६ अहिकुण्डलाधिकरणम्

उभयव्यपदेशात् त्वहिकुण्डलवत् ॥ 3-2-26 ॥

मूर्तामूर्तात्मकस्याचित्प्रपञ्चस्य … … तस्यैव ब्रह्मणः संस्थानविशेषा एवाचिद्वस्तूनि ॥ 26 ॥

उभयव्यपदेशात् त्वहिरूकुण्डलवत् । सङ्गतिमाह - मूर्त इति । अचित्प्रसङ्गात् सङ्गतिः। प्रधान इति । पतित्वादिकथनात् शरीरत्वं विवृतं भवति । अहिकुण्डलन्यायेन - एकद्रव्यावस्थाविशेषेण एकजाति योगस्य खण्डादिदृष्टान्ते सत्यपि प्रभातद्वदुपादानं गुणप्रधानभावसद्भावात् । जीवस्येव इति । अंशो नाना इत्यस्मादस्य विभागो द्योतितः । तज्जीवब्रह्मैक्यविषयम् । इदं चाचिद्ब्रह्मविषयम् । पौनरुक्त्यमाशङ्क्याह - इ ह इति । स्फुटम् ॥ 26 ॥

प्रकाशाश्रयवद्वा तेजस्तत्वात् ॥ 3-2-27 ॥

वाशब्दः पक्षव्यावृत्त्यर्थः । ब्रह्मस्वरूपस्यैव … … एव मचित्प्रपञ्चस्य ब्रह्मणो रूपत्वमित्यर्थः ॥ 27 ॥

प्रकाशाश्रयवद्वा तेजस्त्वात् । अहिकुण्डलवत् इति अचिद्ब्रह्मणोः कार्यकारणभावेन भेदाभेदोक्तिः। प्रकाशाश्रयवत् इति । व्यक्त्यात्मना जात्यात्मना च भेदाभेदोक्तिरिति भावः ॥ 27 ॥

पूर्ववद्वा ॥ 3-2-28 ॥

वाशब्दः प्रक्षद्वयव्यावृत्त्यर्थः । … … तथेह जीवस्याचिद्वस्तुनश्च ब्रह्म प्रत्यंशत्वम् ॥ 28 ॥

पूर्ववद्वा । प्रथमपक्षपरिगृहीतव्यावृत्त्यर्थं पक्षद्वयशब्दः । उक्तदोषात् - निर्विकारत्वनिर्दोषत्वबाधात् । सकलश्रुतिस्मृति इति । ब्रह्मत्वं जातिश्चेत् खण्डो मुण्ड इतिवदीश्वरादिशब्दैः जगच्छब्दसामानाधिकरण्यं न स्यात् । ब्रह्मैव जातिश्चेन् सार्वज्ञ्यादिगुणाश्रयत्वानुपपत्तिरिति भावः । किमपृथक्सिद्धधर्मतयाऽशत्वं दृष्टमित्यत्राह - तदेवम् इति ॥ 28 ॥

प्रतिषेधाच्च ॥ 3-2-29 ॥

स वा एष महानज आत्मा … …. ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम् ॥ 29 ॥

प्रतिषेधाच्च । कथं कार्यकारणानन्यत्वादीत्यत्राह - अतः सूक्ष्म इति । इत्यादि इति आदि शब्दात् सामानाधिकरण्यं विवक्षितम् ॥ 29 ॥

इति अहिकुण्डलाधिकरणम् - 6