विश्वास-प्रस्तुतिः
प्रथमाध्याये
प्रत्यक्षादि-प्रमाण-गोचराद् अचेतनात्
तत्+++(→अचेतन)+++-संसृष्टात् तद्-वियुक्ताच् च चेतनात्
अर्थान्तर-भूतं निरस्त-निखिलाविद्याद्य्–अ-पुरुषार्थ-गन्धम्
अन्-अन्त-ज्ञानानन्दैक-तानं अपरिमितोदार-गुण-सागरं निखिल-जगद्-एक-कारणं सर्वान्तरात्म-भूतं ब्रह्म
वेदान्त-वेद्यम् इत्य् उक्तम् ।
Thibaut
The first adhyāya has established the truth that what the Vedānta-texts teach is a Supreme Brahman,
which is something different as well from non-sentient matter known through the ordinary means of proof, viz. Perception and so on,
as from the intelligent souls
whether connected with or separated from matter;
which is free from even a shadow of imperfection of any kind;
which is an ocean as it were of auspicious qualities and so on;
which is the sole cause of the entire Universe;
which constitutes the inner Self of all things.
मूलम्
प्रथमाध्याये प्रत्यक्षादिप्रमाणगोचरादचेतनात् तत्संसृष्टात्तद्वियुक्ताच्च चेतनात् अर्थान्तरभूतं निरस्तनिखिलाविद्याद्यपुरुषार्थगन्धं अनन्तज्ञानानन्दैकतानं अपरिमितोदारगुणसागरं निखिलजगदेककारणं सर्वान्तरात्मभूतं ब्रह्म वेदान्तवेद्यमित्युक्तम् ।
श्रुत-प्रदीपिका
प्रथमेऽध्याये प्रत्यक्षादिप्रमाणगोचरात् … … तदिदमाशङ्कते - स्मृत्यनवकाशदोषप्रसङ्ग इति चेत् - इति ॥
“स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।”
सङ्गत्यर्थं, प्राथमिकार्थ-सु-ग्रहार्थं च
प्रथमाध्यायार्थम् अनुवदति - प्रथम इति ।
विश्वास-प्रस्तुतिः
अनन्तरम् अस्यार्थस्य
सम्भावनीय-समस्त-प्रकार–दुर्-धर्षणत्व–प्रतिपादनाय
द्वितीयोऽध्याय आरभ्यते ।
Thibaut
The second adhyāya is now begun for the purpose of proving that the view thus set forth cannot be impugned by whatever arguments may possibly be brought forward.
मूलम्
अनन्तरमस्यार्थस्य सम्भावनीयसमस्तप्रकारदुर्धर्षणत्वप्रतिपादनाय द्वितीयोऽध्याय आरभ्यते ।
श्रुत-प्रदीपिका
द्वितीयार्थमाह - अनन्तरम् इति ।
समस्त इति ।
तत्-तत्-पाद-निरसनीय-तर्क-वैविध्यं विवक्षितम् ।
अ-योगान्य-योग-व्यवच्छेदेन
ब्रह्म-कारणत्वं निरूपितं प्रथमे ।
द्वितीये तु विरोधः परिह्नियते इत्यर्थः ॥