२ तदभावाधिकरणम्

तदभावो नाडीषु तच्छØतेरात्मनि च ॥ 3-2-7 ॥

इदानिं सुषुप्तिस्थानं परीक्ष्यते … … ब्रह्म तु पर्यङ्कस्थानीयम् । अतो ब्रह्मैव साक्षात् सुषुप्तिस्थानम् ॥ 7 ॥

तदभावो नाडीषु तच्छØतेरात्मनि च । सङ्गतिः स्फुटा । वृत्त्यभावः । अणुत्वात् । राद्धान्ते - कथं कार्यभेद इत्यत्राह - संभवति च इति । हृदयान्नाड्या निष्क्रम्य पुरीतति शयनम् , प्रत्यवसृप्य इति श्रुतेः ॥ 7 ॥

अतः प्रबोधोऽस्मात् ॥ 3-2-8 ॥

यतो ब्रह्मैव साक्षात् सुषुप्तिस्थानम् … … न विदुः सत आगच्छामहे इत्यादिषु ॥ 8 ॥

अतः प्रबोधोऽस्मात् । अतः अस्मात् इति पदद्वयं व्याख्येयम् । यो यतो ब्रह्मैव , ब्रह्मणः इति व्याख्यानम् ॥ 8 ॥

इति तदभावाधिकरणम् - 2