नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ 2-3-18॥
वियदादेः कृत्स्नस्य परस्मात् ब्रह्मणः… सेयं स्वरूपान्यथाभावलक्षणोत्पत्तिर्जीवे प्रतिषिध्यते ॥
नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः । सङ्गतिमाह - वियदादेः इति। एवं स्वानन्तरकारणशरीरकब्रह्मणो
वियदाद्युत्पत्तिरुक्ता । तर्हि तद्वन्निरवयवस्यात्मनोऽपि सेति सङ्गतिः । वियदादिवत् उत्पत्तिरस्ति नास्तीति संशयः । श्रुत्यर्थापत्तिश्रुतिभिः पूर्वपक्षः । प्रजाशब्दश्च संसृष्टजीवपरः॥
राद्धान्ते आत्मनः इति । ताभ्यः सिद्धान्तितत्वात् इति शब्दार्थः । कथम् इति कृतं चोद्यं परिहरति - इत्थम् इति । व्याहर्ति परिहर्तुं कार्यलक्षणमाह - कार्यत्वं हि इति । वैषम्यमाह - इयान् इति ॥
एतदुक्तं भवति - भोग्यभोक्तृनियन्तृन्…. प्रकारभूतचिदचिद्वस्तुगताः अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्वं समञ्जसम् ॥ 18 ॥
अचितः कार्यत्वं स्वरूपान्यथात्वरूपम्, चितस्तु धीसङ्कोचविकासरूपमिति कृतो विभागः । परस्य च कार्यत्वं तयोरन्यतरप्रकारेणेति चेतनत्वात् धर्मान्यथाभावरूपकार्यत्वं , तेन च कर्ममूलासार्वज्ञ्यं स्यादित्यत्राह - एतदुक्तम् इति । भोग्यगतम् - न तु स्वासाधारणमिति भावः । उत्पत्त्यादि इति विनाशग्रहणम् । घटकश्रुत्यर्थमाह - सर्वावस्थयोः इति । सदैवं चेत् कथं कार्यकारणभाव इत्यत्राह - तत् कदाचित् इति । कार्यत्वम् अवस्थान्तरापत्तिरूपमिति फलितम् । कार्यत्वावान्तरभिदामुपपादयति - तत्र इति । तथा सति ब्रह्मणः कार्यत्वं कथमित्यपेक्षायां साधारणं कार्यत्वमाह - कारणावस्थाया इति । प्रतिज्ञादृष्टान्तौ कथमित्यत्राह - अत एव इति । अनेकाकारविशिष्टैकवस्तुनोऽवस्थाभेदमात्रे दृष्टान्तः । काठिन्यादिवत् मानविरुद्धाकारस्तु त्याज्य इति भावः । उत्पत्यनुत्पत्त्यादिश्रुतीनां विषयभेदमाह - ईदृश इति। अनिष्ट शब्दः सद्वारकावस्थानियन्तृत्वव्युदासार्थः एकत्वावधारणं निर्वहति - एवम् इति ॥
ये तु इति । सौत्रत्वात स्वोपगमाच्चेत्यर्थः । तर्हि तत्पक्ष एव स्वीकार्य इत्यत्राह - इयान् इति । नियन्त्रंशस्य न भोक्तृत्वमित्यत्राह - नियन्त्रंशस्य इति ॥18॥
इति आत्माधिकरणम्-3