इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ 2-1-21 ॥
जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भिः … … अत इदमसङ्गत ब्रह्मणो जगत्कारणत्वम् ॥ 21 ॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । सङ्गत्यादिकं स्पष्टम् । इत्यादयः इति । आदिशब्दात् सुखदुःखभोक्तृत्वम् ॥ 21 ॥
सिद्धान्तः
इति प्राप्तेऽभिधीयते -
अधिकं तु भेदनिर्देशात् ॥ 2-1-22 ॥
तुशब्दः पक्षं व्यावर्तयति ; आध्यात्मिकादि … … सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिभिः ॥
राद्धान्ते - अधिकं तु भेदनिर्देशात् ॥ 22 ॥
अश्मादिवच्च तदनुपपत्तिः ॥ 2-1-23 ॥
श्रुतिर्दर्शिता । अथ श्रुत्यर्थापत्तिरुच्यते । अश्मादिवच्च तदनुपपत्तिः । अश्मकाष्ठ इति । सामानाधिकरण्ये तुल्येऽपि ऐक्यासंभवाद्धि अचिद्व्यावृत्त्युपगमः । स चेतनेऽपि तुल्य इति भावः । अवस्थितेः इति सूत्रम् एतदधिकरणशेषम् । आदिशब्दात् न तु दृष्टान्तभावात् उभयेऽपि हि इत्यादि विवक्षितम् ॥
चित्सामानाधिकरण्यनिर्वाहः कृतः , जगत्सामानाधिकरण्यनिर्वाहमाह - अतः सर्वं इति । न व्यवस्थितिः , अविभागोक्तेरित्यत्राह सदेव इति । स कथमित्यत्राह - अविभागस्तु इति ॥
ये पुनः इत्यादि । वियुक्तविषयत्वे दोष उक्तः । संसृष्टविषयत्वे दूषणमाह - न च इति । अकल्पितजिज्ञास्यस्वरूपस्य प्रक्रान्तत्वादित्यर्थः ॥
वैलक्षण्यम् अपीतौ इत्यत्रोक्तमित्यत्राह - अपीतौ इति । अनुवदति - अस्य शेषत्वेन वदति । तर्हि तत्र कोऽर्थः प्रतिपाद्यः इत्यत्राह - तत्र हि इति । न तत्र विलक्षणयोः कार्यकारणसंभव एव प्रतिपाद्यः , असत्कार्यवादनिरासनिदर्शनादित्यत्राह - असद् इति । प्रसङ्गादारम्भणाधिकरणानुवाद इत्यर्थः । इहाभेदश्रुत्यविरोद्येन भेदश्रुतिमुख्यार्थत्वं वर्णितम् । अपीतौ इति न तु दृष्टान्त इति अचिद्गतदोषः , इतरव्यपदेशात् इति चिद्गतदोषश्च परिहृतौ । सामानाधिकरण्यम् अवस्थितेः इति निरूढमिति सूत्रत्रयम् एतदधिकरणशेषम् ॥ 23 ॥
इति इतरव्यपदेशाधिकरणम् - 7