०९ कृत्स्नप्रसक्त्यधिकरणम्

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ 2-1-26 ॥

सदेव सोम्येदमग्र आसीत् …. … अतो ब्रह्मकारणत्वं नोपपद्यते

॥ 26 ॥

कृत्स्नप्रसक्तिः निरवयवत्वशब्दकोपो वा । प्राक् दृष्टान्तितक्षीरवत् सावयवं वा न वेति शङ्कया सङ्गतिः । इति वचनभङ्ग्या एवमुक्तं भवतीत्यर्थः । सत् इति । यावद्वाधं हि सङ्कोचः । इह तदभावादसङ्कुचितमेकपदम् अवयवतोऽपि भेदासहमिति भावः । अवयव शब्दः अंशपरः । तत्तच्चिदचिद्विशिष्टप्रदेशभेदस्वरूपं न संभवतीति हृदयम् । इदं वा इति । पृथिव्याद्यवयवविभागनिषेधान्निरवयवत्वसिद्धिरिति भावः । आदि शब्दात् निष्कलम् इत्यादि गृह्यते । एक शब्दव्याख्यानं निरवयव पदम् । आसीत् इत्यन्तेनोपात्तवाक्यानामर्थ उक्तः ॥

फलितमर्थमाह - कारणावस्थायाम् इति । अविभागमेकं निरवयवम् । एक शब्दवाच्यत्वात् निरवयवम् । अत एव निरस्तचिदचिद्विभागम् इत्यर्थः । यद्यपि इति

। एकशरीरे शरीर्यंशः समाप्त इति नान्यत्र स्यादित्यर्थः ॥ 26 ॥

इत्याक्षिप्ते समाधत्ते -

श्रुतेस्तु शब्दमूलत्वात् ॥ 2-1-27 ॥

तुशब्द उक्तदोषं व्यावर्तयति । … … न सामान्यतो दृष्टं साधनं दूषणं वा अर्हति ब्रह्म ॥ 27 ॥

श्रुतेस्तु शब्दमूलत्वात् । श्रुतेस्तु इति धर्मविषयम् । शब्दमूलत्वात् इति धर्मिविषयम् । मानान्तरागोचरे धर्मिणि स्वमानेन धर्म्यन्तरविजातीयतयाऽवगते तद्धर्मविजातीयधर्मान्वयस्यापि स्वमानेनैव अवगतौ न मानविरोध इत्यर्थः । सामान्यतो दृष्टम् - येन केनचिदाकारेण साम्यनिबद्धम् ॥ 27 ॥

आत्मनि चैवं विचित्राश्च हि ॥ 2-1-28 ॥

किं च - एवं वस्त्वन्तरसंबन्धिनो … … चोद्यं सर्ववस्तुविलक्षणे परे ब्रह्मणि नावतरतीत्यर्थः ॥ 28 ॥

आत्मनि चैवं विचित्राश्च हि । तदप्रसक्तिश्च इत्यध्याहारेण सूत्रखण्डयोजना । विचित्र शब्दविशेष्या भावाः । स्फुटार्थत्वात् पुराणवचः - प्राथम्यम् । परिचोद्य , यथोक्तम् इत्यन्वयः ॥ 28 ॥

इतश्च

स्वपक्षदोषाश्च ॥ 2-1-29 ॥

स्वपक्षे - प्रधानादिकारणवादे … … संयुज्यमाना अपि न स्थूलकार्यारम्भाय प्रभवेयुः ॥ 29 ।.

स्वपक्षदोषाच्च ।

दर्शनानुगुणम् अनुमीयमानस्यैव लोकदृष्टदोषप्रसङ्ग इत्यर्थः ॥ 29 ॥

सर्वोपेता च तद्दर्शनात् ॥ 2-1-30 ॥

सकलेतरवस्तुविसजातीया परा … … सर्वमिदमभ्यात्तोऽवाक्यनादरः इति च ॥ 30 ॥

सर्वोपेता च तद्दर्शनात् । निरवयवत्वश्रुतिबलात् धर्मिवैजात्यविलक्षणशक्तियोगौ कल्प्यावित्युक्तम् । इह तत्कण्ठोक्तिरिति भिदा । अपहतपाप्मा इति पाप्मानर्हत्वात्

धर्मिवैजात्यसिद्धिः । मनोमयः इति मलिनमनोग्राह्य धर्मिवैलक्षण्यसत्यसङ्कल्पत्वफलितत्वात् सर्वशक्तियोगं प्रतिपादयन्ति इत्युक्तम्

॥ 30 ॥

विकरणत्वान्नेति चेत् तदुक्तम् ॥ 2-1-31 ॥

यद्यप्येकमेव ब्रह्म सकलेतरविलक्षणम् …. … अपाणिपादो जवनो ग्रहीता इत्येवमाद्या ॥ 31 ॥

विकरणत्वान्नेति चेत् तदुक्तम् । दण्डचक्राद्यनपेक्षत्वेऽपि देहाद्यपेक्षाऽत्र परिह्रियते । कार्यं - शरीरम् । सूत्रे करण - उक्तिः प्रदर्शनार्था ॥ 31 ॥

इति कृत्स्नप्रसक्त्यधिकरणम् - 9