तेजोऽतस्तथा ह्याह ॥ 2-3-10॥
ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य…..“वायोरग्निः” इति ह्याह ॥ 10 ॥
तेजोऽतस्तथा ह्याह । अवान्तरसङ्गतिमाह - ब्रह्म इति ॥ 10॥
आपः ॥ 2-3-11 ॥
आपोऽपि, अतः तेजसः….“तदपोऽसृजत” इति ह्याह ॥11॥ आपः । अतः इत्याद्यनुषङ्गः ॥ 11॥
पृथिवी ॥2-3-12॥
पृथिवी अद्भ्य उत्पद्यते….“ता अन्नमसृजन्त” इति ह्याह ॥ 12 ॥
पृथिवी । तथा इहाप्यनुषङ्गः ॥ 12 ॥
नन्वन्नशब्देन कथं पृथिव्यभिधीयते ? अत आह-
अधिकाररूपशब्दान्तररेभ्यः ॥ 2-3-13॥
महाभूतसृष्ट्यधिकारात् पृथिव्येव …. ब्रह्मणः परम्परया कारणत्वेऽप्युपपद्यन्ते इति ॥ 13 ॥
उत्तरसूत्रावतारायाह - ननु इति । अधिकाररूपशब्दन्तरेभ्यः । अधिकारः- प्रस्तावः ॥ 13 ॥
सिद्धान्तः
एवं प्राप्ते प्रचक्ष्महे-
तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ 2-3-14॥
तुशब्दात् पक्षो व्यावृत्तः…“यस्य बुद्धिः शरीरम्,” “यस्याव्यक्तं शरीरम्” इत्यादि ॥ 14 ॥
तदभिध्यानादेव तु तल्लिङ्गात् सः । तल्लिङ्गात् - अभिध्यानमेव परलिङ्गम् । सर्वशाखाप्रत्ययनयात् महदादिष्वपि ईक्षासिद्धिमाह - महदहङ्कार इति । न परमीक्षानुपपत्त्या तत्तच्छरीरकस्य कारणत्वम् , श्रौतं च तत्तच्छरीर- कत्वमित्याह- श्रूयते च इति ॥ 14 ॥
यच्चोक्तम् “एतस्माज्जायते प्राणो …. …
विपर्ययेण तु क्रमोऽत उपपद्यत च ॥2-3-15॥
तुशब्दोऽवधारणार्थः । … … इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्संभवस्योत्तंभनम् ॥ 15॥
विपर्ययेण तु क्रमोऽत उपपद्यते च । अतः- शब्दार्थमाह- स च इति । उपरुध्येत इति स्वारस्यहानिरुक्ता । उत्तंभनम् - स्थापकम् ॥ 15 ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ 2-3-16 ॥
विज्ञानसाधनत्वात् इन्द्रियाणि विज्ञानम् …. तेजः प्रभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ॥ 16॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । व्याख्येयं पदं व्याचष्टे - विज्ञान इति । अत्रापि- न केवलं श्रुत्यन्तरेष्वेव इति भावः। तैः सह पाठलिङ्गात् - अग्र्यप्रायन्यायादिति भावः । कस्याविशेष इत्यत्राह - एतस्मात् इति । एतस्मात् प्राणः, एतस्मान्मनः इति ईदृशो ह्यन्वय इति भावः । दीपे कण्ठोक्ततया व्याख्यातम् । श्रुत्यन्तरसिद्ध इति । वायुविकारस्य प्राणस्य भूतेभ्यः प्रागुत्पत्तिविरोधादिति भावः । व्यवहितकार्याणामपि ब्रह्मण उत्पत्तिश्चेत्, कथं तेजःप्रभृतिशब्दैरभिधानमित्यत्राह - तेजःप्रभृतयः इति ॥
ननु एवं सर्वशब्दानां ब्रह्मवाचित्वे…..
चराचरव्यपाश्रयस्तु स्यात् यद्वयपदेशोऽभाक्तस्तद्भावभावित्वात्
॥ 2-3-17॥
तुशब्दः चोदिताशङ्कानिवृत्त्यर्थः । ….नामरूपव्याकरणश्रुत्या हि तथाऽवगतम् ॥ 17 ॥
अनन्तरसूत्रशङ्कामाह - ननु इति । चराचरव्यपाश्रयस्तु स्यात् तद्व्ययपदेशोऽभाक्तस्तद्भावभावित्वात् । हेतुखण्डं विवृण्वन् वाक्यार्थमाह समस्त इति । प्रथमयोजनायां व्युत्पत्त्यभावान्यथासिद्धिः कण्ठोक्ता स्यात्। द्वितीयस्यां ब्रह्मपर्यन्तत्वे मानोपन्यासः श्रोतः स्यात् । उभयोः अन्यतरार्थः आर्थः ॥
इति तेजोऽधिकरणम् - 2