मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ 3-2-10 ॥
मुग्धमधिकृत्य चिन्त्यते - किमियं मूर्छा … … मरणं हि सर्वप्राणदेहसंबन्धोपरितिः , सूक्ष्मप्राणदेहसंवन्धावस्थितिर्मूर्छा ॥ 10 ॥
मुग्धेऽर्धसंपत्तिः परिशेषात् । सङ्गतिः स्फुटा । प्रसिद्ध्युपपत्तेः - ज्ञानलोपाविशेषादिति भावः । अभिघातादि इति आदि शब्दादनिष्टश्रवणम् । निमित्ताकारवैरूप्ये क्रमात सुषुप्तिमरण व्यावर्तके । सुषुप्तौ प्राणो भूयानुपलभ्यते ; मूर्छायामल्पः ; मृतौ न कश्चित् ॥ 10 ॥
इति मुग्धाधिकरणम् - 4