स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ 3-2-9 ॥
किं सुषुप्त एव प्रबोधसमये उत्तिष्ठति … … परमात्मान- मुपसंपद्याश्वस्तः पुनभागायोत्तिष्ठति ॥ 9 ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । सङ्गतिः स्फुटा । न कञ्चन पाप्मान स्पृशति इत्यस्यार्थमाह - सकलोपाधिविनिर्मुक्तस्य इति । न चासौ इति । सर्वप्रवृत्तिज्ञानशून्यः सुषुप्तः । मुक्तस्तु न तथा इति वैषम्यमुक्तम् । न कञ्चन इति श्रुतेरर्थमाह - अतः इति । आदि शब्दोक्तम् अनुष्ठानम् । इयं श्रुतिरनुष्ठानाद्यशक्तिपरा । अस्य सुखाद्यनुभवकर्मानुष्ठानविरह एव , न तु सर्वोपाधिनिर्मोक्षः । सति संपत्तिः नाम देहाद्यधिष्ठातृत्वविरहेण ब्रह्मणि स्थिति , सदा ध्येयत्वादस्य ॥ 9 ॥
इति कर्मानुस्मृतिशब्दविध्यधिकरणम् -3