४ तत्स्वाभाव्यपत्त्यधिकरणम्

तत्स्वाभाव्यापत्तिरूपपत्तेः ॥ 3-1-22 ॥

इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्ताः … … तदापत्तिवचनं तत्संसर्गकृततत्सादृश्यापत्त्याभिप्रायम् ॥ 22 ॥

तत्स्वाभाव्यापत्तिरुपपत्तेः। सङ्गिर्तिं दर्शंयति - इष्ठादि इति । आकाशादिभावः - आकाशादिशरीरकत्वम् । अविशेषात् - प्रकरणस्थत्वाविशेषात् । तत्संसर्गकृततत्सादृश्यापत्त्यभिप्रायम् इति । तत्संसर्गकृतभेदकस्थूलाकारराहित्यमुक्तमित्यर्थः ॥ 22 ॥

इति तत्स्वाभाव्यापत्त्यधिकरणम् - 4