परात् तु तच्छØतेः ॥ 2-3-40 ॥
इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण ? …. … भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया इति ॥ 40 ॥
परात् तु तच्छØतेः । सङ्गतिः स्फुटा ॥
राद्धान्ते -
तत् इति व्याख्येयम् । कर्तृत्वम् इति व्याख्यानम्
॥ 40 ॥
नन्वेवं विधिनिषेधशास्त्रानर्थक्यं …. ….
कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ 2-3-41 ॥
सर्वासु क्रियासु पुरुषेण कृतं …. … क्षिपाभ्यजस्रमशुभानासुरीष्वेव योनिषु इत्युक्तम् ॥ 41 ॥
अनन्तरसूत्रशङ्कामाह - ननु इति । कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । आदि शब्दं व्याचष्टे -
निग्रह इति । भाष्यस्थ - आदि शब्देन फलदानग्रहणम् । प्रवृत्तस्य प्रवर्तकोऽनुमन्ता । अन्यसापेक्षत्वे प्रथमप्रवृत्तस्य च फलान्वये च दृष्टान्तमाह - यथा इति । राजसंश्रयणादिकमुदाहरणम् । अन्यापेक्षत्वेऽपि विधिनिषेधभाक्त्वं रथाकर्षकेषु दृष्टम् । अंशे पारतन्त्र्यात् न फलमिति पूर्वः पक्षः । अंशे स्वातन्त्र्यात् फलमिति सिद्धान्तः ॥
साधारणकारणमीश्वरः करणकलेवरचित्प्रवृत्तिदानादिना । विशेषकर्तृत्वे तु प्रागुपेक्षकः पश्चात् त्वनुमन्ता । अनुमतिश्च फलदानतुल्या । अतः परायत्तत्वम् । प्रथमप्रवृत्तौ स्वातन्त्र्यात् फलान्वयः । दया त्वन्यत्र सावकाशा । अप्रवृत्तप्रवर्तनरूपं प्रयोजयितृत्वं दश्यत इति चोदयति - ननु इति । फलदानकल्पमिति बुद्ध्या परिहरति - उच्यते इति । लोकदृष्ट्याऽनुमन्तृत्वात् दोषापादनं धर्मिग्राहकध्वस्तम् । अनुमन्तुः फलान्वयश्च शास्त्रवश्यत्वे सत्यनुमन्तृत्वात् । न त्वनुमन्तृत्वमात्रात् । अतः सर्वमुपपन्नम् ॥
इति परयत्ताधिकरणम् - 6