२ कृतात्ययाधिकरणम्

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ 3-1-8 ॥

केवलेष्टापूर्तदत्तकारिणाम् , धूमादिना …. … तत्राकाशावरोहणाद्यथेतम् ; वाय्वादिप्राप्तेः पितृलोकाद्यप्राप्तेश्चानेवम्

॥ 8 ॥

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । यावत्संसारं प्रकृत्यसंबन्धो निषिद्धः । अथ तद्धेतुभूतकर्मसंबन्ध उच्यते इति सङ्गतिः । अभ्याशः - अभ्यागन्तारः । अभुक्त इति श्रुत्यर्थापत्तिकथनम् । यथेतम् - यथागतम् ॥ 8 ॥

चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि #ः ॥ 3-1-9 ॥

रमणीयचरणाः कपूयचरणाः इति …. … सुखदुःखप्राप्त्यसंभवात् । सुखदुःखे हि पुण्यपापरूपकर्मफले ॥ 9 ॥

चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः अनवद्यानिकर्माणि इति यज्ञादीनि ; अस्माकं सुचरितानि इति आचार इति पूर्वपक्षिणो भावः पुण्य शब्देन

यज्ञादि उच्येते ॥ 9 ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ 3-1-10 ॥

एवं तर्हि अफलत्वादाचारस्य …. … कर्मोपलक्षणार्थेति कार्ष्णाजिनेरभिप्रायः ॥ 10 ॥

आनर्थक्यमिति चेन्न तदपेक्षत्वात् । स्फुटम् ॥ 10 ॥

सुकृतदुष्कृते एवेति तु बादरिः ॥ 3-1-11 ॥

पुण्यं कर्माचरति पापं कर्माचरति … … फलमिति तु स्वीकृतम् । अतः सानुशया एव प्रत्यवरोहन्ति ॥ 11 ॥

सुकृतदुष्कृते एवेति बादरिः । पृथक् इति । अनवद्यानिकर्माणि इति प्रत्यक्षश्रुतिसिद्ध कर्मोक्तिः । गोबलीवर्द इति । लाक्षणिकार्थस्वीकारादपि मुख्यार्यापरित्यागेन विषयसङ्कोचो युक्त इति भावः । अधिकरणार्थमुपसंहरति - अतः इति ॥ 11 ॥

इति कृतात्ययाधिकरणम् - 2