ज्ञोऽत एव ॥ 2-3-19॥
वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। …. … कर्ता विज्ञानात्मा पुरुषः “एवमेवास्य परिद्रष्टुरिमाःषोडशकलाः” इति ॥ 19॥
ज्ञोऽत ऐव । सङ्गतिमाह - वियदादिवत् इति । सङ्गतिः प्रासङ्गिकी । कार्यताप्रकारो हि पादनिरूप्यः । स्वात्मानं प्रति ज्ञातृत्वम् स्वस्वान्यभानप्रतिसंबन्धित्वं विवक्षितम् । स्वरूपम् - स्वाभाविकाकारः अकादाचित्कमित्यर्थः । अतः शिरोद्वयप्रतियोगित्वं तृतीयशिरसः । इदमेवात्र निरूप्यम् । तत्र स्वभानप्रतिसंबन्धितया प्रत्यक्त्वम् ; तस्य स्वापोऽपि विद्यमानत्वात् अजडस्वरूपत्वम् । अन्यभानप्रतिसंबन्धितया ज्ञानाश्रयत्वम् । शङ्काविशेषपरिहारार्थमणुत्वमित्येषामर्थानां ज्ञत्वनिरूपणान्तर्भावादैकाधिकरण्यम्
॥
अपरः- काणादादिः । सर्वगतत्वं च इति । ज्ञानादिकं कार्य शब्दार्थः । भोग्यवस्तु चाभिप्रतम् । अणुत्वगत्योर्द्वयोः क्लृप्तेः विभुत्वकॢप्तिर्वरमिति लाघवमभिप्रेतम् ॥
राद्धान्ते - एतच्छब्दः प्रकृतजातीयपरामर्शीति श्रुतिव्यक्तिभेदाविरोधः ॥19॥
यत्तूक्तं ज्ञातृत्वे स्वाभाविके सति…..
उत्क्रान्तिगत्यागतीनाम् ॥ 2-3-20॥
नायं सर्वगतः, अपि त्वणुरेवायमात्मा….विभुत्वे ह्येता उत्क्रान्त्यादयो नोपपद्येरन् ॥ 20 ॥
उत्क्रान्तिगत्यागतीनाम् । श्रुत्यर्थापत्तिरुक्ता ॥ 20॥
स्वात्मना चोत्तरयोः ॥ 2-6-21॥
चशब्दो ऽवधारणे । यद्यपि शरीरवियोगरूपत्वेन …. अतस्ते स्वात्मनैव संपाद्ये ॥ 21॥
स्वात्मना चोत्तरयोः । कथञ्चित् इति अस्वारस्यसूचन् । गतेः श्रौतत्वात् अणुत्वमेव कल्प्यमिति न गौरवम् । विभुत्वक्लृप्निस्तु श्रुतिविरुद्धेति भिदेत्यर्थः ॥
नाणुरतच्छुतेरिति चेन्नेतराधिकारात् ॥ 2-3-22 ॥
“योऽयं विज्ञानमयः प्राणेषु” इति जीव…..मध्ये परः प्रतिपाद्यत इति तत्संबन्धीदं महत्त्वम् ; न जीवस्य ॥ 22 ॥
नाणुरतच्छØतेरिति चेन्नेतराधिकारात् । यस्य - जीवस्य , अनुवित्तः- उपास्यः, प्राप्यो वा । विदेर्ज्ञानलाभार्थत्वात् । ज्ञानार्थत्वे इडनित्यत्वं छान्दसम् । अदृष्टो द्रष्टेतिवत् अर्हार्थीया निष्ठा । प्रतिबुद्धः- प्राज्ञः ॥ 22 ॥
स्वशब्दोन्मानाभ्यां च॥ 2-3-23॥
साक्षादणुशब्द एव श्रूयते “एषोऽणुरात्मा….अतोऽणुरेवायमात्मा ॥23॥
स्वशब्दोन्मानाभ्यां च । इह श्रुतिर्दर्शिता । अणुत्वं च श्रौतमितिन किञ्चित् कल्प्यम् । स्वशब्दः अणुत्ववाचकः । न त्वाक्षेपकः॥
अथ स्यात्-आत्मनोऽणुत्वे….
अविरोधश्चान्दनवत् ॥ 2-3-14॥
यथा हरिचन्दनबिन्दुः …. …. दैहैकदेशवर्ती सकलदेशवर्तिनीं वेदनामनुभवति ॥ 24 ॥
शङ्कामाह - अथ इति। वेदना- दुःखानुभवः ;प्रदर्शन वा सुखस्य ॥
अविरोधश्चन्दनवत् । वेदनामनुभवति - दुःखमनुभवतीत्यर्थः ॥
अवस्थितिवैशेष्यादिति चेन्नामभ्युपगमाद्धृदि हि ॥ 2-3-25॥
हरिचन्दनबिन्द्वादेर्देहदेशविशेष… चन्दनदृष्टान्तः प्रदर्शितः,न तु चन्दनस्य देशविशेषापेक्षा ॥ 25 ॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । कार्यकरत्वौपयिकत्वात् तत्रैकशतम् इत्युपात्तम् । न तु इति । न तु हन्मात्रापेक्षा । नासानयनादिमर्मस्थित्या कार्यकरत्वादित्यर्थः ॥
एकदेशवर्तिनः सकलदेहव्यापि…
गुणाद्वाऽऽलोकवत् ॥ 2-3-26॥
वाशब्दो मतान्तरव्यावृत्त्यर्थः ; आत्मा…अन्यत्रवृत्तिर्मणिप्रभाव- दुपपद्यत इति प्रथमसूत्रे स्थापितम् ॥ 26 ॥
सौभर्यादीनामेकेतरदेहेषु प्रागुक्तदिशा कार्यकरत्वयगान्निर्वाहान्तरोक्तिः ॥ गुणादवाऽऽलोकवत् । कथमयुतसिद्धधर्मस्य देशान्तरे वृत्तिरित्यत्राह- ज्ञातुः
प्रभा इति ॥ 26 ॥
ननु-उक्तं ज्ञानमात्रमेवात्मेति ।….
व्यतिरेको गन्धवत् तथा च दर्शयति ॥ 2-3-27 ॥
यथा पृथिव्याः गन्धस्य गुणत्वेन …. दर्शयति च श्रुतिः “जानात्येवायं पुरुषः” इति ॥ 27॥
ननु इति ज्ञानस्वरूपवचनमभिप्रेतम् । तन्निर्वाहाय व्यतिरेके मानं दर्श्यते ॥
व्यतिरेको गन्धवत् तथा च दर्शयति । जानाति इति विशिष्टवाचकशब्दः ॥ 27 ॥
पृथगुपदेशात् ॥ 2-3-28 ॥
स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते - न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति ॥ 28 ॥
पृथगुपदेशात् । विशेषणस्य पदान्तरेण निर्देशो दर्शितः ॥ 28 ॥
यत् तु उक्तम् यो विज्ञाने तिष्ठन् …. ….
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॥ 2-3-29 ॥
तुशब्दश्चोद्यं व्यावर्तयति । … … यः सर्वज्ञः इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते ॥ 29 ॥
व्यतिरेके मानसिद्धे ज्ञानरूपत्ववचनं निर्वोढुं प्रागुक्तशङ्कामुद्धाटयति - यत् तु इति ॥
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । तच्छब्दार्थमाह विज्ञान इति । षष्ठीतत्पुरुषशङ्काव्युदासायाह -
विज्ञानमेव इति । गुण शब्दः अप्रधानवाची । गुणः शेषभूतः , तस्य सारत्वं गुणान्तरापेक्षया प्रकृष्टत्वम् । तच्च होमादिगुणभूतदध्यादिव्यावर्तकम् अपृथक्सिद्धत्वम् । तेन गुणिपर्यन्तबोधनस्य मुख्यत्वसिद्धिः । विज्ञानमेव - द्रव्यमेव सदयुतसिद्धमिति भावः । प्राज्ञवत् इत्यंशं व्याचष्टे - यथा इति । दृष्टान्ते धर्मधर्मिभावस्य प्रामणिकत्वं दर्शयति - यदेष इति। स्पष्टम् ॥ 29 ॥
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ 2-3-30 ॥
विज्ञानस्य यावदात्मभाविधर्मत्वात् … … स्वप्रकाशत्वेन विज्ञानमिति
व्यपदेशो न दोष इति समुच्चिनोति ॥ 30 ॥
पटः शुक्ल इत्यादौ गुणपदेन गुण्युक्तिः धर्मिसमर्पकपदान्तरसम- भिव्याहारात् । इह तु तदभावान्न गुण्युक्तिर्युक्तेति स्वरूपमेव ज्ञानमुच्यते , न धीधर्मकं स्वरूपमित्यत्राह - यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् । आत्म शब्दो धर्मिपरः । तद्व्यपदेशः न दोषः । दूष्यत इति दोषः । कर्मणि घञ् । धर्मिवाचिपदान्तराभावस्वरूपदोषदुष्टो न भवतीत्यर्थः । तद्दर्शनात् इत्येतत् व्याचष्टे - तथा इति । कथं शङ्कयाः परिहृतत्वमित्यत्राह - स्वरूप इति । शौक्ल्यस्य पटनिरूपकत्वाभावात् धर्मिवाचिपदान्तरापेक्षा । गोत्वादेस्तु निरूपकत्वात् न गवदिपदानां तदपेक्षा । ज्ञानपदं तद्वदित्यर्थः । ज्ञानमचिदपेक्षया जीवस्य निरूपकम् । परस्य तु स्वतो नित्यासंकुचितं ज्ञानं निरूपकम् । अत्र पूर्वसूत्रोक्तस्यायुतसिद्धत्वस्य हेतोः असिद्धिशङ्का च यावदात्मभावित्वोक्त्याऽर्थान्निरस्ता भवति । अयावदधर्मिभाविनामपि गुणानामयुतसिद्धिरस्ति । किं पुनर्यावद्धर्मिंभाविनामिति ॥
यच्चोक्तम् - सुषुप्त्यादिषु ज्ञानाभावात् … …
पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् ॥ 2-3-31 ॥
तुशब्दश्चोदिताशङ्कानिवृत्त्यर्थः । … … मनसैतान् कामान् पश्यन् रमते इत्यादिश्रुत्यैकार्थ्यात् ॥ 31 ॥
पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोगात् । न बाल्ये पुंस्त्वमित्यत्राह - सप्तधातु इति । स्वापेऽपि धियः स्वप्रकाशतार्हत्वान्न जडत्वम् । स्वसिद्ध्यहमर्थस्यापि ज्ञानस्यैवोपलभ्यो विषयसंबन्धापेक्ष इत्यत्राह - सुषुप्त्यादिष्वपि इति । अहन्धीवेद्यत्वे जडत्वादीत्यत्राह - एते च इति । नित्योपलब्ध्याद्यप्रसङ्गायाह - स चायम् इति । न प्रेत्य इति । देहात्मधीर्नेत्यर्थः ॥ 31 ॥
संप्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह -
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ 2-3-32 ॥
अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च …. … करणैः सर्वदा संयुक्तत्वात् अदृष्टादेरप्यनियमादुक्तदोषः समानः ॥
नित्योपलब्ध्यनुलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा । नित्योपलब्धिः प्रसजतु । कथमनुपलब्धिः ? उभयं च सदा प्रसजेदित्यत्राह एतदुक्तम् इति ।
विकल्पितशिरोऽभिप्रायेणोक्तमित्यर्थः । स्वमते त्वप्रसङ्गमाह - अस्माकम् इति । जडात्मविभुत्वपक्षेऽपि शिरोभेदेन दूषणत्रयसाम्यमाह - करणायत्त इति । अदृष्टादेः इति । देहसाधारण्यात् तत्कृतादृष्टानियम इत्यर्थः ॥ 32 ॥
इति ज्ञाधिकरणम् - 4