१ तदन्तरप्रतिपत्त्यधिकरणम्

तदन्तरप्रातिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ 3-1-1 ॥

अतिक्रान्ताध्यायद्वयेन निखिलजगदेककारणम् …. … अत एवं प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैः भूतसूक्ष्मैः सह तत्र तत्र यातीति गम्यते

॥ 1 ॥

तदन्तरप्रतिपत्तौ रंहति संपरिष्क्तः प्रश्ननिरूपणाभ्याम । उत्तरद्विकसङ्गत्यर्थं पूर्वद्विकार्थमाह - अतिक्रान्त इति । अयमर्थः इत्यन्तेन प्रथमाध्यायार्थ उक्तः । स्मृतिइत्यादिना द्वितीयस्य । द्वयोरनुगतार्थमाह - अतः इति । द्वितीयद्विकार्थमाह - उत्तरेण इति । सिद्धविषयचिन्ताबृता ; साध्यविषयचिन्ता वर्तिष्यत इत्यर्थः । तृतीयस्यार्थमाह - तत्र इति । कथं प्रथमद्वितीययोरुपासनोक्तिरित्यत्राह - उपासन इति । तत्र इति । जागरे दोषाः फलिताः स्युरति भावः ॥

प्रश्नानन्तरं भूतसूक्ष्मपरिष्वङ्गोक्त्यदर्शनात् अर्थान्तरव्यवधान शङ्काव्युदासाय अनेकप्रश्नतत्प्रतिवचनरूपतां प्रकरणस्य दर्शयति - पञ्चाग्नि इत्यादिना । व्यावर्तने - व्यावर्तकाकारौ । श्रद्धा - भूतसूक्ष्मावस्थाविशेषः । सोमराज - अमृतमयदेवशरीरम् । अभिलप्याः - समासावगतसंबन्धो वाच्यवाचकभावरूपविशेष इति भावः । ततः किं भूतसूक्ष्मान्वयसिद्धेरित्यत्राह - एवमुक्ते इति प्रश्नप्रतिवचनवाक्ययो र्द्वयोरपि आहुतौ इति निर्देशेन होतव्यद्रव्याकांक्षायां स्ववाक्यस्थतया अपाम् एव होतव्यत्वोपपत्तेः । पञ्चस्वाहुतिषु ताः अनुवृत्ता इति तासां पुरुषवचस्त्वमित्यर्थः । ततः किमित्यत्राह - अतः इति ॥ 1 ॥

ननु आप पुरुवचसः इन्युक्तेः …. …

त्र्यात्मकत्वात् तु भूयस्त्वात् ॥ 3-1-2 ॥

तुशब्दश्चोद्यं व्यावर्तयति … … देहे च लोहितादिभूयस्त्वे नारंभकेषु अपां भूयस्त्वं गम्यते ॥ 2 ॥

अनन्तरसूत्रङ्कामाह - ननु इति । त्र्यात्मकत्वात् तु भूयस्त्वात् । ननु एकैकं

त्रिवृत्कृतानि सर्वाणि भूतानि देहे सन्ति । तत् कथं त्रिवृत्करणं सर्वभूतसद्भावे हेतुरुक्तः ? उच्यते - त्रिवृत्करणश्रुतेः प्रत्येकं त्रिवृत्कृतभूत समुदायस्यैव व्यष्टिदेहारंभकताप्रतिपादनपरत्वादिति । व्यष्टिसृष्ट्यर्थमनुप्रवेष्टव्यतया श्रुतानां तासां देवतानामेकैकस्य न हि त्रिवृत्करणमुच्यते तिस्रो देवता अनुप्रविश्य तासां त्रिवृतं त्रिवृतमेकैकाम् इति । अतः त्रिवृत्कृतसमुदाय एव देहारंभकः । अतो देहे च इति । त्रिवृत्कृतात् भूतान्तरात् त्रिवृत्कृतानामपां देहे भूयस्त्वमित्यर्थः ॥ 2 ॥

प्रणगतेश्च ॥ 3-1-3 ॥

इतश्च भूतसूक्ष्मपरिष्वक्तस्य गमनमिति गम्यते । …. … तदाश्रयभूतानां भूतसूक्ष्माणामपि गतिरभ्युपगन्तव्या ॥ 3 ॥

प्राणगतेश्च ।

स्मर्यते च ॥

सूत्रद्वयं स्फुटम् ॥ 33 ॥

अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात् ॥ 3-1-4 ॥

यत्रास्य पुरुषस्य मृतस्याÐग्न वागप्येति … … अतः चक्षुराद्यप्ययश्रुतिरधिष्ठातृदेवतापक्रमणद्वारा ॥ 4 ॥

अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात् । अनपियद्भिः - अप्ययरहितैः । केशाद्यप्ययश्रुतिवत् वागाद्यप्ययश्रुतिस्तत्तद्देवतापक्रमणद्वारा । वागभिमानिदेवता अग्निमष्येति - वागभिमानित्वं विहाय केवलमग्निरूपेण तिष्ठतीत्यर्थः ॥ 4 ॥

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ 3-1-5 ॥

यदुक्तम् - अद्भिः सूक्ष्माभिः भूतान्तरसंसृष्टाभिः … …. अतो भूतान्तरसंसृष्टाभिरद्भिः संपरिष्वक्तो जीवो रंहतीत्युपपन्नम् ॥

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः । श्रद्धा इति । प्रश्नगतप्रकारस्य प्रतिवचनान्ते निगमनात् मध्येऽपि तत्प्रकार एवोक्त इति श्रद्धा - आपः इत्यर्थः । अपामेव , न तु मनोवृत्तिविशेषस्य ॥ 5॥

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ 3-1-6 ॥

यत् पुनरुक्तम् - अद्भिः संपरिष्वक्तो जीवो यातीति … .. विशेष्ये जीव एव पर्यवस्यति । अतः संपरिष्वक्तो जीवो यातीत्युपपद्यते ॥ 6 ॥

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । अस्मिन्नेव वाक्ये महावाक्ये इत्यर्थः । तद्भूय इति । तद्योगी भवतीत्यर्थः । स्फुटजीववाक्यैकार्थ्यात् अस्फुटार्थस्य

वाक्यस्य तत्परत्वमित्यर्थः । श्रद्धा - शब्देन तद्विशिष्टकथनं लाक्षणिकमित्यत्राह - देहस्य इति ॥ 6 ॥

ननु च तं देवा भक्षयन्ति इति …. …

भाक्तं वाऽनात्मवित्त्वात् तथा हि

दर्शयति ॥ 3-1-7 ॥

वाशब्दश्चोद्यं व्यावर्तयति । … …. तस्मात् भूतसूक्ष्मैः संपरिष्वक्तो जीवो रंहतीति सिद्धम् ॥ 7 ॥

अनन्तरसूत्रस्याकांक्षां चोद्यमुखेन दर्शयति - ननु इति । भाक्तं वाऽनात्मत्त्वात् तथा हि दर्शयति । इहामुत्र चोपकरणत्वं विवृणोति - इह इति । अन्नत्वेन - भोग्यत्वेन । भक्षणस्यान्नविनाशरूपव्यावृत्तिः । अधिकरणार्थमुपसंरति - तस्मात् इति ॥ 7 ॥

इति तदन्तरप्रतिपत्त्यधिकरणम् - 1