८ फलाधिकरणम्

फलमत उपपत्तेः ॥ 3-2-37 ॥

उक्तमुपासिसिषोपजननार्थं जीवस्य … … न ह्यचेतनं कर्म क्षणध्वंसि कालान्तरभाविफलसाधनं भवितुमर्हति ॥ 37 ॥

फलमत उपपत्तेः । सिद्धान्तोपक्रममिदम् । फलत्वमुक्तम् ; फलदत्वं विरूप्यते इति सङ्गतिः । तच्च कल्याणगुण इति पादान्तर्भावः । साधारणफलशब्दोक्तिफलमाह - तुल्य इति । पूर्वकाण्डे द्वारमात्रं चिन्तितम् । इह तु तद्विशेष इति भिदा । इतरस्यायोग्यत्वमाह - न हि इति ॥

श्रुतत्वाच्च ॥ 3-2-38 ॥

स वा एष महानज आत्मा … .. भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते ॥ 38 ॥

श्रुतत्वाच् । अन्नादः - अन्नदः । न परं योग्यत्वायोग्यत्वाभ्यामस्य फलदत्वं कल्प्यम् । श्रुतं च इत्यर्थः ॥ 38 ॥

संप्रति पूर्वपक्षमाह -

धर्मं जैमिनिरत एव ॥ 3-2-39 ॥

अत एव - उपपत्तेः शास्त्राच्च … … अपूर्वद्वारेण फलसाधनत्वमवगमयति ॥ 39 ॥

धर्मं जैमिनिरत एव । उपपत्तिमाह - लोके इति । श्रुतिमाह - तथा इति । साधनत्वं श्रुतम् । सद्वारकत्वं कल्प्यमिति न विरोधः ॥ 39 ॥

पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ 3-2-40 ॥

तुशब्दः पक्षव्यावृत्त्यर्थः । पूर्वोक्तं … …. परस्मात् पुरुषात् भोगापवर्गरूपं फलं च , वदन्तीति सर्वं समञ्जसम् ॥ 40 ॥

इति फलाधिकरणम् - 8

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

तृतीयस्याध्यास्यय द्वितीयः पादः ॥

सिद्धान्तमाह - पूर्वं तु बादरायणो हेतुव्यपदेशात् । मन्त्रार्थंवादयोरन्यपरत्वमाशङ्कायाह - कामिनः इति । रात्रिसत्रप्रतिष्ठापगोरणशतयातनासाध्यसाधनत्वशर्कराञ्जनद्रव्यपशुविशेषादिवत्

मन्त्रार्थवादोक्तः स्वीकार्यं इति भावः देवता फलदाऽस्तु , अपूर्वमपि स्वीक्रियेतेत्यत्राह एवम् इति । श्रुतहानाश्रुतक्लृप्ती अन्याय्ये इत्यर्थः । वाच्यापूर्वपक्षे न दोष इत्यत्राह - लिङादयः इति । लिङ्वाच्यत्वमपि कल्प्यमिति कॢप्तिद्वयमित्यर्थः । ततः किमित्यत्राह - तदेवम् इति . ततः किं भगवतः फलदत्वे इत्यत्राह - वाय्वादि इति । संभवं दर्शयति - लोके च इति । तर्कविरोधः कालात्ययापदेशहत इत्यभिप्रयन्नाह - वेदान्तास्तु इति । उपबृंहणसिद्धत्वात् स्तुत्यादि उक्तम् । सर्वं - विध्यर्थवादमन्त्रजातमित्यर्थः ॥ 40 ॥

इति फलाधिकरणम् - 8

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर-

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥

च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ