श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम्॥५॥
अधिकरणार्थः (द्रष्टुं नोद्यम्)
सर्वत्र व्याप्तिमत्य् अपि ब्रह्मणि
निखिल-हेय-प्रत्यनीकता
समस्त-कल्याण-गुणाकरता च
सङ्गतिप्रदर्शनम्
विश्वास-प्रस्तुतिः
दोषदर्शनाद् वैराग्योदयाय
जीवस्यावस्था-विशेषा निरूपिताः॥
Thibaut
The different states of the individual soul have been discussed, to the end that an insight into their imperfections may give rise to indifference towards all worldly enjoyments.
मूलम्
दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिताः
श्रुत-प्रदीपिका
एसङ्गतिमाह - दोष इति ।
ब्रह्मणो हेयप्रत्यनीकत्वं कल्याणगुणाकरत्वं च पादार्थः । स्वप्नार्थ-स्रष्टृवत्व–सुषुप्ति-स्थानत्वयोर् अपि
कल्याण-गुण-रूपत्वाद् इह सङ्गतिः ।
मूर्छा तु सुषुप्ति-सापेक्षत्वाद् इह चिन्तिता ॥
विश्वास-प्रस्तुतिः
इदानीं ब्रह्म-प्राप्ति-तृष्णा-जननाय
प्राप्यस्य ब्रह्मणो निर्दोषत्व-कल्याण-गुणात्मकत्व-प्रतिपादनायारभते।
Thibaut
Next now, in order to give rise to the desire of attaining to Brahman,
the Sūtras proceed to expound how Brahman’s nature is raised above all imperfections
and constituted by mere blessed qualities.
मूलम्
इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायारभते।
संशयप्रतिपादनम्
विश्वास-प्रस्तुतिः
तत्र जागर-स्वप्न-सुषुप्ति-मुग्ध्य्-उत्क्रान्तिषु स्थानेषु
तत्-तत्-स्थान-प्रयुक्ता
जीवस्य ये दोषाः
ते तद्-अन्तर्यामिणः परस्य ब्रह्मणोऽपि
तत्र तत्रावस्थितस्य सन्ति,
नेति विचार्यते।
Thibaut
The following point requires to be considered first.
Do those imperfections which cling to the individual soul in consequence of its different states–
viz. the waking state, dreams, deep sleep, swoon, departure from the body–
affect also the highest Brahman which as its inner Ruler abides within the soul in those different states, or not?
मूलम्
तत्र जागरस्वप्नसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषाः ते तदन्तर्यामिणः परस्य ब्रह्मणोऽपि तत्र तत्रावस्थितस्य सन्ति, नेति विचार्यते।
पूर्वपक्षः - देहसम्बन्धात्
विश्वास-प्रस्तुतिः
किं युक्तम्? सन्तीति।
कुतः? तत्-तद्-अवस्थ-शरीरे ऽवस्थानात्।
Thibaut
–They do affect it, since Brahman abides within the bodies which are in those different states.
मूलम्
किं युक्तम्? सन्तीति।
कुतः? तत्तदवस्थशरीरेऽवस्थानात्।
दोष-सम्बन्ध+अयोगाक्षेप-परिहारौ
विश्वास-प्रस्तुतिः
ननु
सम्भोग-प्राप्तिर् इति चेन् न - वैशेष्यात् (शारी.१.२.८)
स्थित्य्-अदनाभ्यां च (शारी.१.३.६)
इत्यादिषु
परस्याकर्मवश्यत्वेन दोषाभाव उक्तः,
तत् कथम् अ-कर्म-वश्यस्य परस्य ब्रह्मणस्
तत्-तत्-स्थान-सम्बन्धाद् दोष उच्यते?
Thibaut
–But Sūtras such as I, 2, 8 have already declared that the highest Brahman, because not subject to the influence of karman, is free from all imperfections; how then can imperfections cling to it for the reason that it is connected with this or that place?–
मूलम्
ननु सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् (शारी.१.२.८) स्थित्यदनाभ्यां च (शारी.१.३.६) इत्यादिषु परस्याकर्मवश्यत्वेन दोषाभाव उक्तः, तत्कथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थानसम्बन्धाद्दोष उच्यते;
विश्वास-प्रस्तुतिः
इत्थम् उच्यते –
कर्माण्य् अपि देह-सम्बन्धम् आपादयन्त्य्,
अ-पुरुषार्थ-जननानि भवन्ति –
इति देह-योगाद् वा (शारी.३.२.५) इत्य्-अत्रोक्तम्;
Thibaut
In the following way.
As was shown under III, 2, 6, works give rise to imperfection and suffering in so far as they cause the connexion of the soul with a body.
मूलम्
इत्थमुच्यते – कर्माण्यपि देहसम्बन्धमापादयन्त्यपुरुषार्थजननानि भवन्ति – इति देहयोगाद्वा (शारी.३.२.५) इत्यत्रोक्तम्;
श्रुत-प्रदीपिका
अनुत्थानशङ्कां परिहरति - इत्थम् इति । राज-कोप-द्वार-भूत–खड्ग-प्रहारस्येव
द्वार-हेतोः साक्षाद्-अपुरुषार्थ-हेतुत्वात्
स्वेच्छाधीनत्वे ऽपि तथात्वानपगमात् पूर्वपक्षोत्थानमित्यर्थः ।
विश्वास-प्रस्तुतिः
तच् च देह-सम्बन्धस्यापुरुषार्थत्वेन भवति;
इतरथा कर्माण्य् एव दुःखं जनयिष्यन्ति; किं देहसम्बन्धेन;
Thibaut
The efficient cause therein is the imperfection inherent in the connexion with a body; for otherwise the works themselves would directly give rise to pain, and what then would be the use of the connexion with a body?
मूलम्
तच्च देहसम्बन्धस्यापुरुषार्थत्वेन भवति;
इतरथा कर्माण्येव दुःखं जनयिष्यन्ति; किं देहसम्बन्धेन;
विश्वास-प्रस्तुतिः
अतोऽकर्मवश्यत्वे सत्य् अपि नाना-विधाशुचि-देह-सम्बन्धो ऽपुरुषार्थ एव;
Thibaut
Hence, even in the case of a being not subject to karman, its connexion with various unholy bodies will cause imperfection and suffering.
मूलम्
अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचिदेहसम्बन्धोऽपुरुषार्थ एव;
विश्वास-प्रस्तुतिः
अतस् तन्-नियमनार्थं
स्वेच्छया तत्-प्रवेशेऽप्य्
अ-पुरुषार्थ–सम्बन्धो ऽवर्जनीयः;
Thibaut
And even when such a being voluntarily enters into such bodies in order to rule them, connexion with imperfections is unavoidable;
मूलम्
अतस्तन्नियमनार्थं स्वेच्छया तत्प्रवेशेऽप्यपुरुषार्थसम्बन्धोऽवर्जनीयः;
विश्वास-प्रस्तुतिः
पूय-शोणितादि-मज्जनं हि
स्वेच्छा-कारितम् अप्य्
अपुरुषार्थ एव ।
Thibaut
no less than to be immersed in blood and purulent matter, even if done voluntarily, will make a man unclean.
मूलम्
पूयशोणितादिमज्जनं हि स्वेच्छाकारितमप्यपुरुषार्थ एव ।
पूर्वपक्षार्थनिगमनम्
विश्वास-प्रस्तुतिः
अतो यद्य् अपि
जगद्-एक-कारणं सर्व-ज्ञत्वादि–कल्याण-गुणाकरं च ब्रह्म,
तथा ऽपि
यः पृथिव्यां तिष्ठन् (बृह.५.७.३)
य आत्मनि तिष्ठन् (बृह.५-७-२२)
यश् चक्षुषि तिष्ठन् (बृह.५-७-१८)
यो रेतसि तिष्ठन् (बृह.५.७.२३)
इत्य्-आदि-वचनात्
तत्र तत्रावस्थितस्य तत्-तत्-सम्बन्ध-रूपापुरुषार्थास् सन्तीति॥
Thibaut
Although therefore Brahman is the sole cause of the world and a treasure-house of all blessed qualities, yet it is affected by the imperfections springing therefrom that, as declared by Scripture, it abides within matter, bodies, and their parts, and thus is connected with them
(cp. ‘he who abides within earth, within the soul, within the eye, within the seed,’ &c., Br̥. Up. III, 7, 3).
मूलम्
अतो यद्यपि जगदेककारणं सर्वज्ञत्वादिकल्याणगुणाकरं च ब्रह्म, तथापि यः पृथिव्यां तिष्ठन् (बृह.५.७.३) य आत्मनि तिष्ठन् (बृह.५-७-२२) यश्चक्षुषि तिष्ठन् (बृह.५-७-१८) यो रेतसि तिष्ठन् (बृह.५.७.२३) इत्यादिवचनात् तत्र तत्रावस्थितस्य तत्तत्सम्बन्धरूपापुरुषार्थास्सन्तीति॥
सिद्धान्तः - सूत्रार्थविवरणम्
विश्वास-प्रस्तुतिः
एवं प्राप्ते प्रचक्ष्महे – न स्थानतोऽपि परस्य – इति ।
मूलम्
एवं प्राप्ते प्रचक्ष्महे – न स्थानतोऽपि परस्य – इति ।
विश्वास-प्रस्तुतिः
न स्थानतोऽपि +++(हेयगुणिता परस्य)+++ -
परस्योभयलिङ्गं सर्वत्र हि ॥ 3-2-11 ॥
Thibaut
Not on account of place even (is there any imperfection) of the Highest;
for everywhere (it is described) as having twofold characteristics.
मूलम्
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ 3-2-11 ॥
श्रुत-प्रदीपिका
स्थानेषु - अवस्थासु ।
तत्-तद्-अवस्थ-शरीरे - जागारदिहेतुत्वावस्थद्-इशरीरे ।
विश्वास-प्रस्तुतिः
न पृथिव्य्-आत्मादि-स्थानतोऽपि
परस्य ब्रह्मणः
अ-पुरुषार्थ-गन्धस् सम्भवति ।
Thibaut
Of this primā facie view the Sūtra disposes by saying–‘Not even from place, such as earth, soul, &c., is there possible for the highest Self a shadow even of imperfection;
मूलम्
न पृथिव्यात्मादिस्थानतोऽपि परस्य ब्रह्मणः अपुरुषार्थगन्धस्सम्भवति ।
श्रुत-प्रदीपिका
पृथिव्यात्मादि इति ।
“तत्संसर्गौ च पञ्चम” इति नयाद्+++(=??)+++
आत्मनि स्थिता नाशुद्धिर्
इत्य् आत्मोपादानम् ॥ 12 ॥
विश्वास-प्रस्तुतिः
कुतः?
“उभयलिङ्गं सर्वत्र हि” –
यतः सर्वत्र श्रुति-स्मृतिषु
परं ब्रह्म
उभयलिङ्गम् – उभय-लक्षणम् अभिधीयते,
निरस्त-निखिल-दोषत्व–
कल्याण-गुणाकरत्व-लक्षणोपेतम् इत्य्-अर्थः।
Thibaut
since everywhere in Scripture as well as Smr̥ti Brahman is described as having characteristics of a double kind; viz. on the one hand freedom from all imperfections, and on the other possession of all blessed qualities.
मूलम्
कुतः? उभयलिङ्गं सर्वत्र हि – यतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्म उभयलिङ्गम् – उभयलक्षणमभिधीयते, निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपेतमित्यर्थः।
विश्वास-प्रस्तुतिः
अपहत-पाप्मा विजरो विमृत्युर् विशोको
विजिघत्सो+++(=अबुभुक्षः)+++ ऽपिपासस्
सत्य-कामः सत्य-सङ्कल्पः
(छा.८.१.५)
Thibaut
For Scripture says that the Supreme Person is free from evil, free from old age, free from death, free from grief, free from hunger and thirst; that all his wishes realise themselves, that all its purposes realise themselves’ (Cḥ. Up. VIII, 1, 5)–
मूलम्
अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामः सत्यसङ्कल्पः (छा.८.१.५)
विश्वास-प्रस्तुतिः
समस्त-कल्याण-गुणात्मकोऽसौ
स्व-शक्ति-लेशाद् धृत-भूत-सर्गः (वि.पु.६.५.८४)
Thibaut
And Smr̥ti says, ‘He comprises within himself all blessed qualities, by a particle of his power the whole mass of beings is supported.’
मूलम्
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः (वि.पु.६.५.८४)
विश्वास-प्रस्तुतिः
तेजो-बलैश्वर्य-महावबोध–
सुवीर्य-शक्त्य्-आदि-गुणैक-राशिः।
परः पराणां सकला न यत्र
क्लेशादयस् सन्ति परावरेशे (वि.पु.६.५.८५)
Thibaut
In him there are combined energy, strength, might, wisdom, valour, and all other noble qualities. He is the Highest of the high, no pain or other imperfections affect him, the Lord of all, high or low.
मूलम्
तेजोबलैश्वर्यमहावबोध–सुवीर्यशक्त्यादिगुणैकराशिः। परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे (वि.पु.६.५.८५)
विश्वास-प्रस्तुतिः
समस्त-हेय-रहितं
विष्ण्वाख्यं परमं पदम् (वि.पु.२.२२.५३)
Thibaut
From all evil he is free, he whose name is Vishṇu, the highest abode.
मूलम्
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् (वि.पु.२.२२.५३)
विश्वास-प्रस्तुतिः
इत्य्-आदि-श्रुति-स्मृतिभ्यः
उभय-लक्षणं हि ब्रह्मावगतम् ॥११॥
Thibaut
These and other passages teach that Brahman possesses the double characteristics stated above.
मूलम्
इत्यादिश्रुतिस्मृतिभ्यः उभयलक्षणं हि ब्रह्मावगतम् ॥११॥
विश्वास-प्रस्तुतिः
३२६. भेदाद् इति चेन् - न -
प्रत्येकम् अ-तद्-वचनात् ।॥ ३–२–१२ ॥
Thibaut
- Should it be said ‘on account of difference’; not so, because with reference to each the text says what is not that.
मूलम्
३२६. भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ३–२–१२ ॥
विश्वास-प्रस्तुतिः
यथा जीवस्य प्रजा-पति–वाक्यावगतापहत-पाप्मत्वाद्य्–
उभय-लिङ्गस्यापि देवादि-देह-योग-रूपावस्था-भेदाद्
अ-पुरुषार्थ-योगः,
तथा ऽन्तर्-यामिणः परस्यापि
स्वतो ऽपहत-पाप्मत्वाद्य्-उभय-लिङ्गस्य
तत्-तद्-देवादि-शरीर-योग-रूपावस्था-भेदाद्
अ-पुरुषार्थ-योगो ऽवर्जनीय
इति चेत्
तन् न,
प्रत्येकम् अ-तद्-वचनात्
Thibaut
But, an objection is raised,
we observe,
that the individual soul also,
although in reality possessing the same twofold attributes,
viz. freedom from all evil and so on,
as we learn from the teaching of Prajāpati (Cḥ. Up. VIII, 7),
yet is affected with imperfections
owing to the fact that
it is connected with bodies, divine, human, and so on,
and thus undergoes a variety of conditions.
Analogously
we cannot avoid the conclusion that
the inner Ruler also,
although in reality possessing those same twofold attributes,
is also affected by imperfection,
because through its connexion with those different bodies
it likewise undergoes a variety of conditions.–
This objection
the Sūtra sets aside in the words,
’not so,
because with reference to each
the text says what is not that,’
i.e. what is contrary.
मूलम्
यथा जीवस्य प्रजापतिवाक्यावगतापहतपाप्मत्वाद्युभयलिङ्गस्यापि देवादिदेहयोगरूपावस्था-भेदादपुरुषार्थयोगः, तथाऽन्तर्यामिणः परस्यापि स्वतोऽपहतपाप्मत्वाद्युभयलिङ्गस्य तत्तद्देवादिशरीरयोग-रूपावस्थाभेदादपुरुषार्थयोगोऽवर्जनीय इति चेत् तन्न, प्रत्येकमतद्वचनात्
श्रुत-प्रदीपिका
जीवस्योभय-सलिङ्गकत्वेऽपि तत्-तद्-देह-योग-रूपावस्था-भेदेन ह्य् अ-पुम्-अर्थः, तथा परस्यापीत्य्-अर्थः ।
परिहरति तन्न इति ।
विश्वास-प्रस्तुतिः
यः पृथिव्यां तिष्ठन् (बृ.५.७.३)
य आत्मनि तिष्ठन् (बृह.५.७.३)
इत्य्-आदिषु प्रतिपर्यायं
स त आत्मा ऽन्तर्याम्य् अमृतः+++(→अदोषलिप्तः, नित्य-जीवात्म-व्यावर्तितत्वात्)+++ (बृ.५.७.३)
इत्य् अन्तर्यामिणो ऽमृतत्व-वचनेन
तत्र तत्र स्वेच्छया +++(न कर्म-वशान्)+++ नियमनं कुर्वतस्
+++(नित्य-जीवात्म-सहित-)+++तत्-तत्-सम्बन्ध-प्रयुक्तापुरुषार्थ-प्रतिषेधात् ।
Thibaut
For where the text says that
the inner Ruler dwells within the earth,
within the soul,
within the eye, and so on,
it concludes each clause by saying,
’that is thy Self,
the inner Ruler,
the immortal one,’
i.e. declares the inner Ruler to be immortal, and thus denies of him any imperfections due to his connexion with the bodies
which he voluntarily enters in order to rule them.
मूलम्
यः पृथिव्यां तिष्ठन् (बृ.५.७.३)
य आत्मनि तिष्ठन् (बृह.५.७.३)
इत्यादिषु प्रतिपर्यायं
स त आत्माऽन्तर्याम्यमृतः (बृ.५.७.३) इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्र तत्र स्वेच्छया नियमनं कुर्वतस्तत्तत्सम्बन्धप्रयुक्तापुरुषार्थ-प्रतिषेधात् ।
श्रुत-प्रदीपिका
आवृत्तत्वात्
क्षित्य्-आदि-संबन्धस्य जीवस्य
नित्यत्वेनाशङ्कनीयस्य व्यावर्त्यत्वायोगाच् च
अमृत-शब्दो न नित्यत्व-परः,
किं तु तत्-तद्-दोष-राहित्य-परः ।
विश्वास-प्रस्तुतिः
जीवस्य तु
तत्–स्व-रूपं तिरो-हितम् इति
पराभिध्यानात् तु तिरो-हितम् (ब्र.सू.३.२.४)
इत्य्-अत्रोक्तम्।
Thibaut
The true (perfect) nature of the individual soul, on the other hand, is obscured as long as it is connected with a body, as we have explained under III, 2, 5.–
मूलम्
जीवस्य तु तत्स्वरूपं तिरोहितमिति पराभिध्यानात्तु तिरोहितम् (ब्र.सू.३.२.४) इत्यत्रोक्तम्।
श्रुत-प्रदीपिका
जीवस्य तिरो-धानादि-श्रुति-वशाद्
उभय-लिङ्गत्व-श्रुति-सङ्कोचः ,
न तु परस्येत्यर्थः ।
वस्तु–स्व-भावायत्तम् सुख-दुःखादि?
शङ्का
विश्वास-प्रस्तुतिः
ननु स्वेच्छया कुर्वतोऽपि
तत्-तद्-वस्तु–स्व-भावायत्तापुरुषार्थ-सम्बन्धो ऽवर्जनीय
इत्य् उक्तम्;
नैतद् युक्तम्
Thibaut
But, as the Pūrvapakshin has pointed out, even if the highest Self voluntarily enters into bodies, it cannot escape connexion with the imperfections which depend on the essential nature of those bodies.–Not so, we reply.
मूलम्
ननु स्वेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्तापुरुषार्थसम्बन्धोऽवर्जनीय इत्युक्तम्; नैतद्युक्तम्
परिहारः - कर्मायत्तम्
विश्वास-प्रस्तुतिः
न ह्य् अ-चिद् वस्त्व् अपि
स्व-भावतो ऽपुरुषार्थ–स्व-रूपम्;
Thibaut
The fact is, that not even non-sentient things are, essentially or intrinsically, bad;
मूलम्
नह्यचिद्वस्त्वपि स्वभावतोऽपुरुषार्थस्वरूपम्;
श्रुत-प्रदीपिका
न हि इति । वस्तु-स्व-भावायत्तत्वाभावान् नापुम्-अर्थत्वम् इत्यर्थः ।
विश्वास-प्रस्तुतिः
कर्म-वश्यानां तु
कर्म-स्व-भावानुगुण्येन
परम-पुरुष-सङ्कल्पाद्
एकम् एव वस्तु
काल-भेदेन पुरुष-भेदेन च
सुखाय दुःखाय च भवति;
Thibaut
but in accordance with the nature of the works of those beings which are under the rule of karman, one thing, owing to the will of the Supreme Person, causes pain to one man at one time and pleasure at another time, and causes pleasure or pain to one person and the opposite to another person.
मूलम्
कर्मवश्यानां तु कर्मस्वभावानुगुण्येन परमपुरुषसङ्कल्पादेकमेव वस्तु कालभेदेन पुरुषभेदेन च सुखाय दुःखाय च भवति;
विश्वास-प्रस्तुतिः
वस्तु–स्व-रूप-प्रयुक्ते तु ताद्-रूप्ये
सर्वं सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात्;
न चैवं दृश्यते;
Thibaut
If the effects of things depended on their own nature only, everything would at all times be productive for all persons, either of pleasure only or of pain only. But this is not observed to be the case.
मूलम्
वस्तुस्वरूपप्रयुक्ते तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखायैव दुःखायैव वा स्यात्; नचैवं दृश्यते;
श्रुत-प्रदीपिका
ताद्रूप्ये - सुखदुःखहेतुत्वे । न ह्येकस्य विरुद्धमाकारद्वयं स्वभाव इति भावः ।
विश्वास-प्रस्तुतिः
तथा चोक्तं –
नरक-स्वर्ग-संज्ञे वै
पाप-पुण्ये द्विजोत्तम।
वस्त्व् एकम् एव दुःखाय
सुखायेर्ष्यागमाय च।
कोपाय च यतस् तस्माद्
वस्तु वस्त्व्-आत्मकं कुतः।
Thibaut
In agreement herewith Smr̥ti says,
‘Because one and the same thing causes pain and pleasure and envy and wrath, the nature of a thing cannot lie in itself.
मूलम्
तथाचोक्तं –
नरकस्वर्गसंज्ञे वै
पापपुण्ये द्विजोत्तम।
वस्त्वेकमेव दुःखाय
सुखायेर्ष्यागमाय च।
कोपाय च यतस्तस्माद्
वस्तु वस्त्वात्मकं कुतः।
श्रुत-प्रदीपिका
न परमुपपत्त्या कर्मनिबन्धनत्वं क्लृप्तम् , कण्ठोक्तं चेत्याह - तथा च इति ।
पुरुषभेदेन सुखदुःखकरत्वमाह - नरकस्वर्ग इति ।
विश्वास-प्रस्तुतिः
तद् एव प्रीतये भूत्वा
पुनर् दुःखाय जायते।
तद् एव कोपाय यतः
प्रसादाय च जायते।
तस्माद् दुःखात्मकं नास्ति
न च किञ्चित् सुखात्मकम्(वि.पु.२.६.४६,४७,४८)
इति ।
Thibaut
As the same thing
which erst gave rise to love causes pain later on,
and that which once caused anger now causes satisfaction,
nothing is in itself of the nature either of pleasure or of pain.’
मूलम्
तदेव प्रीतये भूत्वा
पुनर्दुःखाय जायते।
तदेव कोपाय यतः
प्रसादाय च जायते।
तस्माद्दुःखात्मकं नास्ति
न च किञ्चित्सुखात्मकम्(वि.पु.२.६.४६,४७,४८)
इति ।
श्रुत-प्रदीपिका
कालभेदेनैकस्यैकं प्रति तद्धेतुत्वमाह - तदेव इति ॥ 12 ॥
विश्वास-प्रस्तुतिः
अतो जीवस्य कर्म-वश्यत्वात्
तत्-तत्-कर्मानुगुण्येन
तत्-तद्-वस्तु-सम्बन्ध एवापुरुषार्थस् स्यात्;
Thibaut
To the soul therefore which is subject to karman the connexion with different things is the source of imperfection and suffering, in agreement with the nature of its works;
मूलम्
अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्ध एवापुरुषार्थस्स्यात्;
विश्वास-प्रस्तुतिः
परस्य तु ब्रह्मणः स्वाधीनस्य
स एव सम्बन्धस्
तत्-तद्-विचित्र-नियमन-रूप-लीला-रसायैव स्यात्॥१२॥
Thibaut
while to the highest Brahman, which is subject to itself only, the same connexion is the source of playful sport, consisting therein that he in various ways guides and rules those things.
मूलम्
परस्य तु ब्रह्मणः स्वाधीनस्य स एव सम्बन्धस्तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात्॥१२॥
अपुरुषार्थायोगः श्रुतिकण्ठोक्तः
विश्वास-प्रस्तुतिः
३२७. अपि चैवमेके ॥ ३–२–१३ ॥
Thibaut
- Some also (teach) thus.
मूलम्
३२७. अपि चैवमेके ॥ ३–२–१३ ॥
विश्वास-प्रस्तुतिः
अपि च एके शाखिनः
एकस्मिन्न् एव देह-संयोगे
जीवस्यापुरुषार्थं
परस्य तु तद्-अभावं
नियमन-रूपैश्वर्यायत्त-दीप्ति-योगं च स्व-शब्देनाधीयते –
Thibaut
Moreover, the followers of one śākhā explicitly teach that the connexion with one and the same body is for the individual soul a source of disadvantage, while for the highest Brahman it is nothing of the kind, but constitutes an accession of glory in so far as it manifests him as a Lord and Ruler,
मूलम्
अपि च एके शाखिनः एकस्मिन्नेव देहसंयोगे जीवस्यापुरुषार्थं परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशब्देनाधीयते –
श्रुत-प्रदीपिका
अपि चैवमेके । स्फुटम् ॥ 13 ॥
विश्वास-प्रस्तुतिः
द्वा सुपर्णा स-युजा सखाया
समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्व्-अत्त्य्
अनश्नन्न् अन्यो अभिचाकशीति +++(=अभीक्षते)+++
(मु.३.१.१)
इति ॥१३॥
Thibaut
‘Two birds, inseparable friends, cling to the same tree. One of them eats the sweet fruit, the other looks on without eating’ (Mu. Up. III, 1, 1).–
मूलम्
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मु.३.१.१) इति ॥१३॥
ब्रह्मानुप्रवेश-श्रुतिः
आक्षेपः
विश्वास-प्रस्तुतिः
अथ स्यात् –
अनेन जीवेनाऽत्मनाऽनुप्रविश्य
नामरूपे व्याकरवाणि
(छा.६-३-२)
इति ब्रह्मात्मक-जीवानुप्रवेश-पूर्वकं
नाम-रूप-व्याकरणम्
इति ब्रह्मणोऽपि तद्-आत्म-भूतस्य देव-मनुष्यादि-रूपत्वं
तन्-नाम-भाक्त्वं चास्ति,
Thibaut
But the text, ‘Having entered by means of that jīva-self I will differentiate names and forms,’
teaches that
the differentiation of names and forms
depends on the entering into the elements of the jīva-soul
whose Self is Brahman,
and this implies that Brahman also,
as the Self of the individual soul,
possesses definite shapes, divine, human, and so on,
and is to be denominated by the corresponding names.
मूलम्
अथ स्यात् – अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६-३-२) इति ब्रह्मात्मकजीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽपि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्नामभाक्त्वं चास्ति,
श्रुत-प्रदीपिका
अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति ।
अरूपवद् एव हि तत्-प्रधानत्वात् ।
विश्वास-प्रस्तुतिः
ततश्च “ब्राह्मणो यजेत” इत्य्-आदि–विधि-निषेध-शास्त्र-गोचरत्वेन कर्म-वश्यत्वम् अवर्जनीयिम् इति; – तत्राह –
Thibaut
Brahman thus falls within the sphere of beings to which injunctions and prohibitions are addressed–such as ‘a Brāhmaṇa is to sacrifice’–and hence necessarily is under the power of karman.–To this the next Sūtra replies.
मूलम्
ततश्च ब्राह्मणो यजेत इत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्जनीयिमिति; – तत्राह –
परिहारः - अ-रूप-तुल्यतेति
विश्वास-प्रस्तुतिः
३२८. अ-रूपवद् एव हि
तत्-प्रधानत्वात् ॥ ३–२–१४ ॥
Thibaut
- For (Brahman is) without form merely, since it is the principal agent with regard to that.
मूलम्
३२८. अरूपवदेव हि तत्प्रधानत्वात् ॥ ३–२–१४ ॥
विश्वास-प्रस्तुतिः
देवादि-शरीरानुप्रवेशे
तेन रूपेण युक्तम् अप्य्
अ-रूपवद् एव तद् ब्रह्म
रूप-त्रहित-तुल्यम् एव;
Thibaut
Brahman, although by entering into bodies, human, divine, and so on, it becomes connected with various forms, yet is in itself altogether devoid of form,
मूलम्
देवादिशरीरानुप्रवेशे तेन रूपेण युक्तमप्यरूपवदेव तत् ब्रह्म रूपरहिततुल्यमेव;
विश्वास-प्रस्तुतिः
जीववच् छरीरित्व-निबन्धनं कर्म-वश्यत्वम् अस्य न विद्यत इत्यर्थः ।
Thibaut
and therefore does not share that subjection to karman
which in the case of the soul is due to its embodiedness.
मूलम्
जीववच्छरीरित्वनिबन्धनं कर्मवश्यत्वमस्य न विद्यत इत्यर्थः ।
श्रुत-प्रदीपिका
केनाकारेणारूपतुल्यत्वमित्यत्राह - जीववत् इति ।
विश्वास-प्रस्तुतिः
कुतः? निर्वाहकत्वेन प्रधानत्वात् ।
Thibaut
–Why?–Because as it is that which brings about names and forms it stands to them in the relation of a superior (pradhāna).
मूलम्
कुतः? निर्वाहकत्वेन प्रधानत्वात् ।
विश्वास-प्रस्तुतिः
आकाशो ह वै नाम-रूपयोर् निर्वहिता
ते यद्-अन्तरा तद् ब्रह्म (छा.८.१४.१)
इति सर्वानुप्रवेशेऽपि नाम-रूप-कार्यास्पर्शेन
नाम-रूपयोर् निर्वोढृत्वम् एव
ब्रह्मणः प्रतिपादयति।
Thibaut
For the text, ‘The Ether (Brahman) indeed is the accomplisher of names and forms; that which is without these two is Brahman,’ teaches that Brahman, although entering into all beings, is not touched by name and form, but is that which brings about name and form.
मूलम्
आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म (छा.८.१४.१) इति सर्वानुप्रवेशेऽपि नामरूपकार्यास्पर्शेन नामरूपयोर्निर्वोढृत्वमेव ब्रह्मणः प्रतिपादयति।
अ-रूपत्वय् आक्षेपः
विश्वास-प्रस्तुतिः
ननु तच्-छरीरकत्वेन तद्-अन्तर्यामित्वे
कथम् अ-रूपवद् इति रूप-सम्बन्ध-रहित-तुल्यत्वम् उच्यते?
Thibaut
–But, an objection is raised, if Brahman is the inner ruler of beings in so far as he has them for its body, how can it be said that it is altogether destitute of form?–
मूलम्
ननु तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसम्बन्धरहिततुल्यत्वमुच्यते?
श्रुत-प्रदीपिका
ननु इति । कथं कार्यानन्वयः , नियमनादिकार्यान्वयात् धीशब्दपर्यवसानेन कर्मवश्यत्वान्वयाच्चेत्यर्थः ।
अ-सुख-दुःख-भाक्त्वम् अ-रूपत्वम्
विश्वास-प्रस्तुतिः
इत्थं –
यथा जीवस्य तत्-तज्-जन्य–सुख-दुःख-भाक्त्वेन तत्-तद्-रूप-सम्बन्धः,
तथा तद्-अभावात् परस्यारूपवत्त्वम्।
Thibaut
There is a difference, we reply. The individual soul is connected with the shape of the body in which it dwells because it participates in the pleasures and pains to which the body gives rise; but as Brahman does not share those pleasures and pains, it has no shape or form.
मूलम्
इत्थं – यथा जीवस्य तत्तज्जन्यसुखदुःखभाक्त्वेन तत्तद्रूपसम्बन्धः, तथा तदभावात्परस्यारूपवत्त्वम्।
श्रुत-प्रदीपिका
परिहगति - इत्थम् इति । सुख-दुःख-कार्य-विशेषास्पर्शो विवक्षितः ,
न तु नियमनाद्य्-अ-स्पर्शः ।
विश्वास-प्रस्तुतिः
विधि-निषेध-शास्त्राण्य् अपि
कर्म-वश्यम् एवाधिकुर्वन्ति;
तस्माद् अ-रूप-तुल्यम् एव परं ब्रह्म।
Thibaut
And the scriptural injunctions and prohibitions apply to those only who are under the power of karman. The highest Brahman therefore is like a being without form,
मूलम्
विधिनिषेधशास्त्राण्यपि कर्मवश्यमेवाधिकुर्वन्ति; तस्मादरूपतुल्यमेव परं ब्रह्म।
श्रुत-प्रदीपिका
धीशब्दपर्यवसायिकं कर्मान्वयं परिहरति - विधि इति ।
निष्कर्षक-शब्दवत् ब्राह्मणादि-शब्दाः जीव-पर्यन्ताः स्युः ।
पर-पर्यन्तत्वेऽपि
“गौरो ब्राह्मण” इति गौरत्ववत्
विशेषण-भूत-जीव-द्वारकं वा
कर्म-वश्यत्वं स्याद्
इत्य् अर्थः ॥ 14 ॥
विश्वास-प्रस्तुतिः
ततश् च अन्तर्यामि-रूपेणावस्थितम् अपि
ब्रह्म निरस्त-निखल-दोषत्व–
कल्याण-गुणाकरत्व-रूपोभय-लिङ्गम् एव ॥१४॥
Thibaut
and hence, although abiding within all things, free from all imperfection and endowed with all blessed qualities.
मूलम्
ततश्च अन्तर्यामिरूपेणावस्थितमपि ब्रह्म निरस्तनिखलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ॥१४॥
श्रुत्य्-अवगत-निर्विशेष-प्रकाश-रूपत्वम्
विश्वास-प्रस्तुतिः
ननु च
सत्यं ज्ञानम् अनन्तं ब्रह्म (तै.आन.१.१)
इत्य्-आदिभिर् निर्विशेष-प्रकाशैक-स्वरूपं ब्रह्मावगम्यते,
Thibaut
But, an objection is raised, texts such as ’the True, knowledge, infinite is Brahman’ suggest a Brahman whose nature is constituted exclusively by non-differentiated light;
मूलम्
ननु च सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिभिर्निर्विशेषप्रकाशैकस्वरूपं ब्रह्मावगम्यते,
विश्वास-प्रस्तुतिः
अन्यत् तु
सर्व-ज्ञत्व–सत्य-सङ्कल्पत्व–
जगत्-कारणत्व–
सर्वान्तरात्मत्व–सत्य-कामत्वादिकं नेति नेति (बृ.४.३.६) इत्यादिभिः प्रतिषिध्यमानत्वेन
मिथ्या-भूतम् इत्य् अवगन्तव्यम्;
Thibaut
while at the same time a Brahman endowed with qualities–such as omniscience, being the cause of the world, being the inner Self of all, having the power of immediately realising its wishes and purposes–is expressly negatived by texts such as ’not so, not so’ (Br̥. Up. II, 3, 6), and therefore must be held to be false.
मूलम्
अन्यत्तु सर्वज्ञत्वसत्यसङ्कल्पत्वजगत्कारणत्वसर्वान्तरात्मत्वसत्यकामत्वादिकं नेति नेति (बृ.४.३.६) इत्यादिभिः प्रतिषिध्यमानत्वेन मिथ्याभूतमित्यवगन्तव्यम्;
श्रुत-प्रदीपिका
अनन्तरसूत्रमवतारयति - ननु च इति । आर्थश्रौतनिषेधौ दर्शितौ ।
विश्वास-प्रस्तुतिः
तत् कथं कल्याण-गुणाकरत्व-
निरस्त-निखिल-दोषत्व-रूपोभयलिङ्गत्वं ब्रह्मणि?
इति;
अत आह –
Thibaut
How then can it be maintained that Brahman possesses the ’twofold characteristics’ mentioned under Sūtra 11?–
To this the next Sūtra replies.
मूलम्
तत्कथं कल्याणगुणाकरत्व-निरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वं ब्रह्मणि इति;
अत आह –
विश्वास-प्रस्तुतिः
३२९. प्रकाशवच् चावैयर्थ्यात् +++(शास्त्राणाम् उभयलिङ्गम् एव ब्रह्म)+++ ॥ ३–२–१५ ॥
Thibaut
- And in the same way as (a Brahman) consisting of light; (the texts thus) not being devoid of meaning.
मूलम्
३२९. प्रकाशवच्चावैयर्थ्यात् ॥ ३–२–१५ ॥
विश्वास-प्रस्तुतिः
यथा सत्यं ज्ञानम् अनन्तं ब्रह्म (तै.आन.१.१) इत्य्-आदि-वाक्यावैयर्थ्यात्
प्रकाश-स्वरूपत्वं ब्रह्मणो ऽभ्युपगम्यते;
तथा सत्य-सङ्कल्पत्व–सर्वज्ञत्व–जगत्-कारणत्व–
सर्वात्मकत्व–निरस्त-निखिल-अविद्यादि-दोषत्वाद्य्–
अभिधायि-वाक्यावैयर्थ्याद् उभयलिङ्गम् एव ब्रह्म ॥१५॥
Thibaut
In order that texts such as ’the True, knowledge, infinite is Brahman’ may not be devoid of meaning, we have to admit that light (intelligence) constitutes the essential nature of Brahman. But analogously we have also to admit that Brahman possesses the ’twofold characteristics’; for otherwise the texts declaring it to be free from all imperfections, all-knowing, the cause of the world, and so on, would in their turn be devoid of meaning.
मूलम्
यथा सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिवाक्यावैयर्थ्यात्प्रकाशस्वरूपत्वं ब्रह्मणोऽभ्युपगम्यते; तथा सत्यसङ्कल्पत्वसर्वज्ञत्वजगत्कारणत्व सर्वात्मकत्वनिरस्तनिखिल-अविद्यादिदोषत्वाद्यभिधायिवाक्यावैयर्थ्यादुभयलिङ्गमेव ब्रह्म ॥१५॥
श्रुत-प्रदीपिका
प्रकाशवच् चावैयर्थ्यात् ।
व्याप्त्या चेत् ,
धीः कस्यचिद् एव +++(=??)+++।
श्रुति-बलात् न चेत् ,
स-गुणत्वम् अपि ।
न च व्याप्ति-विरोधः ,
धर्म-भूत-ज्ञानस्यैव ज्ञानानाश्रयत्वाद् इति भावः ॥ 15 ॥
सत्यादि-वाक्यस्य गुण-निषेधकत्वाभावः
विश्वास-प्रस्तुतिः
३३०. आह च तन्+++(→प्रकाशवत्व)+++-मात्रम् ॥ ३–२–१६ ॥
Thibaut
- And (the text) says so much only.
मूलम्
३३०. आह च तन्मात्रम् ॥ ३–२–१६ ॥
आक्षेपः
विश्वास-प्रस्तुतिः
किञ् च
सत्यं ज्ञानम् अनन्तम् (तै.आन.१.१)
इत्य्-आदि-वाक्यं
ब्रह्मणः प्रकाश–स्व-रूपता-मात्रं प्रतिपादयति,
नान्यत्-सत्य-सङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति,
नेति नेति (बृ.४.३.६) इति च निषेधविषयोऽनन्तरमेव वक्ष्यते॥
Thibaut
Moreover the text ’the True, knowledge, infinite is Brahman’ only teaches that Brahman has light for its essential nature, and does not negative those other attributes of Brahman–omniscience, being the cause of the world, &c.–which are intimated by other texts.
What is the object of the negation in ’not so, not so’ will be shown further on.
मूलम्
किञ्च सत्यं ज्ञानमनन्तम् (तै.आन.१.१) इत्यादिवाक्यं ब्रह्मणः प्रकाशस्वरूपतामात्रं प्रतिपादयति, नान्यत्सत्यसङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति, नेति नेति (बृ.४.३.६) इति च निषेधविषयोऽनन्तरमेव वक्ष्यते॥
श्रुत-प्रदीपिका
आह च तन्-मात्रम् ।
सूत्राभ्यां विरोधाभ्युपगमेन
तद्-अभावेन चार्थ-गुण-निषेधः प्रत्युक्तः ।
अथ श्रौतं परिहरन् नार्थस्य च परिहारोपयोगि मानं दर्शयति ॥ 16 ॥
गुणानां श्रुत्य्-आदि-प्रतिपन्नत्वम्
विश्वास-प्रस्तुतिः
३३१. दर्शयति चाथो अपि स्मर्यते ॥ ३–२–१७ ॥
Thibaut
- (This Scripture) also shows, and it is also stated in Smr̥ti.
मूलम्
३३१. दर्शयति चाथो अपि स्मर्यते ॥ ३–२–१७ ॥
श्रुत-प्रदीपिका
दर्शयति चाथा अपि स्मर्यते ।
प्रथमे सूत्रे स्वपक्षमूलतया मानं दर्शितम् ।
इह तु दूषणपरिहाराय ।
विश्वास-प्रस्तुतिः
दर्शयति च वेदान्तगणः
कल्याण-गुणाकरत्वं
निरस्त-निखिल-दोषत्वं च
Thibaut
That Brahman is a treasure as it were of all blessed qualities and free from all imperfections, the whole body of Vedānta-texts clearly declares:
मूलम्
दर्शयति च वेदान्तगणः कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च
श्रुत-प्रदीपिका
वेदान्तगण इति ।
अथो-शब्दः प्रमाणकार्त्स्न्यपर इति भावः ।
दर्शयति स्मर्यते इति सौत्र-शब्द-विवरणम् ।
विश्वास-प्रस्तुतिः
तम् ईश्वराणां परमं महेश्वरं
तं दैवतानां परमं च दैवतम्।
Thibaut
‘That highest great lord of lords, that highest deity of deities’;
मूलम्
तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्।
विश्वास-प्रस्तुतिः
स कारणं करणाधिपाधिपो
न चास्य कश्चिज् जनिता न चाधिपः ।
Thibaut
‘He is the cause, the lord of the lords of the organs, and there is of him neither parent nor lord ‘;
मूलम्
स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ।
विश्वास-प्रस्तुतिः
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते।
Thibaut
‘There is no effect and no cause known of him, no one is seen like unto him or higher.
मूलम्
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते।
विश्वास-प्रस्तुतिः
पराऽस्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च (श्वे.६.७,८)
Thibaut
His high power is revealed as manifold, as essential action of knowledge and strength’ (Śvet. Up. VI, 7-9);
मूलम्
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.७,८)
विश्वास-प्रस्तुतिः
यस् सर्व-ज्ञस् सर्व-वित्
यस्य ज्ञानमयं तपः (मु.१.१.९)
Thibaut
‘He who is all-knowing, whose brooding consists of knowledge’ (Mu. I, 1,9);
मूलम्
यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः (मु.१.१.९)
विश्वास-प्रस्तुतिः
भीषाऽस्माद् वातः पवते
भीषोदेति सूर्यः (तै.आ.८.४)
Thibaut
‘From fear of him the wind blows, from fear of him the sun moves’;
मूलम्
भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः (तै.आ.८.४)
विश्वास-प्रस्तुतिः
स एको ब्रह्मण आनन्दः (तै.आ.८.४)
Thibaut
‘That is one bliss of Brahman’ (Taitt. Up. II, 8);
मूलम्
स एको ब्रह्मण आनन्दः (तै.आ.८.४)
विश्वास-प्रस्तुतिः
यतो वाचो निवर्तन्ते,
अप्राप्य मनसा सह।
आनन्दं ब्रह्मणो विद्वान्
न बिभेति कुतश्चनेति (तै.आ.९.१)
Thibaut
‘That from which all speech with the mind turns away, not having reached it, knowing the bliss of that Brahman man fears nothing’ (Taitt. Up. II, 9);
मूलम्
यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति (तै.आ.९.१)
विश्वास-प्रस्तुतिः
निष्कलं निष्क्रियं शान्तं
निरवद्यं निरञ्जनम्
(श्वे.६.१९)
इत्य्-आदि ।
Thibaut
‘He who is without parts, without action, tranquil, without fault, without taint’ (Śvet. Up. VI, l9).
मूलम्
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.६.१९) इत्यादि ।
श्रुत-प्रदीपिका
निर्दोषत्वं दर्शयति - निष्कलं … … निरवद्यम् इत्यादिना ।
सामान्य-विशेष-गो-बलीवर्द-नयाव् अभिप्रेतौ ॥ 17 ॥
विश्वास-प्रस्तुतिः
स्मर्यते च
यो माम् अजम् अनादिं च
वेत्ति लोकमहेश्वरम् (भ.गी.१०.३)
Thibaut
–And Smr̥ti: ‘He who knows me to be unborn and without a beginning, the Supreme Lord of the worlds’;
मूलम्
स्मर्यते च यो मामजमनादिं च वेत्ति लोकमहेश्वरम् (भ.गी.१०.३)
विश्वास-प्रस्तुतिः
विष्टभ्याहम् इदं कृत्स्नम्
एकांशेन स्थितो जगत् (भ.गी.१०.४२)
Thibaut
‘Pervading this entire universe, by one part of mine I do abide’;
मूलम्
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२)
विश्वास-प्रस्तुतिः
मयाऽध्यक्षेण प्रकृतिस्
सूयते सचराचरम्।
हेतुनाऽनेन कौन्तेय
जगद्धि परिवर्तते
(भ.गी.९.१०)
Thibaut
‘With me as supervisor Prakr̥ti brings forth the universe of the movable and the immovable, and for this reason the world does ever move round’;
मूलम्
मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते (भ.गी.९.१०)
विश्वास-प्रस्तुतिः
उत्तमः पुरुषस् त्व् अन्यः
परमात्मेत्य् उदाहृतः।
यो लोक-त्रयम् आविश्य
बिभर्त्य् अव्यय ईश्वरः (भ.गी.१५.१७)
Thibaut
‘But another is the Supreme Person, who is called the Supreme Spirit, who pervading the three worlds supports them–the eternal Lord’ (Bha. Gī. X, 3; 42; IX, 10; XV, 17);
मूलम्
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः (भ.गी.१५.१७)
विश्वास-प्रस्तुतिः
सर्व-ज्ञस् सर्व-कृत् सर्व-
शक्ति-ज्ञान-बल-र्द्धिमान्।
अन्यूनश् चाप्य् अवृद्धिश् च
स्वाधीनो नादिमान् वशी।
क्लम-तन्द्री-भय-क्रोध–
कामादिभिर् असंयुतः।
निरवद्यः, परः प्राप्तेर्,
निरधिष्ठोऽक्षरः क्रमः
(वि.पु.५.१.४७,४८,४९) इत्यादिः।
Thibaut
‘The all-working, all-powerful one, rich in knowledge and strength,
who becomes neither less nor more,
who is self-dependent, without beginning, master of all;
who knows neither weariness nor exhaustion, nor fear, wrath and desire;
the blameless one, raised above all, without support, imperishable.’–
मूलम्
सर्वज्ञस्सर्वकृत् सर्वशक्तिज्ञानबलर्द्धिमान्। अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी। क्लमतन्द्रीभयक्रोध–कामादिभिरसंयुतः। निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः (वि.पु.५.१.४७,४८,४९) इत्यादिः।
विश्वास-प्रस्तुतिः
अतस् सर्वत्रावस्थितस्यापि ब्रह्मण
उभय-लिङ्गत्वात्
तत्-तत्-स्थान-प्रयुक्ता दोषा
न परं ब्रह्म स्पृशन्ति ॥१७॥
Thibaut
As thus Brahman in whatever place it may abide has the ’twofold characteristics,’ the imperfections dependent on those places do not touch it.
मूलम्
अतस्सर्वत्रावस्थितस्यापि ब्रह्मण उभयलिङ्गत्वात्तत्तत्स्थानप्रयुक्ता दोषा न परं ब्रह्म स्पृशन्ति ॥१७॥
जल-बिम्बित-सूर्योपमा-सङ्गतिः
विश्वास-प्रस्तुतिः
३३२. अत एव चोपमा +++(प्रतिबिम्बित-)+++सूर्यकादिवत् ॥ ३–२–१८ ॥
Thibaut
- For this very reason comparisons, such as reflected images of the sun and the like.
मूलम्
३३२. अत एव चोपमा सूर्यकादिवत् ॥ ३–२–१८ ॥
विश्वास-प्रस्तुतिः
यतो नानाविधेषु स्थानेषु स्थितस्यापि
परस्य ब्रह्मणो न तत्-प्रयुक्त-दोष-भाक्त्वम्,
अत एव जल-दर्पणादि-प्रतिबिम्बित-सूर्यादिवत्
परमात्मा तत्र-तत्रावस्थितोऽपि
निर्दोष
इति शास्त्रेषूपमा क्रियते –
Thibaut
Because Brahman, although abiding in manifold places, ever possesses the twofold characteristics, and hence does not share the imperfections due to those places, scriptural texts illustrate its purity in the midst of inferior surroundings by comparing it to the sun reflected in water, mirrors, and the like.
मूलम्
यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभाक्त्वम्, अत एव जलदर्पणादिप्रतिबिम्बितसूर्यादिवत्परमात्मा तत्रतत्रावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते –
श्रुत-प्रदीपिका
अत एव चोपमा सूर्यकादिवत् । तथात्मैकः इति । एकस्वभाव इत्यर्थः ॥ 18 ॥
विश्वास-प्रस्तुतिः
आकाशम् एकं हि यथा
घटादिषु पृथग्भवेत्।
तथात्मैको ह्य् अन्-एकस्थो
जलाधारेष्व् इवांशुमान्।
एक एव हि भूतात्मा
भूते भूते व्यवस्थितः।
एकधा बहुधा चैव
दृश्यते जल-चन्द्रवत्
(याज्ञवल्क्य.३.१४४) इत्य्-आदिषु॥१८॥
Thibaut
Compare e.g., ‘As the one ether is rendered manifold by jars and the like, or as the one sun becomes manifold in several sheets of water; thus the one Self is rendered manifold by abiding in many places. For the Self of all beings, although one, abides in each separate being and is thus seen as one and many at the same time, as the moon reflected in water.’
मूलम्
आकाशमेकं हि यथा घटादिषु पृथग्भवेत्। तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान्। एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् (याज्ञवल्क्य.३.१४४) इत्यादिषु॥१८॥
जल-सूर्य-दृष्टान्त-वैषम्य-शङ्का
विश्वास-प्रस्तुतिः
अत्र चोदयति –
३३३. +++(बिम्बित-सूर्य-सहित-)+++अम्बुवद् अ-ग्रहणात् तु
न तथात्वम् +++(ब्रह्मणो नाना-वस्तु-गतस्य)+++॥ ३–२–१९ ॥
Thibaut
- But because it is not apprehended like water, there is no equality.
मूलम्
अत्र चोदयति –
३३३. अम्बुवदग्रहणात्तु न तथात्वम् ॥ ३–२–१९ ॥
विश्वास-प्रस्तुतिः
तुशब्दश्चोद्यं द्योतयति ।
Thibaut
The ‘but’ indicates an objection.–
मूलम्
तुशब्दश्चोद्यं द्योतयति ।
विश्वास-प्रस्तुतिः
अम्बुवद् इति सप्तम्यन्तात् वतिः।
मूलम्
अम्बुवदिति सप्तम्यन्तात् वतिः।
विश्वास-प्रस्तुतिः
अम्बु-दर्पणादिषु
यथा सूर्य-मुखादयो गृह्यन्ते;
न तथा पृथिव्यादिषु स्थानेषु
परमात्मा गृह्यते ।
Thibaut
The highest Self is not apprehended in earth and other places in the same way as the sun or a face is apprehended in water or a mirror.
मूलम्
अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते ।
विश्वास-प्रस्तुतिः
अम्ब्व्-आदिषु हि
सूर्यादयो
भ्रान्त्या तत्र-स्था इव गृह्यन्ते,
न परमार्थतस् तत्र-स्थाः ।
Thibaut
For the sun and a face are erroneously apprehended as abiding in water or a mirror; they do not really abide there.
मूलम्
अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते, न परमार्थतस्तत्रस्थाः ।
विश्वास-प्रस्तुतिः
इह तु
यः पृथिव्यां तिष्ठन् (बृ.५.७.३)
योऽप्सु तिष्ठन् (बृह.५.७.४) ….
य आत्मनि तिष्ठन् (बृ.५.७.२२)
इत्य् एवम्-आदिना
परमार्थत एव
परमात्मा पृथिव्यादिषु स्थितो गृह्यते ।
Thibaut
When, on the other hand, Scripture tells us that the highest Self dwells in the earth, in water, in the soul, &c., we apprehend it as really dwelling in all those places.
मूलम्
इह तु यः पृथिव्यां तिष्ठन् (बृ.५.७.३) योऽप्सु तिष्ठन् (बृह.५.७.४) …. य आत्मनि तिष्ठन् (बृ.५.७.२२) इत्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थितो गृह्यते ।
विश्वास-प्रस्तुतिः
अतस् सूर्यादेर् अम्बु-दर्पणादि-प्रयुक्त-दोषाननुषङ्गस्
तत्र-तत्र स्थित्य्-अभावाद् एव।
Thibaut
That the imperfections caused by water and mirrors do not attach themselves to the sun or a face is due to the fact that the sun and the face do not really abide in the water and the mirror.
मूलम्
अतस्सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गस्तत्रतत्र स्थित्यभावादेव।
विश्वास-प्रस्तुतिः
अतो न तथात्वं –
दार्ष्टान्तिकस्य न दृष्टान्त-तुल्यत्वम्
इत्य् अर्थः ॥१९॥
Thibaut
Hence there is no real parallelism between the thing compared (the highest Self) and the thing to which it is compared (the reflected image).
मूलम्
अतो न तथात्वं – दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ॥१९॥
श्रुत-प्रदीपिका
अम्बुवद् अग्रहणात् तु
न तथात्वम् ।
दृष्टान्तावैघट्याय
दार्ष्टान्तिकस्य पृथिव्यादौ स्थितेः
मिथ्यात्वम् उपेत्यम्
इति भावः ॥ 19 ॥
परिहारः
विश्वास-प्रस्तुतिः
परिहरति –
३३४. वृद्धि-ह्रास-भाक्त्वम् +++(साभावं)+++ +++(पृथिव्य्-आदिष्व्)+++ अन्तर्-भावाद् +++(ग्राह्यम्)+++ -
+++(विषयेऽस्मिन्)+++ उभय+++(→ख-सूर्य-दृष्टान्त)+++-सामञ्जस्याद् एवं,
दर्शनाच् च +++(आंशिकसाधर्म्यस्य “सिंह इव माणवक” इत्यादौ)+++॥ ३–२–२० ॥
Thibaut
- The participation (on Brahman’s part) in increase and decrease, due to its abiding within (is denied); on account of the appropriateness of both (comparisons), and because thus it is seen.
मूलम्
परिहरति –
३३४. वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च ॥ ३–२–२० ॥
विश्वास-प्रस्तुतिः
पृथिव्य्-आदि-स्थानान्तर्-भावात्
स्थानिनः परस्य ब्रह्मणः
स्वरूपतो गुणतश् च पृथिव्य्-आदि-स्थान-गत–
वृद्धि-ह्रासादि-दोष-भाक्त्व-मात्रं
सूर्यादि-दृष्टान्तेन निवर्त्यते।
Thibaut
The comparison of the highest Self to the reflected sun and the rest is meant only to deny of the Self that it participates in the imperfections–such as increase, decrease, and the like–which attach to the earth and the other beings within which the Self abides.–
मूलम्
पृथिव्यादिस्थानान्तर्भावात्स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगत-वृद्धिह्रासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्यते।
विश्वास-प्रस्तुतिः
कथमिदमवगम्यते?
Thibaut
How do we know this?–
मूलम्
कथमिदमवगम्यते?
विश्वास-प्रस्तुतिः
उभय-सामञ्जस्याद् एवम् –
उभय-दृष्टान्त-सामञ्जस्याद् एवम्
इति निश्चीयते।
Thibaut
From the circumstance that on this supposition both comparisons are appropriate.
मूलम्
उभयसामञ्जस्यादेवम् – उभयदृष्टान्तसामञ्ज्स्यादेवमिति निश्चीयते।
विश्वास-प्रस्तुतिः
आकाशम् एकं हि
यथा घटादिषु पृथग् भवेत्,
जल-धारेष्व् इवांशुमान् (याज्ञ.प्राय.३.१४४)
इति दोषवत्स्व् अनेकेषु वस्तुषु
वस्तुतो ऽवस्थितस्य आकाशस्य,
वस्तुतो ऽनवस्थितस्यांशुमतश् चोभयस्य दृष्टान्तस्योपादानं हि
परमात्मनः पृथिव्य्-आदि-गत–दोष-भाक्त्व-निवर्तन-मात्रे प्रतिपाद्ये
समञ्जसं भवति ।
Thibaut
In the scriptural text quoted above Brahman is compared to ether,
which although one becomes manifold through the things–jars and so on–within it;
and to the sun, which is multiplied by the sheets of water in which he is reflected.
Now the employment of these comparisons–with ether which really does abide within the jars and so on,
and with the sun which in reality does not abide in the water–
is appropriate
only if they are meant to convey the idea that the highest Self does not participate in the imperfections inherent in earth and so on.
मूलम्
आकाशमेकं हि यथा घटादिषु पृथग्भवेत्, जलधारेष्विवांशुमान् (याज्ञ.प्राय.३.१४४) इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्य आकाशस्य, वस्तुतोऽनवस्थितस्यांशुमतश्चोभयस्य दृष्टान्तस्योपादानं हि परमात्मनः पृथिव्यादिगत-दोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवति ।
श्रुत-प्रदीपिका
वृद्धि-ह्रास-भाक्त्वम् अन्तर्भावाद् उभयसामञ्जस्यादेवं दर्शनाच्च ।
“समञ्जंसं भवति ।” इत्यन्तेन भाष्येण
“एवम्” इत्यन्तसूत्रांशो व्याख्यातः ।
विश्वास-प्रस्तुतिः
घट-करकादिषु
यथा वृद्धि-ह्रास-भाक्षु
पृथक् पृथक् संयुज्यमानम् अप्य् आकाशं
वृद्धि-ह्रासादि-दोषैर् न स्पृश्यते;
यथा च जलाधारेषु विषमेषु
दृश्यमानोंऽशुमान्
तद्-गत-वृद्धि-ह्रासादिभिर् न स्पृश्यते;
तथाऽयं परमात्मा
पृथिव्य्-आदिषु नानाकारेष्व् अचेतनेषु चेतनेषु च स्थितस्
तत्-तद्-गत-वृद्धि-ह्रासादि-दोषैर् असंस्पृष्टस्
सर्वत्र वर्तमानो ऽप्य्
एक एव अ-स्पृष्ट-दोष-गन्धः
कल्याण-गुणाकर एव।
Thibaut
Just as ether, although connecting itself separately with jars, pots, and so on, which undergo increase and decrease, is not itself touched by these imperfections; and just as the sun, although seen in sheets of water of unequal extent, is not touched by their increase and decrease; thus the highest Self, although abiding within variously-shaped beings, whether non-sentient like earth or sentient, remains untouched by their various imperfections–increase, decrease, and so on–,remains one although abiding in all of them, and ever keeps the treasure of its blessed qualities unsullied by an atom even of impurity.
मूलम्
घटकरकादिषु यथा वृद्धिह्रासभाक्षु पृथक्पृथक्संयुज्यमानमप्याकाशं वृद्धिह्रासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमानोंऽशुमान् तद्गतवृद्धिह्रासादिभिर्न स्पृश्यते; तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेष्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टस्सर्वत्र वर्तमानोऽप्येक एव अस्पृष्टदोषगन्धः कल्याणगुणाकर एव।
श्रुत-प्रदीपिका
स्मृति-वचोऽर्थम् आह - घट इति ।
विश्वास-प्रस्तुतिः
एतद् उक्तं भवति –
यथा जलादिषु वस्तुतो ऽनवस्थितस्यांशुमतो
हेत्व्-अभावाज् जलादि-दोषानभिष्वङ्गः
तथा पृथिव्य्-आदिष्व्-अवस्थितस्यापि परमात्मनो
दोष-प्रत्यनीकाकारतया दोष-हेत्व्-अभावान्
न दोष-सम्बन्धः – इति।
Thibaut
–The comparison of Brahman with the reflected sun holds good on the following account. As the sun is not touched by the imperfections belonging to the water, since he does not really abide in the water and hence there is no reason for his sharing those imperfections, thus the highest Self,which really abides within earth and the rest, is not affected by their imperfections;
for as the nature of the highest Self is essentially antagonistic to all imperfection,
there is no reason for its participating in the imperfection of others.–
मूलम्
एतदुक्तं भवति – यथा जलादिषु वस्तुतोऽनवस्थितस्यांशुमतो हेत्वभावाज्जलादि-दोषानभिष्वङ्गः तथा पृथिव्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसम्बन्धः – इति।
श्रुत-प्रदीपिका
दृष्टान्त-द्वयं किम्-अर्थं, दोषास्पर्शस्यानुगत-हेतुः क इत्य्-अत्राह - एतद् उक्तम् इति।
देशत इव
स्वभावतो विप्रकर्षस्यापि
दोषास्पर्श-हेतुता-ज्ञापनम्
उभय-दृष्टान्तत् फलम्। सन्निकर्ष-त्रय-समुदायो दोष-स्पर्श-हेतुः
।
अन्यतम-विप्रकर्षो ऽप्य् अस्पर्श-हेतुर् इत्यर्थः ।
विश्वास-प्रस्तुतिः
दर्शनाच् च –
दृश्यते चैवं
सर्वात्मना साधर्म्याभावेऽपि
विवक्षितांश-साधर्म्याद् दृष्टान्तोपादानं,
“सिंह इव माणवक” इत्यादौ।
Thibaut
‘And as this is seen.’
This means–
Since we observe in ordinary life also
that comparisons are instituted between two things for the reason that although they do not possess all attributes in common,
they yet have some attribute in common.
We say, e.g. ’this man is like a lion.’–
मूलम्
दर्शनाच्च – दृश्यते चैवं सर्वात्मना साधर्म्याभावेऽपि विवक्षितांशसाधर्म्याद्दृष्टान्तोपादानं, सिंह इव माणवक इत्यादौ।
श्रुत-प्रदीपिका
दर्शनाच्च इति सूत्रांशः ॥ 20 ॥
विश्वास-प्रस्तुतिः
अतः स्वभावतो निरस्त-निखिलाज्ञानादि-दोष-गन्धस्य समस्त-कल्याण-गुणाकरस्य पृथिव्य्-आदि-स्थानतोऽपि
न दोष-सम्भवः ॥२०॥
Thibaut
The conclusion from all this is that the highest Self, which is essentially free from all imperfections and a treasure as it were of all blessed qualities, in no way suffers from dwelling within the earth and the rest.
मूलम्
अतः स्वभावतो निरस्तनिखिलाज्ञानादिदोषगन्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसम्भवः ॥२०॥
“नेति नेति”-वाक्यम्
आक्षेपः - सत्ता-मात्रम् ब्रह्म
विश्वास-प्रस्तुतिः
अथ स्यात् –
द्वे वाव ब्रह्मणो रूपे
मूर्तं चामूर्तमेव च
इति (बृ.४.३.१) इति प्रकृत्य
Thibaut
An objection is raised. In the Br̥had-āraṇyaka, in the chapter beginning ‘There are two forms of Brahman, the material and the immaterial,’
मूलम्
अथ स्यात् – द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तमेव च इति (बृ.४.३.१) इति प्रकृत्य
श्रुत-प्रदीपिका
अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति ।
विश्वास-प्रस्तुतिः
समस्तं स्थूल-सूक्ष्म-रूपं प्रपञ्चं
ब्रह्मणो रूपत्वेन परामृश्य
Thibaut
the whole material world, gross and subtle, is at first referred to as constituting the form of Brahman,
मूलम्
समस्तं स्थूलसूक्ष्मरूपं प्रपञ्चं ब्रह्मणो रूपत्वेन परामृश्य
विश्वास-प्रस्तुतिः
तस्य ह वा एतस्य पुरुषस्य
रूपं यथा माहा-रजनं+++(=कुङ्कुम-वर्णं)+++ वासः (बृ.४.३.६)
इत्यादिना आकार-विशेषं चाभिधाय
Thibaut
and next a special form of Brahman is mentioned: ‘And what is the form of that Person? Like a saffron-coloured raiment,’ &c.
मूलम्
तस्य ह वा एतस्य पुरुषस्य रूपं यथा माहारजनं वासः (बृ.४.३.६) इत्यादिना आकारविशेषं चाभिधाय
श्रुत-प्रदीपिका
महारजनं - कुसुम्भः ।
विश्वास-प्रस्तुतिः
अथात आदेशो -
नेति, नेति -
न ह्य् एतस्माद् “इति नेत्य्” +++(उक्ताद्)+++
अन्यत् परम् अस्ति
(बृ.४.३.६)
इति सर्वं प्रकृतं
ब्रह्मणः प्रकारम् इति-शब्देन परामृश्य
तत्सर्वं प्रतिषिध्य
Thibaut
But thereupon the text proceeds,
‘Now follows the teaching– not so, not so;
for there is not anything else
higher than this “not so.”
‘This passage, referring to all the previously mentioned forms of Brahman by means of the word ‘so,’ negatives them;
मूलम्
अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति (बृ.४.३.६) इति सर्वं प्रकृतं ब्रह्मणः प्रकारमितिशब्देन परामृश्य
तत्सर्वं प्रतिषिध्य
विश्वास-प्रस्तुतिः
सर्व-विशेषाधिष्ठानं
सन्-मात्रम् एव ब्रह्म;
Thibaut
intimating thereby that Brahman is nothing else than pure Being,
मूलम्
सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्म;
विश्वास-प्रस्तुतिः
विशेषास् त्व्
एवं-विधं स्व–स्व-रूपम्
अजानता ब्रह्मणा कल्पिता
इति दर्शयति;
Thibaut
and that all distinctions are mere imaginations due to Brahman not knowing its own essential nature.
मूलम्
विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्मणा कल्पिता इति दर्शयति;
विश्वास-प्रस्तुतिः
अतः कथम् उभयिलङ्गत्वं ब्रह्मण इति – अत्राह –
Thibaut
How then can Brahman possess the twofold characteristics?–To this the next Sūtra replies.
मूलम्
अतः कथमुभयिलङ्गत्वं ब्रह्मण इति – अत्राह –
परिहारः
विश्वास-प्रस्तुतिः
३३५. प्रकृतैतावत्त्वं हि प्रतिषेधति
ततो ब्रवीति च भूयः ॥ ३–२–२१ ॥+++(5)+++
Thibaut
- For the text denies the previously declared so-muchness; and declares more than that.
मूलम्
३३५. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ३–२–२१ ॥
विश्वास-प्रस्तुतिः
नैतद् उपपद्यते –
यद् ब्रह्मणः प्रकृति-विशेषवत्त्वं नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति,
तथा सति भ्रान्ति-जल्पितायमानत्वात् । +++(5)+++
Thibaut
It is impossible to understand the text ’not so, not so’ as negativing those distinctions of Brahman which had been stated previously.
If the text meant that, it would be mere idle talk.
मूलम्
नैतदुपपद्यते – यद्ब्रह्मणः प्रकृतिविशेषवत्त्वं नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति, तथा सति भ्रान्तिजल्पितायमानत्वात् ।
विश्वास-प्रस्तुतिः
न हि
ब्रह्मणो विशेषणतया
प्रमाणान्तराप्रज्ञातं सर्वं तद्-विशेषणत्वेन +उपदिश्य
पुनस् तद् एवानुन्मत्तः प्रतिषेधति । +++(5)+++
Thibaut
For none but a person not in his right mind
would first teach that all the things mentioned in the earlier part of the section are distinctive attributes of Brahman–
as which they are not known by any other means of proof–
and thereupon deliberately negative negate his own teaching.
विश्वास-टिप्पनी
अखिलेन प्राग्वर्तमानेन ब्राह्मणेन सोपाधिकम् ब्रह्मोक्त्वा, अन्तिमखण्डे हि निरुपाधिकं तन् निर्दिशतीति शङ्करमतम्। यथा -
ब्रह्मण उपाधिभूतयोर् मूर्तामूर्तयोः
कार्य-करण-विभागेन अध्यात्माधिदैवतयोर्
विभागो व्याख्यातः सत्य-शब्द-वाच्ययोः । /….ननु कथम् आभ्यां ‘नेति नेति’ (बृ. उ. २। ३। ६) इति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितम्
इति,
उच्यते — सर्वोपाधि-विशेषापोहेन।
यस्मिन् न कश्चिद् विशेषोऽस्ति — नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा ;
तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति ; अतो न निर्देष्टुं शक्यते — इदं तदिति — गौरसौ स्पन्दते ….
मूलम्
न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्वं तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः प्रतिषेधति ।
श्रुत-प्रदीपिका
अनूद्य निषेधतीति
न भ्रान्त-जल्प-कल्पता इत्यत्राह -
न हि इति ।
विश्वास-प्रस्तुतिः
यद्यपि निर्दिश्यमानेषु
केचन पदार्थाः प्रमाणान्तर-प्रसिद्धाः, तथा ऽपि
तेषां ब्रह्मणः प्रकारत्वम् अप्रज्ञातम् एव,
इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् ।
Thibaut
Although among the things mentioned there are some which, in themselves, are known through other means of proof, yet they are not thus known to be modes of Brahman, and others again are known neither in themselves nor as modes of Brahman.
मूलम्
यद्यपि निर्दिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धाः, तथापि तेषां ब्रह्मणः प्रकारत्वमप्रज्ञातमेव, इतरेषां तु स्वरूपं ब्रह्मणः प्रकारत्वं चाज्ञातम् ।
विश्वास-प्रस्तुतिः
अतस् तेषाम् अनुवादासम्भवाद् अत्रैवोपदिश्यन्ते।
Thibaut
The text therefore cannot merely refer to them as things otherwise known, but gives fundamental instruction about them.
मूलम्
अतस्तेषामनुवादासम्भवादत्रैवोपदिश्यन्ते।
विश्वास-प्रस्तुतिः
अतस् तन्निषेधो नोपपद्यते ।
Thibaut
Hence the later passage cannot be meant as a sheer negation,
मूलम्
अतस्तन्निषेधो नोपपद्यते ।
श्रुत-प्रदीपिका
नोपपद्यते इत्यन्तेन हि शब्दाभिप्रायो विवृतः ।
विश्वास-प्रस्तुतिः
यस्माद् एवं
तस्मात् प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम्।
Thibaut
but must be taken as denying the previously described ‘so-muchness’ of Brahman;
मूलम्
यस्माद् एवं
तस्मात् प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम्।
विश्वास-प्रस्तुतिः
ये ब्रह्मणो विशेषाः प्रकृताः
तद्-विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता
नेति नेति (बृ.४.३.६)
इति प्रतिषिध्यते।
Thibaut
i.e. the passage denies that limited nature of Brahman which would result from Brahman being viewed as distinguished by the previously stated attributes only.
मूलम्
ये ब्रह्मणो विशेषाः प्रकृताः तद्विशिष्टतया ब्रह्मणः प्रतीयमानेयत्ता नेति नेति (बृ.४.३.६) इति प्रतिषिध्यते।
विश्वास-प्रस्तुतिः
नेति नेति – नैवं नैवम्,
उक्त-प्रकार-मात्र-विशिष्टं न भवति ब्रह्म;
मूलम्
नेति नेति – नैवं नैवम्, उक्तप्रकारमात्रविशिष्टं न भवति ब्रह्म;
विश्वास-प्रस्तुतिः
उक्त-प्रकार-विशिष्टतया या ब्रह्मण इयत्ता प्रकृता;
साऽत्र इति शब्देन परामृश्यत इत्यर्थः।
Thibaut
The word śo refers to that limited nature, and the phrase not so therefore means that Brahman is not distinguished by the previously stated modes only.
मूलम्
उक्तप्रकारविशिष्टतया या ब्रह्मण इयत्ता प्रकृता; साऽत्र इति शब्देन परामृश्यत इत्यर्थः।
श्रुत-प्रदीपिका
सात्र इति इति ।
इतिः प्रकारार्थः ।
इयत्ता च प्रकार इत्यर्थः ।
प्रकारनिषेधपरत्वे त्वान्तत्वं न घटते इत्यर्थः ॥
विश्वास-प्रस्तुतिः
यतश् च निषेधानन्तरं
ब्रह्मणो भूयो गुणजातं ब्रवीति,
अतश् च प्रकृत-विशेषण-योगित्व-मात्रं ब्रह्मणः प्रतिषेधति ।
Thibaut
This interpretation is further confirmed by the fact that after that negative phrase further qualities of Brahman are declared by the text:
मूलम्
यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति ।
विश्वास-प्रस्तुतिः
ब्रवीति हि भूयो गुण-जातं –
न ह्य् एतस्माद् “इति नेत्य्” +++(उक्ताद्)+++
अन्यत् परम् अस्ति
+अथ नामधेयं सत्यस्य सत्यम्
इति
प्राणा+++(→जीवाः)+++ वै सत्यं, तेषाम् एष सत्यम् (बृ.४.३.६) इति ।
Thibaut
‘For there is not anything higher than this not so.
Then comes the name, the True of the True;
for the prāṇas are the True,
and he is the True of them.’
मूलम्
ब्रवीति हि भूयो गुणजातं – न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् (बृ.४.३.६) इति ।
विश्वास-प्रस्तुतिः
अयम् अर्थः –
“इति, नेति” यद् ब्रह्म प्रतिपादितम्,
तस्माद् एतस्माद्
अन्यद् वस्तु
परं न ह्य् अस्ति,
ब्रह्मणोऽन्यत् स्वरूपतो गुणतश् चोत्कृष्टं नास्तीत्य् अर्थः।
Thibaut
That means: Than that Brahman which is expressed by the phrase ’not so’ there is no other thing higher, i.e. there is nothing more exalted than Brahman either in essential nature or in qualities.
मूलम्
अयमर्थः – इति नेति यद्ब्रह्म प्रतिपादितम्, तस्मादेतस्मादन्यद्वस्तु परं नह्यस्ति, ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्चोत्कृष्टं नास्तीत्यर्थः।
श्रुत-प्रदीपिका
अनन्तरम् इति
ततः शब्दार्थ उक्तः
“न ह्य् एतस्मात्” इति निषेधः प्रतीतः ,
न तु गुणः ,
स्वरूपम् एव सत्यं प्रतीतम्
इत्यत्राह - अयमर्थः इति ॥
विश्वास-प्रस्तुतिः
तस्य च ब्रह्मणः “सत्यस्य”
“सत्यम्” इति नामधेयम् ।
Thibaut
And of that Brahman the name is the ‘True of the True.’
मूलम्
तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयम् ।
विश्वास-प्रस्तुतिः
तस्य च निर्वचनं
प्राणा वै सत्यं, तेषाम् एव सत्यम् (बृ.४.३.६) इति।
Thibaut
This name is explained in the next clause, ‘for the prāṇas,’ &c.
मूलम्
तस्य च निर्वचनं प्राणा वै सत्यं तेषामेव सत्यम् (बृ.४.३.६) इति।
विश्वास-प्रस्तुतिः
प्राण-शब्देन
प्राण-साहचर्याज्
जीवाः परामृश्यन्ते ।
Thibaut
The term prāṇas here denotes the individual souls,
so called because the prāṇas accompany them.
मूलम्
प्राणशब्देन प्राणसाहचर्याज्जीवाः परामृश्यन्ते ।
विश्वास-प्रस्तुतिः
ते तावत् सत्यम्,
वियद्-आदिवत् स्व-रूप-+अन्यथा-भाव-रूप–परिणामाभावात्।
Thibaut
They are the ‘True’ because they do not, like the elements, undergo changes implying an alteration of their essential nature.
मूलम्
ते तावत्सत्यम्, वियदादि-वत्स्वरूपान्यथाभावरूपपरिणामाभावात्।
विश्वास-प्रस्तुतिः
तेषाम् एष सत्यम् –
तेभ्योऽप्य् एष परम-पुरुषस् सत्यम् ।
Thibaut
And the highest Self is the ‘True of the True’
मूलम्
तेषामेष सत्यम् – तेभ्योऽप्येष परमपुरुषस्सत्यम् ।
विश्वास-प्रस्तुतिः
जीवानां कर्मानुगुण्येन ज्ञान-सङ्कोच-विकासौ विद्येते;
परम-पुरुषस्य त्व् अपहत-पाप्मनस्
तौ न विद्येते;
Thibaut
because while the souls undergo, in accordance with their karman, contractions and expansions of intelligence,
the highest Self which is free from all sin knows of no such alternations.
मूलम्
जीवानां कर्मानुगुण्येन ज्ञानसङ्कोचविकासौ विद्येते; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्येते;
विश्वास-प्रस्तुतिः
अतस्तेभ्योऽप्य् एष सत्यम्।
Thibaut
He is therefore more eminently true than they are.
मूलम्
अतस्तेभ्योऽप्येष सत्यम्।
विश्वास-प्रस्तुतिः
अतश् चैवं वाक्य-शेषोदित-गुण-जात-योगात्
नेति नेति (बृ.४.३.६)
इति ब्रह्मणस् स-विशेषत्वं
न प्रतिषिध्यते;
अपि तु पूर्व-प्रकृतेयत्ता-मात्रम्।+++(4)+++
Thibaut
As thus the complementary passage declares Brahman to be connected with certain qualities, the clause ’not so, not so’ (to which that passage is complementary) cannot deny that Brahman possesses distinctive attributes, but only that Brahman’s nature is confined to the attributes previously stated.
मूलम्
अतश्चैवं वाक्यशेषोदितगुणजातयोगात् नेति नेति (बृ.४.३.६) इति ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते; अपि तु पूर्वप्रकृतेयत्तामात्रम्।
विश्वास-प्रस्तुतिः
अत उभयलिङ्गमेव परं ब्रह्म ॥२१॥
Thibaut
–Brahman therefore possesses the twofold characteristics.
मूलम्
अत उभयलिङ्गमेव परं ब्रह्म ॥२१॥
ब्रह्म-तद्-गुणानां प्रमाणान्तरागोचरता
विश्वास-प्रस्तुतिः
ब्रह्मणः प्रमाणान्तरागोचरत्वेन,
तत्-सम्बन्धितया,
मूर्तामूर्तादि-रूपानुवादेन+++(=पूर्वप्राप्तानुवचनेन)+++
तन्-निषेधासम्भवात् प्रकृतेयत्ता-प्रतिषेध उक्तः;
Thibaut
That the clause ’not so’ negatives Brahman’s being fully described by the attributes previously mentioned,
was above proved on the ground that since Brahman is not the object of any other means of proof,
those previous statements cannot refer to what is already proved, and that the final clause cannot therefore be meant to deny what the previous clauses expressly teach.
मूलम्
ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्तामूर्तादिरूपानुवादेन तन्निषेधासम्भवात् प्रकृतेयत्ताप्रतिषेध उक्तः;
श्रुत-प्रदीपिका
अनन्तरसूत्रसङ्गतिमाह - ब्रह्मणः इति ।
प्रत्यक्षस्य सन्-मात्र-ग्राहित्वेन
ब्रह्मणः प्रमाणान्तर-गोचरत्वम् आशङ्क्य
तन्-निराकरण-मुखेन
तस्य मानान्तरागोचरत्वं द्रढयतीत्यर्थः । एतच् च दीप-सारयोः स्पष्टी-कृतम् ।
विश्वास-प्रस्तुतिः
तद् एव प्रमाणान्तरागोचरत्वं द्रढयति –
Thibaut
The next Sūtra now confirms this circumstance of Brahman not lying within the sphere of the other means of proof.
मूलम्
तदेव प्रमाणान्तरागोचरत्वं द्रढयति –
विश्वास-प्रस्तुतिः
३३६. तद् +++(ब्रह्म)+++ अव्यक्तम्, +++(यतः -)+++ आह हि ॥ ३–२–२२ ॥
Thibaut
- That (is) unmanifested; for (this Scripture) declares.
मूलम्
३३६. तदव्यक्तमाह हि ॥ ३–२–२२ ॥
श्रुत-प्रदीपिका
तदव्यक्तमाह हि । स्फुटम् ॥ 22 ॥
विश्वास-प्रस्तुतिः
तत् – ब्रह्म प्रमाणान्तरेण न व्यज्यते,
Thibaut
Brahman is not manifested by other means of proof;
मूलम्
तत् – ब्रह्म प्रमाणान्तरेण न व्यज्यते,
विश्वास-प्रस्तुतिः
आह हि शास्त्रं -
न सन्दृशे तिष्ठति रूपम् अस्य
न चक्षुषा पश्यति कश्चनैनम् (तै.ना.१.१)
Thibaut
for Scripture says, ‘His form is not to be seen, no one beholds him with the eye’ (Ka. Up. II, 6, 9);
मूलम्
आह हि शास्त्रं न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् (तै.ना.१.१)
विश्वास-प्रस्तुतिः
न चक्षुषा गृह्यते
नापि वाचा
(मु.३.१.८)
इत्यादि॥
Thibaut
‘He is not apprehended by the eye nor by speech’ (Mu. Up. III, 1, 8).
मूलम्
न चक्षुषा गृह्यते नापि वाचा (मु.३.१.८) इत्यादि॥
निदिध्यासार्थक-ब्रह्म-रूपोपदेशो नानुवादः
विश्वास-प्रस्तुतिः
हेत्व्-अन्तरं चाह –
३३७. अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ३–२–२३ ॥
Thibaut
- Also in perfect conciliation, … according to Scripture and Smr̥ti.??
मूलम्
हेत्वन्तरं चाह –
३३७. अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ३–२–२३ ॥
विश्वास-प्रस्तुतिः
अपि च संराधने –
सम्यक् प्रीणने भक्ति-रूपापन्ने निदिध्यासन
एवास्य साक्षात्कारः;
नान्यत्रेति
श्रुति-स्मृतिभ्याम् अवगम्यते।
Thibaut
Moreover, it is only in the state of perfect conciliation or endearment, i.e. in meditation bearing the character of devotion,
that an intuition of Brahman takes place,
not in any other state.
This Scripture and Smr̥ti alike teach.
मूलम्
अपि च संराधने – सम्यक्प्रीणने भक्तिरूपापन्ने निदिध्यासन एवास्य साक्षात्कारः; नान्यत्रेति श्रुतिस्मृतिभ्यामवगम्यते।
विश्वास-प्रस्तुतिः
नायम् आत्मा प्रवचनेन लभ्यो
न मेधया, न बहुना श्रुतेन।
यम् एवैष वृणुते
तेन लभ्यस्
तस्यैष आत्मा विवृणुते
तनूं स्वाम्
(मु.३-२-३)
Thibaut
‘That Self cannot be gained by the Veda, nor by understanding, nor by much learning.
He whom the Self chooses by him the Self can be gained.
The Self chooses him as his own’ (Ka. Up. I, 2, 23);
मूलम्
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (मु.३-२-३)
विश्वास-प्रस्तुतिः
ज्ञान-प्रसादेन विशुद्ध-सत्त्वस् ततस् तु
तं पश्यति निष्कलं ध्यायमानः (मु.३.१.८) इति श्रुतिः ।
Thibaut
‘When a man’s nature has become purified by the serene light of knowledge, then he sees him, meditating on him as without parts’ (Mu. Up. III, 1, 9).
मूलम्
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः (मु.३.१.८) इति श्रुतिः ।
विश्वास-प्रस्तुतिः
स्मृतिर् अपि
नाहं वेदैर् न तपसा
न दानेन न चेज्यया (भ.गी.११.५३)
Thibaut
Smr̥ti: ‘Neither by the Vedas, nor austerities, nor gifts, nor by sacrifice,
मूलम्
स्मृतिरपि नाहं वेदैर्न तपसा न दानेन न चेज्यया (भ.गी.११.५३)
विश्वास-प्रस्तुतिः
भक्त्या त्व् अनन्यया शक्यः
अहम् एवं-विधो ऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन
प्रवेष्टुं च परन्तप**
(भ.गी.११.५४)
इति।
Thibaut
but only by exclusive devotion, may I in this form be known and beheld in truth and also entered into’ (Bha. Gī. XI, 53,54).
मूलम्
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप (भ.गी.११.५४) इति।
विश्वास-प्रस्तुतिः
भक्ति-रूपापन्नम् एवोपासनं संराधनम्
तस्य प्रीणनम्
इति पूर्वम् एवोक्तम्।
मूलम्
भक्तिरूपापन्नमेवोपासनं संराधनम् – तस्य प्रीणनमिति पूर्वमेवोक्तम्।
श्रुत-प्रदीपिका
अपि संराधने प्रत्यक्षानुमानाभ्याम् । ध्यानगम्योऽस्तु , ततः किं संराधनेन साक्षात्कारस्येत्यत्राह - भक्तिरूप इति ॥ 26 ॥
विश्वास-प्रस्तुतिः
अतो निदिध्यासनाय
ब्रह्म–स्व-रूपम् उपदिशत्
द्वे वाव ब्रह्मणः (बृ.४.३.१)
इत्य्-आदि-शास्त्रं
ब्रह्मणो मूर्तामूर्त-रूप-द्वयादि-विशिष्टतां प्राग् असिद्धां नानुवदितुं क्षमम् ॥२३॥
Thibaut
The scriptural text beginning ‘Two are the forms of Brahman,’ which declares the nature of Brahman for the purposes of devout meditation,
cannot therefore refer to Brahman’s being characterised by two forms,
a material and an immaterial,
as something already known;
for apart from Scripture nothing is known about Brahman.
मूलम्
अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत् द्वे वाव ब्रह्मणः (बृ.४.३.१) इत्यादिशास्त्रं ब्रह्मणो मूर्तामूर्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ॥२३॥
विश्वास-प्रस्तुतिः
३३८. प्रकाशादिवच् चावैशेष्यं
प्रकाशश् च +++(ध्यान-)+++कर्मण्य् अभ्यासात् ॥ ३–२–२४ ॥
Thibaut
24. And there is non-difference (of the intention of Brahman’s distinguishing attributes),
as in the case of light;
and the light (is) intuited as constituting Brahman’s essential nature by repetition of the practice (of meditation).
मूलम्
३३८. प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ ३–२–२४ ॥
विश्वास-प्रस्तुतिः
इतश् च प्रकृतैतावत्त्वम् एव प्रतिषेधति;
न मूर्तामूर्तादि-विशष्टत्वम्;
Thibaut
That the clause ’not so’ negatives not Brahman’s possessing two forms, a material and an immaterial one, but only Brahman’s nature being restricted to those determinations, follows therefrom
मूलम्
इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति;
न मूर्तामूर्तादिविशष्टत्वम्;
विश्वास-प्रस्तुतिः
यतस्
साक्षात्-कृत–पर-ब्रह्म–स्व-रूपाणां वाम-देवादीनां दर्शने -
प्रकाशादिवत् ज्ञानानन्दादि–स्व-रूपवन्
मूर्तादि-प्रपञ्च-विशिष्टताया अपि
ब्रह्म-गुणत्वावैशेष्यं प्रतीयते –
Thibaut
also that in the vision of Vāmadeva and others
who had attained to intuition into Brahman’s nature,
the fact of Brahman having all material and immaterial beings for its attributes
is apprehended in non-difference, i.e. in the same way as the fact of light (i.e. knowledge) and bliss constituting Brahman’s essential nature.
मूलम्
यतस्साक्षात्कृतपरब्रह्म-स्वरूपाणां वामदेवादीनां दर्शने प्रकाशादिवत् ज्ञानानन्दादिस्वरूपवन्मूर्तादिप्रपञ्चविशिष्टताया अपि ब्रह्मगुणत्वावैशेष्यं प्रतीयते –
श्रुत-प्रदीपिका
मूर्तामूर्तादि-प्रपञ्च-विशिष्टताया
उपासनार्थम् आरोपितत्व-शङ्काऽत्र निरस्यते ।
विश्वास-प्रस्तुतिः
तद्-हैतत् पश्यन्न्
ऋषिर् वामदेवः प्रतिपेदे
अहं मनुर् अभवं सूर्यश् च
(बृ.३.४.१०)
इत्यादि।
Thibaut
Compare the text ‘Seeing this the R̥shi Vāmadeva understood, I am Manu and the sun’ (Br̥. Up. I, 4, 10).
मूलम्
तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृ.३.४.१०) इत्यादि।
विश्वास-प्रस्तुतिः
ब्रह्म–स्व-रूप-भूत–प्रकाशानन्दादिश् च
तेषां वाम-देवादीनां संराधनात्मके कर्मण्य्
अभ्यासाद् उपलभ्यते।
Thibaut
And that light and bliss constitute Brahman’s nature was perceived by Vāmadeva and the rest through repeated performance of the practice of devout meditation.
मूलम्
ब्रह्मस्वरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासादुपलभ्यते।
श्रुत-प्रदीपिका
तेषाम् अपि मूर्तामूर्तादि-प्रपञ्च-विशिष्ट-प्रतीतिः भ्रान्तिर् इति शङ्कायाम्
उत्तर-खण्डं व्याचष्टे -
ब्रह्म-स्व-रूप-भूत इति ।
उपासनेन साक्षात्-कृतत्वात्
प्रकाशानन्दादेर् इव
प्रपञ्च-विशिष्टतायाः परमार्थत्वम्
इत्य् अर्थः ॥ 24 ॥
विश्वास-प्रस्तुतिः
तद्वच् चाभ्यस्त-संराधनानां तेषां
मूर्तामूर्तादि-विशष्टत्वम् अप्य्
अ-विशेषेण प्रतीयत इत्य् अर्थः॥२४॥
Thibaut
In the same way then, i.e. by repeated meditation, they also became aware that Brahman has all material and immaterial things for its distinguishing modes.
मूलम्
तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्तामूर्तादिविशष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थः॥२४॥
कल्याणगुणवत्तानिर्णयेन उभयलिङ्गत्वोपसंहारः
विश्वास-प्रस्तुतिः
उक्तं ब्रह्मण उभयलिङ्गत्वम् उपसंहरति –
Thibaut
–The next Sūtra sums up the proof of Brahman’s possessing twofold characteristics.
मूलम्
उक्तं ब्रह्मण उभयलिङ्गत्वमुपसंहरति –
विश्वास-प्रस्तुतिः
३३९. अतो +++(→“नेति नेति” न्यायेन)+++ ऽनन्तेन +++(कल्याण-गुणगणेन)+++ - तथा हि +++(उभय-)+++लिङ्गम् ॥ ३–२–२५ ॥
Thibaut
- Hence (Brahman is distinguished) by what is infinite; for thus the characteristics (hold good).
मूलम्
३३९. अतोऽनन्तेन तथा हि लिङ्गम् ॥ ३–२–२५ ॥
विश्वास-प्रस्तुतिः
अतः उक्तैर् हेतुभिर्
ब्रह्मणः अनन्तेन कल्याण-गुण-गणेन
विशिष्टत्वं सिद्धम् ।
Thibaut
By the arguments stated it is proved that Brahman is distinguished by the infinite multitude of blessed qualities.
मूलम्
अतः उक्तैर्हेतुभिर्ब्रह्मणः अनन्तेन कल्याणगुणगणेन विशिष्टत्वं सिद्धम् ।
विश्वास-प्रस्तुतिः
तथा हि सत्य् उभय-लिङ्गं ब्रह्मोपपन्नं भवति ॥२५॥
Thibaut
And this being so, it follows that Brahman possesses the twofold characteristics.–
मूलम्
तथा हि सत्युभयलिङ्गं ब्रह्मोपपन्नं भवति ॥२५॥
श्रुत-प्रदीपिका
नेति नेत्यस्यावधि-निषेध-परत्वात्
निर्-अवधिकेन कल्याण-गुण-जातेन
विशिष्टत्वं ब्रह्मणः सिद्धमित्यर्थः ।
उभय-लिङ्गत्वं पूर्व-पक्षी-कुर्वताम् उपसंहार-सूत्रं न घटते , तत्-समर्थनेनोपसंहारात् ॥
विश्वास-प्रस्तुतिः
इति उभयलिङ्गाधिकरणम् - 5
Thibaut
Here terminates the adhikaraṇa of ’that which has twofold characteristics.’
मूलम्
इति उभयलिङ्गाधिकरणम् - 5