संबन्धादेवमन्यत्रापि ॥ 3-3-20 ॥
बृहदारण्यके श्रूयते - सत्यं ब्रह्म … …. ब्रह्मणः सत्यस्यैकत्वेन विद्यैक्यादुभयोरुभयत्रोपसंहारः ॥ 20 ॥
संबन्धादेवमन्यत्रापि । एवं शब्देन सङ्गतिः स्फुटा । उपनिषत् शब्दव्याख्यानं रहस्यनामनी इति । सूत्रार्थमाह - यथा इति ॥ 20 ॥
सिद्धान्तः
एवं प्राप्ते प्रचक्ष्महे -
न वा विशेषात् ॥ 3-3-21 ॥
न वैतदस्ति - यद्विद्यैक्यात् …. … उभयत्र हृदयाधारत्वेनो - पास्यत्वात् । अतो व्यवस्थिते ॥ 21 ॥
दर्शयति च ॥ 3-3-22 ॥
दर्शयति चाक्ष्याधारादित्याधारयोः … स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा ॥ 22 ॥
न वा विशेषात् । दर्शयति च । स्पष्टं सूत्रद्वयम् । स्थानस्योपा स्यान्तर्गत्यनन्तर्गतिकृतभेदाभेदाभ्यां नाम्नो व्यवस्थित्यव्यवस्थिती इति पूर्वपक्ष राद्धान्तौ ॥ 21, 22 ॥
इति संबन्धाधिकरणम् - 7