परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ 3-2-30 ॥
इदानीमस्मात् परस्माज्जगन्निमित्तोपादन … … परस्माम् ब्रह्मणः परमपि किञ्चिदस्तीति गम्यते इति ॥ 30 ॥
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । परस्मात् इति प्राप्यतालक्षणं परत्वमुक्तम् । परब्रह्मणः इति तु स्वकार्यापेक्षया परत्वम् । स्थेम्ने - प्राप्यत्वोपयोगिगुणवैकल्ये हि नोभयलिङ्गत्वपौष्कल्यम् । पूर्वत्र निर्दोषत्वं स्थापितम् । इह
तु कल्याणगुणात्मकत्वमिति सङ्गतिः । असङ्करकृत्वव्यावृत्त्यर्थमाह - एतम् इति । तथा इति ।केवलः षष्ठ्यन्तसहितश्चेति भिदा
॥ 30 ॥
सिद्धान्तः
एवं प्राप्तेऽभिधीयते -
सामान्यात् तु ॥ 3-2-31 ॥
तु शब्दः पक्षं व्यावर्तयति … … तरतिश्च प्राप्तिवचनः । यथा वेदान्तं तरति इति ॥ 31 ॥
सामन्यात् तु । तरतेरर्थमाह - एतम् इति ॥ 31 ॥
बुद्ध्यर्थः पादवत् ॥ 3-2-32 ॥
योऽयं चतुष्पात् ब्रह्म षोडशकलम् … … ब्रह्मणो वागादिपादव्यपदेशः उपासनार्थः एवमयमपि ॥ 32 ॥
बुद्ध्यर्थः पादवत् । आनन्त्यात् न कारणविषयमित्यत्राह - जगत्कारणत्वम् इति । अतो यथा इति । निखिलकारणस्य वागाद्यवच्छेदासंभवात् तस्योपासर्थत्वं सिद्धमिति भावः ॥ 32 ॥
स्वयमनुन्मितस्य कथमुपासनार्थतया … …
स्थानविशेषात् प्रकाशादिवत् ॥ 3-2-33 ॥
प्रतिपन्नवागादिस्थानविशेषरूपोपाधि … … घटादिस्थानभेदैः परिच्छिद्यानुसन्धानसंभव इत्यर्थः ॥ 33 ॥
स्थानविशेषात् प्रकाशादिवत् । सूत्रमिदं दृष्टान्तविषयम् ॥ 33 ॥
उपपत्तेश्च ॥ 3-2-34 ॥
यदुक्तम् अमृतस्यैष सेतुः इति …. … तस्यैष आत्माविवृणुते त नूं स्वाम् इत्यनन्योपायत्वश्रवणात् ॥ 34 ॥
उपपत्तेश्च । अनन्योपायत्वम् - प्राप्यस्यैवोपायत्वम् । वृणुते विवृणुते इति तदुभयसिद्धः ॥ 34 ॥
तथाऽन्यप्रतिषेधात् ॥ 3-2-35 ॥
यत् पुनरुक्तं ततो यदुत्तरतरम् … … स एवेहापि परात् परः इति
समष्टिपुरुषात् परत्वेनोच्यते ॥ 35 ॥
तथाऽन्यप्रतिषेधात् । यस्मात् परम् इति पञ्चम्याः परशब्दान्वये समनिषेधो न सिध्येत् । ततश्च तद्वेदनस्यैव मुक्त्त्युपायता न सिध्येत् । सा हि प्रतिज्ञाता तमेव विदित्वा इति । अपर शब्दवैयर्थ्यं च । न तत्समः इति विरोधश्चेति भावः । न च अपरशब्दसङ्कोचः , सङ्कोचान्यथासिद्धेः । ततो यदुत्तरतरम् इत्यत्र ततः शब्दस्य हेत्वर्थता हि वक्ष्यते । अतो न गोबलीवर्दनयः अपरपर्यायस्य अन्य
शब्दस्याव्यवहितान्वयं दर्शयति - तथा इति । श्रुत्यन्तराविरोधमाह - तथा न इति । तद्वाक्यं न कारणविषयमित्यत्राह - तद्धि इति ॥
हिरण्यगर्भशब्दस्य शिवशब्दवत् साधारण्याभावात् , शंभुः स्वयंभूर्द्रुहिणः इति प्रसिद्ध्या शंभ्वादिशब्दोपपत्तेः वाक्यान्तरे धातृशब्दाच्च चतुर्मुखः परमकारणमित्यत्राह - अद्भ्यः इति । विद्युद्वर्णत्वार्णवशायित्व- समानवाक्योक्तलक्ष्मीपतिवैः अवगतपरमपुरुषभावकारणप्रकरणसामर्थ्यान्नेत्यर्थः । परोक्तश्रुतेरर्थमाह - ततः इति । हेत्वर्थत्वे सत्यन्वयं दर्शयति - यदुत्तरतरम् इति । तेनेदं पूर्णं पुरुषेण महान् प्रभुर्वै पुरुषः इति पूर्वापरैकार्थ्यात् सर्वाननशिसोग्रीवादिना पुंसूक्तनारायणानुवाकप्रत्यभिज्ञानाच्च मध्यस्थ शिव शब्दः शाश्वतशिवपरः अन्यथा इति । नान्यः पन्था #ः यस्मात् परम् इति च विरोधौ स्यातामितित्यर्थः ॥ 35 ॥
अनेन सर्वगतत्वमायामशब्ददिभ्यः ॥ 3-2-36 ॥
अनेन - ब्रह्मणा , सर्वगतत्वं - सर्वस्य जगतो व्याप्तत्वं … …. अतः इदं परं ब्रह्मैव सर्वस्मात् परम् ॥ 36 ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः । इदं स्वपक्षे प्रमाणपरं सूत्रम् । नित्यं विभुम् इति श्रुतिः परमपुरुषविषया परात् परं पुरुषम् इति प्रकरणस्थत्वात् । विभुं - प्रभुम् । आदि शब्दात् धारणनियमन पूर्वकव्याप्तिपरं समानाधिकरणं च वाक्यजातं गृहीतम् । पुंसूक्ताद्युक्तत्रिविधापरिच्छेदः समाधिकनिषेधः ब्रह्मशिवकर्मकसर्गसंहारा ह्यन्यथा नोपपद्यन्ते ॥
इति पराधिकरणम् - 7