६ अन्याधिष्ठिताधिकरणम्

अन्याधिष्ठिते पूर्ववदभिलापात् ॥ 3-1-24 ॥

अवरोहन्तो जीवा व्रीह्यादिभावेन … … अत आकाशादिभाववचनवत् व्रीह्यादिभावेन जन्मवचनमौपचारिकम् ॥ 24 ॥

अन्याधिष्ठिते पूर्ववदभिलापात् । अधिकरणान्तरम् । केवल - शब्दाभिप्रेतमाह - यत्र हि इति । व्रीह्यादिश्लेषेऽपि नियाम्यत्वमस्तीति देहत्वं भूतसूक्ष्माणाम् । धीसङ्कोचान्नियमनप्रतिबन्धः ॥ 24 ॥

अशुद्धमिति चेन्न शब्दात् ॥ 3-1-25 ॥

नैतदस्ति - यदन्याधिष्ठिते व्रीह्यादिशरीरे … … तादात्वि- काल्पदुःखकारिणमपि रक्षकमेव वदन्ति , पूजयन्ति च तज्ज्ञाः ॥

अशुद्धमिति चेन्न शब्दात् । भाट्टोक्तपरिहारं सांख्योऽनूद्य दूषयति न च इत्यादिना क्षीरं पित्तोपहतस्य पथ्यं , न तु प्रमेहग्रस्तस्य इतिवन्न विरोधः इत्यर्थः । शङ्कते - अथोच्येत इति । अथ गुरूक्तं दूषयति - नैवम् इति । लौकिकवैदिकहिंसयोः को भेद इत्यत्राह - लौकिक्यामपि इति । रागोत्थानकमानवैषम्यात् व्यवस्था चेत् , श्येनस्यापि अधर्मत्वं न स्यादिति भावः । संवत्सरपश्वालम्भनाद्यभिप्रायेणाह - तथा इति । प्रत्यवायपरिहारफलत्वेऽपि रागात् प्रवृत्तिरिति हृदयम् ॥

परिहरति - तन्न इति । दुःखहेतुत्वं चास्तीति हिंसात्वमित्यत्राह - अतिशयति इति । न वा उ त्वे इति । न परं स्वर्गलाभादहिंसात्वकॢप्तिः । किं तु तत्कण्ठोक्तं चेति भावः । परानर्थोदर्कतया श्येनयागस्य हिंसात्वमिति वैषम्यं फलितम् ॥ 25 ॥

रेतस्सिग्योगोऽथ ॥ 3-1-26 ॥

इतश्चौपचारिकं व्रीह्यादिजन्मवचनम् …. … यथा तद्योगमात्रं प्रतिपादयति , तद्वत् व्रीह्यादिभावोऽपीत्यर्थः ॥ 26 ॥

रेतस्मिग्योगोऽथ । औपचारिकतद्भावोक्तिप्रकरणमविच्छिन्नमिति भावः ॥ 26 ॥

योनेः शरीरम् ॥ 3-1-27 ॥

योनिप्राप्तेः पश्चादेवानुयायिनां .. … ततः प्रागाशादिप्राप्तिप्रभृति तद्योगमात्रमेवेत्यर्थः ॥ 27 ॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

तृतीयस्याध्यायस्य प्रथमः पादः ॥

योनेः शरीरम् । योनिः - योषिद्योनिः । संसरतः शरीरं चेत् भोगार्थम् । न चेत् तन्न संसारिशरीरमित्यभिप्रायः ॥ 27 ॥

इति अन्याधिष्ठिताधिकरणम् - 6

श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर -

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रिसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां तृतीयस्याध्यायस्य प्रथमः पादः ॥

च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ