३ अनिष्टादिकार्यधिकरणम्

अनिष्टादिकारिणामपि च श्रुतम् ॥ 3-1-12 ॥

केवलेष्टापूर्तदत्तकारिणः … … तै सर्वे गच्छन्ति इत्यविशेषेण सर्वेषामेव गतिश्रवणात् ॥ 12 ॥

अनिष्टादिकारिणामपि च श्रुतम् । कर्मसंबन्धनियम उक्तः । तत्रापि साधुकर्मसंबर्न्धे नियमो नेत्युच्यते इति सङ्गतिः । देहारंभः पञ्चमाहुत्यपेक्ष इति श्रुत्यर्थापत्तिश्चाभिप्रेता ॥ 12 ॥

एवं तर्हि सुकृतदुष्कृतकारिणोः … ….

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ 3-1-13 ॥

तुशब्दः शङ्कां व्यावर्तयति … … वैवस्वतं सङ्गमनं जनानां यमं राजानम् इत्यादिषु ॥ 13 ॥

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् । संयमने इति

निमित्तसप्तमी । अयं लोको नास्ति इति । नात्र सुखमित्यर्थः ॥ 13 ॥

स्मरन्ति च ॥ 3-1-14 ॥

स्मरन्ति च सर्वेषां … … वशं यान्ति यमस्य भगवन् किल इत्यादिषु ॥ 14 ॥

अपि सप्त ॥3-1-15 ॥

पापकर्मणां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपिस्मरन्ति ॥

ननु सप्तसु लोकेषु गच्छतां … …

तत्रापि तद्व्यापारादविरोधः ॥ 3-1-16 ॥

तेष्वपि सप्तसु यमाज्ञयैव … … पश्चाच्चन्द्रारोहावरोहौ स्तः ॥

स्मरन्ति च ॥ 14 ॥

अपि सप्त ॥ 15 ॥

तत्रापि तद्व्यापारादविरोधः । त्रितयं स्फुटम् । इति पूर्वपक्षसूत्राणि ॥

सिद्धान्तः

इति प्राप्त उच्यते -

विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ 3-1-17 ॥

तु शब्दः पक्षव्यावृत्त्यर्थः । … …. य इष्टादिकारिणः ते सर्वे इति परिणेयम् ॥ 17 ॥

विद्याकर्मणोरिति तु प्रकृतत्वात् । इति शब्दस्य हेत्वर्थता दर्शिता फलभोगार्थत्वात् इति । विद्याप्रसङ्गः किमर्थः इत्यत्राह - एतदुक्तम् इति । विद्याविषयत्वम् इति । विषय शब्दः फलपरः । परिणेयम् - निर्वाह्यम्

॥ 17 ॥

ननु पापकर्मणां चन्द्रगमनाभावे .. …

न तृतीथे तथोपलब्धेः ॥ 3-1-18 ॥

तृतीयस्थानस्य शरीरारंभाव … … पुरुषवचस्त्वहेतुत्वमात्रं प्रतिपादयति , नान्यन्निवारयति , अवधारणाश्रवणात् ॥ 18 ॥

न तृतीथे तथोपलब्धेः । जायस्व म्रियस्व इति । जायन्ते म्रियन्ते इत्यर्थः ।

वेदस्वातन्त्र्यादीश्वरशासनं वा । फलानुभवाश्रयतया स्थानत्वम् । पञ्चम्याम् इति । न त्वन्ययोगव्यच्छेद इत्यर्थः ॥ 18 ॥

स्मर्यतेऽपि च लोके ॥ 3-1-19 ॥

पुण्यकर्मणामपि केषाञ्चित् … … लोके स्मर्यते द्रौपदीधृष्टद्युम्नप्रभृतीनाम् ॥ 19 ॥

स्मर्यतेऽपि च लोके । स्फुटम् ॥ 19 ॥

दर्शनाच्च ॥ 3-1-20 ॥

श्रुतावपि दृश्यते केषाञ्चित् … … भूतयोः पञ्चमाहुतिमन्तरेणोत्पतिं्तर्दृश्यते ॥ 20 ॥

दर्शनाच्च । अण्डजम् इति । कार्यत्रैविध्यात् त्रीणि बीजानि इत्यर्थः

॥ 20 ॥

ननु स्वेदजानामत्र सङ्कीर्तनं … …

तृतीयशब्दावरोधः संशोकजस्य ॥ 3-1-21 ॥

संशोकजस्य - स्वेदजस्यापि … … अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न संभवति ॥ 21 ॥

तृतीयशब्दावरोधः संशोकजस्य । उद्भिज्जस्यायोनिजत्वसाम्यात् तृतीयशब्देन सङ्ग्रहः ॥ 21 ॥

इति अनिष्टादिकार्यधिकरणम् - 3