न प्रयोजनवत्त्वात् ॥ 2-1-32 ॥
यद्यपीश्वरः प्राक्सृष्टेरेक एव … … ब्रह्मणः कारणत्वं नोपपद्यते इति
॥ 32 ॥
न प्रयोजनवत्त्वात् । सङ्गत्यादि स्फुटम् ॥ 32 ॥
एवं प्राप्ते प्रचक्ष्महे -
लोकवत् तु लीलाकैवल्यम् ॥ 2-1-33 ॥
अवाप्तसमस्तकामस्य परिपूर्णस्य … .. लीलैव प्रयोजनमिति निरवद्यम् ॥ 33 ॥
लोकवत्तु लीलाकैवल्यम् । केवल इति पणबन्धव्युदासः ॥ 33 ॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॥ 2-1-34 ॥
यद्यपि परमपुरुषस्य सकलेतर … … स्वशक्त्या स्वकर्मणैव देवादिवस्तुताप्राप्तिरिति ॥ 34 ॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । साधारणत्वात् अप्रधानो हेतुर्निमित्तम् यथा क्षित्यादि । प्रधानकारणीभूताः इत्युक्तवात् । असाधारण्यम् प्राधान्यम् , यथा बीजशक्तिः ॥ 34 ॥
न कर्माविभागादिति चेन्नानादित्वादुपपद्यते
चाभ्युपलभ्यते च ॥ 2-1-35 ॥
प्राक्सृष्टेः क्षेत्रज्ञा नाम न सन्ति । … … विचित्रसृष्टियोगात् ब्रह्मैव जगत्कारणम् ॥ 35 ॥
न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च । अपि शब्दार्थमाह - तदनादित्वेऽपि इति । च - अर्थमाह - अकृत इति ॥
सर्वधर्मोपपत्तेश्च ॥ 2-1-36 ॥
प्रधानपरमाण्वादीनां कारणत्वे … … ब्रह्मैव जगत्कारणमिति स्थितम् ॥ 36 ॥
इति प्रयोजनवत्त्वाधिकरणम् - 10
इति श्रीभगवद्रामानुजविरचितेशारीरकमीमांसाभाष्ये
द्वितीयस्याध्यायस्य प्रथमः पादः ॥
सर्वधर्मोपपत्तेश्च । एतत्पादसर्वाधिकरण शेषभूतमिदं सूत्रम्
॥इति प्रयोजनवत्त्वाधिकरणम् - 10
इति हरिकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर-
नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -
शारीकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां
श्रुतप्रदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥
च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ