७ अंशाधिकरणम्

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके

॥ 2-342 ॥

जीवस्य कर्तृत्वं परमपुरुषायत्तम् … … उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोंऽश इत्यभ्युपेत्यम् ॥ 42 ॥

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । जीवोऽनुमतिदानात् प्रवृत्तश्चेत् राजभृत्यादिवत् स्पष्टभेदः स्यात् इति शङ्कया सङ्गतिः । ब्रह्मंश इति पक्षे च किं विशेष्यैकदेशतयांशः , उत विशिष्टैकदेशरूपविशेषणतया इति विकल्पो गर्भितः श्रुति इति । वादिविमतेरपि श्रुतिवैविध्यमूलत्वात् इति भावः । ननु इति शङ्कितं पौनरुक्त्यं परिहरति सत्यम् इति । पूर्वं शरीरात्मभावेनाभेदश्रुतिमुख्यत्वमुक्तम् । तच्चात्र शरीरवाचिनामाकृतिनयविषयत्वे स्थापिते सिध्येत् । तच्च प्रभाया इवायुतसिद्धविशेषणतयांशत्वे सिध्यति । विशेषणतयांशत्वात् विलक्षणत्वसिद्धिरिति उभयव्यपदेशमुख्यत्वमिहैव प्रतिष्ठितमित्यर्थः । किं तावत् इत्यादि । विशेष्यैकदेशरूपांशवादिनम् अत्यन्तभेदवादी दूषयति - ब्रह्मर्णोऽशः इति । यद्वा इति । अभेद षङ्विधतात्पर्यलिङ्गसद्भावोऽभिप्रेतः ॥

राद्धान्ते - ततश्च इति । निकृष्टैरपि सामानाधिकरण्यम- भेदस्यौपचारिकत्वविरोधीति भावः । परोक्तान्यथासिद्धि दूषयति - न च इति । अभेदश्रुतिविरोधपरिहारादिकं पूर्ववत् । स्पष्टम् । सत्योपाध्यवच्छिन्नब्रह्यजीवपक्षं दूषयति - उपाध्यवच्छिन्नम् इत्यादिना ॥ 42 ॥

मन्त्रवर्णात् ॥ 2-3-43 ॥

पादोऽस्य विश्वा भूतानि …. … असन्ततेश्चाध्यतिकरः इत्यनन्तरमेव चात्मबहुत्वं वक्ष्यति ॥ 43 ॥

मन्त्रवर्णात् । कथमंशत्वाप्रतीरित्यत्राह - अंशवाची इति । नित्यो नित्यानाम् इति विशिष्टविधिः । भेदस्य स्वाभाविकत्वमलौकिकम् । भेदकाकाराभावन्मुक्तौ कथं भेदधीरित्यत्राह - एवम् इति । ज्ञानस्वरूपत्वेन इति जीवाद्वैतवचननिर्वाहः सूचितः । प्रत्यक्तया पराक्तया च भेदः ॥

अपि स्मर्यते ॥ 2-3-44 ॥

ममैवांशो जीवलोके जीवभूतः … … पुरुषोत्तमांशत्वं स्मर्यते । अतश्चायमंशः ॥ 44 ॥

अपि स्मर्यते । स्फुटम् ।

अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन … …

प्रकाशादिवत् तु नैवं परः ॥ 2-3-45 ॥

तुशब्दश्चोद्यं व्यावर्तयति …. …. जीवशरीरकब्रह्मवाचकत्वे नैकार्थाभिधायित्वादित्ययमर्थः प्रागेव प्रपञ्चितः ॥ 45 ॥

शङ्कामाह - अंशत्वेऽपि इति । प्रकाशादिवत् तु नैवं परः । आदि शब्दार्थमाह - यथा गवाश्व इति । कथमंशत्वमित्यत्राह एकवस्तु इति । ततः किं प्रकृतशङ्काया इत्यत्राह - विशेषणविशेष्ययोः इति । बहुलत्वविरलत्वादिस्वभावे वैलक्षण्यम् । अयमर्थः सौत्र इत्याह तदिदम् इति । सूत्रखण्डेऽमुमर्थं दर्शयति - यथाभूतः इति

। वाक्यार्थमाह - यथैव हि इति । तेनोभयव्यपदेशमुख्यत्वसिद्धिमाह - एवम् इति । भानुः भानुमान् इत्यादयः सपक्षाः इति । प्रागेव इति । प्रागुक्तार्थ एतत्सूत्राभिप्रेत इत्यर्थः ॥ 45 ॥

स्मरन्ति च ॥ 2-3-46 ॥

एवं प्रभाप्रभावद्रूपेण शक्तिशक्तिमद्रूपेण … …. आत्मशरीर - भावेनांशांशित्वं वदन्ति इत्युच्यते ॥ 46 ॥

स्मरन्ति च । अं शत्वे स्मृतिः प्रागुक्ता । विशेषणतयांशत्वे त्वियमुपात्ता । स्मृतौ दृष्टान्तेन वैशद्यात् तत्कण्ठोक्तिः ॥ 46 ॥

एवं ब्रह्मणोशत्वे ब्रह्मप्रवर्त्यत्वे … …

अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ 2-3-47 ॥

सर्वेषा ब्रह्मांशत्वज्ञत्वादिनै - करूपत्वे …. .. श्रोत्रियादेरनुज्ञायते । अभिशस्तादेस्तु परिह्रियते ॥ 47 ॥

अधिकरणत्रयार्थमनुवदन् अनन्तरसूत्रशङ्कामाह - एवम् इति । अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् । आदि शब्दार्थमाह - यथा च इति ॥ 47 ॥

असन्ततेश्चाव्यतिकरः ॥ 2-3-48 ॥

ब्रह्मांशत्वादिनैकरूपत्वे सत्यपि …. … इत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः ॥ 48 ॥

असन्ततेश्चाव्यतिकरः । समन्तात् ततिः सन्ततिः , तदभावः अणुत्वम् । तात्पर्यमाह - भ्रान्त इति ॥ 48 ॥

ननु भ्रान्तब्रह्मजीववादेऽपि … …

आभास एव च ॥ 2-3-49 ॥

अखण्डैकरसप्रकाशमात्रस्वरूपस्य … … एकत्वाभ्युपगमात् भोगव्यतिकरस्तदवस्थ एव ॥ 49 ॥

आभास एव च । तिरोधानादिकमेवानुपपन्नम् । उपपन्नेऽपि न व्यवस्थोपपत्तिरित्यर्थः ॥ 49 ॥

पारमार्थिकोपाध्युपहितब्रह्मजीववादे .. ….

अदृष्टानियमात् ॥ 2-3-50 ॥

उपाधिपरंपराहेतुभूतस्यादृष्टास्यापि …. … स्वसंबन्धेन ब्रह्मस्वरूपच्छेदासंभवात् ॥ 50 ॥

अदृष्टानियमात् प्रदेशभेदान्नियम इत्यत्राह - उपाधिभिः इति ॥ 50 ॥

अभिसन्ध्यादिष्वपि चैवम् ॥ 2-3-51 ॥

अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ॥ 51 ॥

अभिसन्ध्यादिष्वपि र्चैवम् । चः अवधारणे । आदि शब्दादुद्योगानुष्ठानादिः । उक्तात् - अच्छेद्यत्वादिकात् ॥ 51 ॥

प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ 2-3-51 ॥

यद्यप्येकमेव ब्रह्मस्वरूपम् , तच्छेदानर्हम् …. … सूत्रैर्वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते ॥ 52 ॥

इति अंशाधिकरणम् - 7

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य तृतीयः पादः ॥ 3 ॥

प्रदेशभेदादिति चेन्नान्तर्भावात् । उपाधीनाम् इत्यादिग्रन्थद्वये जीवानां मिथ ईश्वरेण च व्यतिकर उक्तः । पुनरुक्तिमाशङ्क्याह - पूर्वत्र इति ॥ 52 ॥

इति अंशाधिकरणम् - 7

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धबेदव्यासापर -

नामधयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रदीपिकायां द्वितीयस्याध्ययस्य तृतीयः पादः ॥

क़दृद्वद्धद्यण् घ्ठ्ठड्डठ्ठ