०८ उपसंहारदर्शनाधिकरणम्

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ 2-1-24 ॥

परस्य ब्रह्मणः सर्वज्ञस्य सत्यसङ्कल्पस्य … … क्षीरादिष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय । अपि तु शौध्र्यार्थं रसविशेषार्थं वा ॥ 24 ॥

सत्यसङ्कल्पत्वादिधर्मैर्हि व्यावृत्तिरुक्ता । तत्र सत्यसङ्कल्पत्वस्या सङ्कोचो निरूप्यत इति सङ्गतिः स्फुटम् । क्षीरादिषु इति । रविकरा उत्सर्गंमात्रहेतवः , न तु जलस्य हिमरूपपरिणाम इति भावः ॥ 24 ॥

देवादिवदपि लोके ॥ 2-1-25 ॥

यथा देवादयः स्वे स्वे लोके … … ब्रह्मणो वेदावगतशक्तेः सुखग्रहणायेति प्रतिपत्तव्यम् ॥ 25 ॥

देवादिवदपि लोके । स्फुटोऽर्थः ॥ 25 ॥

इति उपसंहारदर्शनाधिकरणम् -8