प्राणविद्याङ्गविषयमन्यदपि निरूपणम् … …
आनन्दादयः प्रधानस्य ॥ 3-3-11 ॥
अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासु .. … सर्वत्रानन्दादयस्तद्गुणा उपसंहर्तव्याः ॥ 11 ॥
मध्ये सङ्गतिवशात् प्रस्तुतमर्थान्तरमवतारयितुं प्राणविद्याङ्गविषय चिन्तान्तरस्य करिष्यमाणत्वमाह - प्राणविद्याङ्ग इति । सङ्गतिमाह - यथा इति । अनुक्तानाम् यदहम् इत्यादिवचनभङ्गया अनुक्तानाम् ॥
आनन्दादयः प्रधानस्य । स्वरूपगुणानाम् - स्वरूपप्रतिषत्त्यनुबन्धिगुणानाम् । अभेदात् इति । अथ शब्दानुशासनम् , केषां शब्दानाम् इतिवत् समस्तैकदेशानुषङ्गः । आनन्दादयः - आनन्दत्वादयः । द्व्येकयोः इतिवत् ॥ 11 ॥
एवं तर्हि गुण्यपृथग्भावादेव … …
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ 3-3 12॥
ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां … … सत्यं ज्ञानमनन्तं ब्रह्म इत्यादि विरुध्यते ॥ 12 ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । उपचयापचयौ - पीनत्वकृशत्वे । आदि शब्दात् अस्थूलमनणु इति वाक्यं गृह्यते ॥
नन्वेवमेव ब्रह्मसंबन्धिनामेव … …..
इतरे त्वर्थसामान्यात् ॥ 3-3-13 ॥
तुशब्दश्चोद्यं व्यावर्तयति … … ये यत्र श्रुताः , ते तत्रोपसंहार्याः इति
निरवद्यम् ॥ 13 ॥
इतरे त्वर्थसामान्यात् । अर्थः - धर्मी । प्रतीतिविषयत्वनियमः साम्यम् । सत्यत्वादीनां तत्प्रतीत्यनुबन्धित्वं दर्शयति - यतो वा इति । उपलक्षितम् इति । विशेष्यांशे उपास्ये कारणत्वमुपलक्षणम् । ज्ञाप्यानन्तर्भावादिति भावः। विशिष्टं कारणवाक्यावगतम् । विशेष्यांशस्तु सत्यत्वादिनिरूप्य इत्यर्थः ॥ 13 ॥
यदि उपचयापचयप्रसङ्गात् प्रियशिरस्त्वादयः … …
आध्यानाय प्रयोजनाभावात् ॥ 3-3-14 ॥
प्रयोजनान्तराभावादाध्यानायायं … … प्रियशिरस्त्वादीनां न सर्वदा आनन्दमयप्रतीतावनुवर्तन्ते ॥ 14 ॥
अनन्तरसूत्रावतारायाह - यदि इति । आध्यानाय प्रयोजनाभावात् । प्रतिपत्त्यर्थम् इति । ध्यानोपयोगिशास्त्रजन्यज्ञानसिद्ध्यर्थमित्यर्थः । न सर्वदा - न उपास्तावपि इत्यर्थः ॥ 14 ॥
आत्मशब्दाच्च ॥ 3-3-15 ॥
अन्योऽन्तर आत्माऽऽनन्दमयः … … तस्य सुखप्रतिपत्त्यर्थं रूपणमात्रमिति गम्यते ॥ 15 ॥
आत्मशब्दाच्च । स्फुटम् ॥ 15 ॥
ननु - अन्योऽन्तर आत्मा प्राणमयः … …
आत्मगृहीतिरितरवदुत्तरात् ॥ 3-3-16 ॥
अन्योऽन्तर आत्माऽऽनन्दमयः … … बहु स्यां प्रजायेय इत्यानन्दमयविषयादुत्तरवाक्यात् ॥ 16 ॥
आत्मगृहीतिरितरवदुत्तरात् । उत्तरात् आत्मगृहीतित्वनिश्चयो दृष्टान्तेऽपि तुल्यः ॥ 16 ॥
अन्वयादिति चेत् स्यादवधारणात् ॥ 3-3-17 ॥
पूर्वत्र प्राणमयादिष्वनात्मस्वात्मशब्दान्वय … … अपरमात्मनि परमात्मबुद्ध्या आत्मशब्दान्वय इति निरवद्यम् ॥ 17 ॥
अन्वयादिति चेत् स्यादवधारणात् । नोत्तरात् इति । उपक्रमो हि प्रबल इति भावः । कुतः इति । उपक्रमस्यापि तथात्वात् न तेनोत्तरबाध इत्यर्थः । तर्हि मध्ये कथं
परमात्मनि प्रयोग इत्यत्राह - अन्नमयात् इति । न तत्राप्यपरमात्मबुद्ध्योपचरितः प्रयोगः । किं तु पूर्वस्मादन्तरत्वमात्रेण परमात्मबुद्धयैव प्रयोगः । ततोऽप्यन्तरदर्शनात् तत्र तद्बुद्धिर्ज्ञाता । पूर्वत्र तु निवृत्ता । पूर्वत्रापि परबुद्ध्या प्रयुक्त इति नोपक्रमबाध इत्यर्थः ॥ 17 ॥
इति आनन्दाद्यधिकरणम् -4