१ सन्ध्याधिकरणम्

सन्ध्ये सृष्टिराह हि ॥ 3-2-1 ॥

एवं कर्मानुरूपगमनागमनजन्मादियोगेन … … स हि कर्ता इत्याह हि । स्वप्नदृक् जीव एव तत्र प्रतीयते ॥ 1 ॥

सन्ध्ये सृष्टिराह हि । पादसङ्गतिमाह - एवम् इति । जन्मादि इति आदि शब्देन सुखाद्यनुभवोक्तिः । दुःखित्वं रव्यापितम् इति । स्वर्गेऽपि पातभयादिति भावः ॥ 1 ॥

निर्मातारं चैके पुत्रादयश्च ॥ 3-2-2 ॥

किञ्च एनं जीवं स्वप्ने कामानां निर्मातारम् …. .. अत उपकरणाद्यभावेऽपि सृष्टिः उपपद्यते ॥ 2॥

निर्मातारं चैके पुत्रादयश्च । पुत्रादयश्च इति लिङ्गं दर्शितम् । कथं परिकरस्य सृष्टित्वम् इत्यत्राह - जीवस्य च इति ॥ 2 ॥

सिद्धान्तः

इति प्राप्तेऽभिधीयते -

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ 3-2-3 ॥

तु शब्दः पक्षं व्यावर्तयति । स्वप्ने … … तथा श्रुत्यैकार्थ्यात् परमपुरुषमेव कर्तारमाह ॥ 3 ॥

राद्धान्ते - मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वपरूपत्वात् । मात्रचा प्यनाश्चर्यत्वव्युदासः । तुशब्दलब्धार्थमाह - परमपुरुष इति । मिथ्याव्यावृत्त्यर्थं व्याचष्टे - माया इति । न भवन्ति इति मिथ्यात्वमुक्तमित्यत्राह - अत्रापि इति । सृजत्यानुगुण्यात् इति भावः ॥ 3 ॥

स्वाभाविकं चेज्जीवस्यापहतपाप्मत्वादिकं …. ….

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ 3-2-4 ॥

तुशब्दः शङ्काव्यावृत्त्यर्थः । … …. एष ह्येवानन्दयाति भीषाऽस्माद्वात्#ः

पवते इत्यादिषु ॥ 4 ॥

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ततः इति व्याख्येयम् । तत्सङ्कल्पात् इति व्याख्यानम् । बन्धस्य तादधीन्यात् तदन्तर्गतस्य तिरोधेस्तादधीन्यसिद्धिरिति भावः ॥ 4 ॥

देहयोगाद्वा सोऽपि ॥ 3-1-5 ॥

सोऽपि तिरोभावो देहयोगद्वारेणः … …. तावन्मात्रकालावसानान् तदेकानुभाव्यानर्थानुत्पादयति ॥ 5॥

कर्म प्रकृतिश्च हि तिरोधायकमित्यत्राह - देहयोगाद्वा सोऽपि इति । शक्तिः - अपृथग्विशेषणम् । वाशब्दो व्यवस्थितविकल्पवाचीत्यभिप्रयन्नाह - सृष्टिकाल इति ॥

अनयोः सूत्रयोरवान्तरार्थोपपादनपरत्वान्निगमयति - अतोऽनभिव्यक्त इति । जीववत् परस्यायोग्यत्वाकारव्युदासाय प्राक् संक्षिप्तं विस्तरेणाह - तस्मिन् लोकाः इति । अस्थिरत्वादिहेतुमाह - अतः इति ॥ 5 ॥

सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ 3-2-6 ॥

इचश्च स्वाप्ना अर्था न जीवसङ्कल्पपूर्वकाः … … शुभस्य सूचकमेव सृष्ट्वा पश्येत् । अतः स्वप्ने सृष्टिरीश्वरेणैव कृता ॥ 6॥

अनन्तरसूत्रं प्रथमापादार्थोपपादकम् । सूचकश्च हि श्रुतेराचक्षते च तद्विदः । इह स्वाप्नसृष्टूयुक्तसत्यसङ्कल्पत्वाविर्भावकॢप्तिव्युदालः . स्वाप्नाध्यायविदः - स्वप्नपरवेदवाक्यविदः ॥ 6 ॥

इति सन्ध्याधिकरणम् - 1