५ कर्त्रधिकरणम्

कर्ता शास्त्रार्थवत्त्वात् ॥ 2-3-33 ॥

अयमात्मा ज्ञाता , स चाणुपरिमाण इत्युक्तम् । इदानीं …. य आत्मानमेव केवलं कर्तारं मन्यते , न स पश्यतीत्यर्थः ॥ 33 ॥

कर्ता शास्त्रार्थवत्त्वात् । ज्ञातृत्वसापेक्षत्वात् कर्तृत्वस्य , तदनन्तरं तच्चिन्तासङ्गतिः । हन्तारम् इति । महान्तं विभुम् इति प्रकरणोक्ते परमात्मनि न जायते इत्यचिद्धर्मः , हन्तारम् इति पुण्यपापकर्तृत्वरूपजीवधर्मश्च निषिध्यत इति शङ्काव्युदासायोक्तं जीवस्य इति । अवान्तरप्रकरणे परस्य न प्रसङ्ग इति भावः । प्रकृतौ नित्यायां कर्तृत्वरूपजीवधर्मः नाशित्वं च निषिध्यति इति शङ्काव्युदासायोक्तं सर्वं प्रकृतिधर्मम् इति । कार्त्स्न्येन प्रकृतिधर्मनिषेधपरं प्रकरणमिति भावः

। हन्तुम् इति द्वितीयान्तः , जन्तुम् इतिवत् । हननमात्रे कर्तृत्वनिषेधः , न सर्वक्रियासु इति शङ्काव्युदा सायाह - तथा च इति ॥

राद्धान्ते - शास्रार्थवत्त्वात् इति । प्रयोजनतया हेतुत्वम् । अवयवार्थनिरूपणेन कर्तृत्वमाह - शासनाच्च इति । गुणानामेव कर्तृता इति औपचारिकोक्तिः । गुणसहकृतत्वं स्फुटयति - तथा च इति । आत्मनः कर्तृत्वं भगवद्गीतायामभ्युपगतमित्याह - तथा इति । इदमपि वचनं विशदयितुमाह - अधिष्ठानम् इति । शरीरवाड्मनोभिः इत्यादिरप्यनुसन्धेयः ॥ 33 ॥

उपादानाद्विहारोपदेशाच्च ॥ 2-3-34 ॥

स यथा महाराजः इति प्रकृत्य … … प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते ॥ 34 ॥

उपादनाद्विहारोपदेशाच्च । इन्द्रियप्राणदेहप्रेरणकर्तृंत्वमुक्तमित्यर्थः ॥

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ 2-3-35 ॥

विज्ञानं यज्ञं तनुते कर्माणि तनुते …. … बुद्धेः करणत्वात् विज्ञानेनेति करणधिभक्तिनिर्देशः स्यात् ॥ 35 ॥

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः । विज्ञानेन इति । उपचरितत्वे तदेव दोष इति भावः ॥ 35 ॥

उपलब्धिवदनियमः ॥ 2-3-36 ॥

आत्मनोऽकर्तृत्वे दोष उच्यते । … … अन्तःकरणादीनामपि नियमो नोपपद्यते ; यदायत्ता व्यवस्था स्यात् ॥ 36 ॥

उपलब्धिवदनियमः । अन्तःकरणभेदात् व्यवस्थेत्यत्राह - अत एव च इति ॥ 36 ॥

शाक्तिविपर्ययात् ॥ 2-3-37 ॥

बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेः … …. पुरुषोऽस्ति भोक्तृभावात् इति हि तेषामभ्युपगमः ॥ 37 ॥

शक्तिविपर्ययात् । कथं मानाभाव इत्यत्राह - पुरुषोऽस्ति इति ॥

समाध्यभावाच्च ॥ 2-3-38 ॥

बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि … …. प्रकृतिः समाधातुमलम् । अतोऽप्यात्मैव कर्ता ॥ 38 ॥

समाध्यभावाच्च । अचेतनत्वात् प्रकृतेन्यथाविषयत्वाच्च समाध्यनुपपत्तिः ॥ 38 ॥

यथा च तक्षोभयथा ॥ 2-3-39 ॥

वागादिकरणसंपन्नोऽप्यात्मा … … भोगवाञ्छादिनियमकारणाभावात् सर्वदा कर्तृत्वमेव स्यात् ॥ 39 ॥

यथा च तक्षोभयथा । त्वदुक्तो दोषस्त्वन्मते एवेत्याह - वुद्धस्तु इति

॥ 39 ॥

इति कर्त्रधिकरणम् - 5