श्रुतिः … … यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते ॥ 10 ॥

असार्वत्रीकी । प्रकरणात् श्रुतिर्बलीयसीत्यत्राह - न हि इति । यत् करोति तद्विद्यया इति नान्बयः , क्लिष्टत्वात् । यद्विद्यया करोति तद्वीर्यवत्तरमित्यन्वये सति विद्यया कार्यमनुवदतो वचसः प्रापकापेक्षायां , तत्प्रापकं प्रकरणं विद्याशब्दं सङ्कोवयति । अतः अनुवादतयाऽन्यसापेक्षस्य विद्ययेति पदस्य स्वतो निश्चयासामर्थ्यात् एकपदसामर्थ्यरूपा श्रुतिर्नेत्यर्थः ॥

यच्चेदमुक्तं , तं विद्याकर्मणी … …

विभागः शतवत् ॥ 3-4-11 ॥

तं विद्याकर्मणी समन्वारभेते … …. रत्नार्थ शतमिति विभागः प्रतीयते ; तथेहापि ॥ 11 ॥

विभागः शतवत् । समन्वारंमणश्रुतेर्मोक्षार्थविद्याकर्मविषयत्वे अयमर्थः - प्रारब्धावसाने मोक्षं दातुं विद्याऽन्वेति ; जन्मान्तरेषऽपि विद्यां जनयितुं कर्मान्वेति इति

॥ 11 ॥

अध्ययनमात्रवतः ॥ 3-4-12 ॥

यदुक्तं - विद्यावतः कर्मविधानात् … … पुरुषार्थसाधन भूताविद्येति न तस्याः कर्मसंबन्धगन्धो विद्यते ॥ 21 ॥

अध्ययनमात्रवतः । आधानवत् इति शब्दस्वारस्यं दर्शितम् । प्रवर्तकाभावात् अनारंभणीयत्वाद्यर्थानुपपतिं्त परिहरति - गृहीतस्य इति । अत्र वक्तव्यं सर्वं प्रथमसूत्रेऽभिहितम् । अर्थधीपर्यन्तत्वमुपगम्याह - यद्यपि इति । विद्याया अध्ययनशब्दवाच्यातिरिक्तत्वादित्यर्थः । यथा इति । अनुष्ठानं प्रति स्वरूपज्ञावत् विद्यां प्रति शास्त्रजन्यं ज्ञानं शेषमित्यर्थः ॥

नाविशेषात् ॥ 3-4-13 ॥

यच्चोक्तं कुर्वन्नेवेह कर्माणि … …. विदुषस्त्वाप्रयाणादुपासनस्यानुवर्तमानत्वात् ॥ 13 ॥

नाविशेषात् । प्रधानानुवृत्त्याऽङ्गानुवृत्तिरुपपन्नेत्याह - विदुषस्तु इति

॥ 13 ॥

एवमर्थस्वाभाव्येन चोद्यं परिहृत्य … …

स्तुतयेऽनुमतिर्वा ॥ 3-4-14 ॥

वाशब्दोऽवधारणार्थः …. …. न कर्म लिप्यते नरे इति । अतो न कर्माङ्गं विद्या ॥ 14 ॥

अर्थस्वाभाव्यम् - अर्थज्ञानादन्यत्वम् ; कर्माङ्गत्वं च । स्तुतयेऽनुमतिर्वा । ईशावास्यम् इति । ईट्शब्दे

तृतीया । ईशेनाऽऽवास्यमिति भावः । न रमते इति नरः । निस्सङ्गे त्वयि न कर्म लिप्यते इति , इतोऽन्यथा नास्ति इदं तत्तवमित्यर्थः ॥ 14 ॥

कामकारेण चैके ॥ 3-4-15 ॥

अपि चैवमेके शाखिनः … …. गार्हस्थ्यत्यागो न संभवति । अतो न विद्या कर्माङ्गम् ॥ 15 ॥

कामकारेण चैके । कामात् यथाभिमताश्रमधर्मानुष्ठानं कामकारः । गार्हस्थ्य इत्याद्यध्याहृतम् । नाङ्गावलम्बेनाङ्गिनस्त्याग इत्यर्थः ॥ 15 ॥

उपमर्दं च ॥ 3-4-6 ॥

पुण्यापुण्यरूपस्य समस्त … … तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते

॥ 16 ॥

उपमर्दं च । न ह्यङ्गेन अङ्गिन उपमर्द इत्यर्थः ॥ 16 ॥

ऊर्ध्वरेतस्तु च शब्दे हि ॥ 3-4-17 ॥

ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्या … …. यावज्जीवश्रुतिस्त्वविरक्तविषया

॥ 17 ॥

ऊर्ध्वेरेतस्सु च शब्दे हि । स्मृतिषु प्रतीयन्ते इत्यत्राह - श्रुति इति । धर्मस्कन्धाः - धर्माश्रयाः ॥ 17 ॥

परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥ 3-4-18 ॥

यदिदं त्रयो धर्मस्कन्धाः … … आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ॥ 18 ॥

परामर्शं जैमिनिरचोदनाच्चापवदति हि । स्फुटम् ॥ 18 ॥

अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ 3-4-19 ॥

गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं …. …देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया ॥ 19 ॥

अनुष्ठेयं बादरायणः साम्यश्रुतेः न साम्यं वाच्यम् , आश्रमान्तरकीर्तनस्यैवाभावादिति शङ्कते - न च इति । व्याख्यानान्तररव्यावृत्त्यर्थमाह - अतो यज्ञः इति । यौगिकः इति । प्रोक्षणीनयाच्चतुर्थाश्रमपरत्वायोगोऽभिप्रेतः । अर्थनुपपत्त्या अपि तदयोगमाह - तच्च सर्वेषाम् इति । तत्र पुण्यलोकभाजः इत्यस्यार्थमाह - ब्रह्मनिष्ठाविकलाः इति ॥ 19 ॥

परामर्शपक्षे विधानपक्षे च …. …

विधिर्वा धारणवत् ॥ 3-4-20 ॥

वाशब्दोऽवधारणार्थः । …. …. अत ऊर्ध्वरेतस्सु च ब्रह्म- विद्याविधानात् विद्यातः पुरुषार्थ इति सिद्धम् ॥ 20 ॥

विधिर्वा धारणवत् । ऋणश्रुतिं#ः - त्रिभिः ऋणवा जायते इत्यादिका। अपवादश्रुतिः - वीरहा इत्यादि #ः । स्वस्वाश्रमधर्मविषयाः इति । तत्तदाश्रमिणां

तत्तद्धर्मानुवृत्तिपराः । न त्वाश्रमान्तराणां विद्याङ्गत्वविरोधिन्यः इत्यर्थः । अधिकरणार्थमुपसंहरति - अतः इति ॥

इति पुरुषार्थाधिकरणम् - 1