न वियदश्रुतेः ॥ 2-3-1 ॥
सांख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया ….श्रूयमाणा वियदुत्प त्तिः अर्थविरोधाद्वाध्यते - इति ॥ 1 ॥
न वियदश्रुतेः । सङ्गतिमाह - सांख्यादि इति । कारणविषये परोक्तदोषपरिहारपरपक्षप्रतिक्षेपौ पादद्वयेन कृतौ । अथ कार्यविषये परोक्तदोषाः परिह्रियन्ते इति सङ्गतिः । आत्मन उत्पत्त्यसंभवः प्रस्तुतः । तद्वन्निरवयवद्रव्यस्य वियतोऽनुत्पत्तिरिति अवान्तरसङ्गतिः । चितोऽचितश्च कार्यत्वं किमेकरूपम्, उत भिन्नरूपमिति संशयः । ऐकरूप्यं पूर्वपक्षीकृत्य वैरूप्यं सिद्धान्तीक्रियते पादद्वयेन ॥
तत्र प्रथमाधिकरणस्य संशयमाह - तत्र इति । कथमश्रुतिः ? अकाशः सभूतः इति 1श्रुतिरस्तीत्यत्राह- संभावितस्य इति । श्रवणम्- शब्दजन्यप्रमितिः। न ह्ययोग्ये 2यूपादित्यतादात्म्यादाविव इति भावः । खपुष्पं दृष्टान्ततयोक्तम् । असंभवं निरवयवद्रव्यत्वेन सर्वगतत्वेन चोपपादयति- न खलु इति । केवलतर्कों बाध्य इत्यत्राह - अतः इति । तेजस्सर्गप्राथम्यं श्रुत्यर्थापत्तिः । तर्कापेतश्रुतेः तद्युक्ता सा बलीयसीति भावः ॥ 1 ॥
सिद्धान्तः
एवं प्राप्तेऽभिधीयते-
अस्ति तु ॥ 2-3-2॥
अस्ति त्वाकाशस्योत्पत्तिः । अतीन्द्रियार्थ……आत्मनोऽनुत्पत्तिर्न निरवयवत्वप्रयुक्तेति वक्ष्यते ॥ 2 ॥
अस्ति तु । न मानान्तरागोचरत्वमयोग्यता, यागादेः स्वर्गसाधनत्वादि- प्रमित्ययोगात् । बाधकं तु न धर्मिणोऽध्यक्षतामात्रेण नागमोक्तधर्मबाधः प्रागुक्तदोषात् किं त्वध्यक्षावगतधर्मविरोधात् अयोग्यता यथा यूपादित्यैक्यस्य । न चेह साऽस्ति । सर्वगतत्वनिरवयवद्रव्यत्वे असिद्धे । दशगुणत्वपञ्जीकरणत्वोक्तेः। 1 चरमं तु महदादावनैकान्तिकं च । 2अ#ुनुमानं चागमबाधितमित्यर्थः । तर्हि कथमात्मनित्यत्वमित्यत्राह- आत्मनोऽपि इति ॥ 2 ॥
पुनश्चोदयति-
गौण्यसंभवाच्छब्दाच्च ॥ 2-3-3॥
“तस्माद्वा एतस्मादात्मन आकाशः….इति वियतोऽमृतत्वशब्दाच्च ॥ 3 ॥ उत्तरसूत्रसङ्गतिमाह - पुनः इति । गौण्यसंभवाच्छब्दाच्च । तेजःप्राथम्यात् ततः प्राक् न वियत्सृष्टिसंभवः । पश्चात्तु त्वन्मतेऽपि नेत्यर्थः ॥ कथमेकस्य संभूतशब्दस्य आकाशापेक्षया…
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ 2-3-4॥
एकस्यैव “तस्माद्वा एतस्मात्… अनुषङ्गे च श्रवणा - वृत्ताविवाभिधानावृत्तिर्विद्यत एव इत्यर्थः ॥ 4 ॥
स्याच्चैकस्य ब्रह्मशब्दवत् । तत्र ब्रह्म शब्दो द्विः प्रयुक्तः । इह तु अनुषङ्गादेकस्य कथं मुख्यगौणत्वे इत्यत्राह - अनुषङ्गे च इति । 1 प्रयोगभेदेऽपि वृत्तिभेदकॢप्तिः अभिधानावृत्त्या । साऽनुषङ्गेऽपि तुल्येति तया तत्कॢप्तिरविरुद्धा इत्यर्थः । 2 अभिधानावृत्तिः- बोधनव्यापारावृत्तिः॥
परिहरति-
प्रतिज्ञाहानिरव्यतिरेकात् ॥ 2-3-5॥
छान्दोग्यश्रुत्यनुसारेणान्यासां….आकाशस्यापि ब्रह्मकार्यत्वेन तदव्यतिरेकादेव भवति ॥ 5 ॥
अन्तरस्य राद्धान्तसूत्रतामाह - परिहरति इति । प्रतिज्ञाहानिरव्यतिरेकात् ।
स्फुटम् ॥ 5 ॥
शब्देभ्यः ॥ 2-3-6 ॥
इतश्च वियदुत्पत्तिः छान्दोग्ये प्रतीयते… श्रुत्यन्तर प्रतिपन्नां वियदुत्पतिं्त न निवारयितुमलम् ॥ 6 ॥
शब्देभ्यः । ऐतदात्म्यम् इत्यादिवाक्यं कृत्स्नकार्यस्य 3 कारणब्रह्मात्म- कत्वपरत्वादुपात्तम् । आदि शब्दात् सन्मूलाः इत्यादि गृह्यते । न च इति । न हि घटोत्पत्तिवचनं पटोत्पत्तिवारकमित्यर्थः । प्राथम्यं वारकमित्यत्राह - वियत् इति । श्रुतप्रहाणेन 1अश्रुतप्राथम्यकॢप्तिरयुक्तेति भावः ॥
यावद्विकारं तु विभागो लोकवत् ॥ 2-3-7 ॥
तुशब्दश्चार्थे । ऐतदात्म्यम् … … सुराणामिव चिरकाल स्थायित्वाभिप्रायम् ॥ 7 ॥
यावद्विकारं तु विभागो लोकवत् । विकारत्त्वम् - कार्यत्वम्। आदि शब्दादेकत्वावधारणादि । एवं च इति । अन्यथा वायोरप्यनुत्पत्तिः स्यादिति भावः ॥ 7 ॥
एतेन मातरिश्वा व्याख्यातः ॥ 2-3-8॥
अनेनैव हेतुना मातरिश्वनो वायोरपि …. मातरिश्वपरामर्शर्थम् ॥8॥
एतेन मातरिश्वा व्याख्यातः । अतिदेशसूत्रत्वाभावः शङ्काधिक्याभावात्। मातरिश्वनः पृथग्योगमकृत्वा तेजो मातरिश्वनः इत्युत्तरसूत्रं न कृतम् । अतः इत्यादेस्तत ऊर्ध्वमनुवृत्त्यर्थम् । असंभवस्तु इति सूत्रस्य महदादिविषयत्वात् 5 वियत्सूत्रानन्तर्यं मातरिश्वसूत्रस्य ॥ 8 ॥
असंभवस्तु सतोऽनुपपत्तेः ॥ 2-3-1॥
तुशब्दोऽवधारणार्थः । असंभवः….अवगतकार्यभावस्यानुत्पत्ति- र्नौपपद्यते इति ॥ 9 ॥
असंभवस्तु सतोऽनुपपत्तेः । न हि ब्रह्मणोऽनुत्पत्तिर्वाच्या । वियदादिकं विना केषामनुत्पत्त्यसंभवः ? कस्य चानुपपत्तिरित्यत्राह - एतदुक्तम् इति । प्रतिज्ञादिभिः इति आदिश ब्दात् एकत्वावधारणाद्युक्तम् ॥
इति वियदधिकरणम्-1