तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ 2-1-15 ॥
असदिति चेन्न प्रतिषेधमात्रत्वात् इत्यादिषु … … तस्य चानिर्वचनीयत्वं प्रतीतिबाधाभ्यां सिद्धम् ॥
तदनन्यत्वमारम्भणशब्दादिभ्यः । सङ्गतिमाह - - असत् इति । सत्यपि इति । कार्योपयोगितया - उदकाहरणादिकार्योपयोगितया । न च इति । पिण्डे
घटो न चेत् कुलालेन तन्तुरुपादीयेत , तत्र घटासत्त्वाविशेषादित्यर्थः । मत्पिण्डेऽस्ति घटः , न तन्तुषु इति कुतः ? मृत्पिण्ड एव घटसद्भावयोग्य इति चेत् तर्हि तदुत्पादनयोग्यः स एव इत्यभिप्रायेण परिहरति - कारण इति । स्पष्टम् । आहुः - सिद्धान्त्येकदेशिनः इत्यर्थः ॥
वाचारम्भणम् इत्यादेरर्थमभिप्रयन्नाह - अतो यथा इति । विकारेषु इति अनुवर्तमानत्त्वहेतुरभिप्रेतः । एकमेव अद्वितीयम् इत्यस्यार्थमाह - तथा इति । कार्यस्य सदसद्विलक्षणत्वे व्यतिरेकिणमाह - सत इति । सदसदन्यत्वं मिथ्यात्वेऽन्वयिहेतुरित्याह - अनिर्वचनीयं च इति । सपक्षे साधकधर्मं दर्शयति - तस्य च इति ॥
किं च कार्यमुत्पादयन् मृदादि कारणद्रव्यं … …. जीवेश्वर- बद्धमुक्तशिष्याचार्यज्ञत्वाज्ञत्वादिव्यस्था च न स्यात् ॥
व्यावर्तमानत्वस्य निरुपाधिकत्वाय कार्यदुर्निरूपताम् अनुग्राहकतर्करूपेणाह - किं च इति । सत्यं चेत् सुनिरूपं स्यादित्यर्थः । उक्ततर्कस्य प्रत्यक्षविरोधमाशङ्क्याह - न च इति
। रुचकादि - रूचकाद्यवस्था। समवायिविषया प्रत्यभिज्ञा इत्यत्राह - तदतिरिक्त इति । व्यक्तिद्वयानुपलब्धेरित्यर्थः । पटे तन्तव इव इति पटप्रक्रिययोक्तम् । नापि इति । विशिष्टस्य कार्ये प्रत्यभिज्ञानप्रसङ्गः इत्यर्थः । अतः इति । कारणातिरिक्तानुपलम्भात् नाध्यक्षबाधः इत्यर्थः । तत एव न सोपाधिकत्वं , पक्षेऽपिबाधादिति भावः ।
कृत्स्नं मिथ्या चेत् , कथं मृदादिसत्यतेत्यत्राह - तदिदम् इति । कण्ठोक्तं चेत्याह - ऐतद् इति । यूपादित्यैक्यसाम्यमाशङ्क्याह - न चागम इति । शङ्कितमन्यपरत्वं प्रतीत्यभावात् प्रत्यक्षविरोधाद्वा इति विकल्पं मत्वा प्रथमं व्युदस्यति - यथोक्त इति । द्वितीयं व्युदस्यति प्रत्यक्षस्य च इति । उपगम्याह - विरोधे सत्यपि इति । दोषः - भेदवासना । अपच्छेदमभिप्रेत्याह - चरम इति ।
स्वरूपसद्भावः - ज्ञानोदयः । आदि शब्दात् सामग्र्युत्पत्तिः । प्रमितौ - प्रमितत्वे । अर्थपरिच्छेदकत्वेन हि स्मृतिवत् ज्ञाततयाऽर्थं ज्ञापयतीत्यर्थः ॥
अत्र केचिदद्वितीयत्वं ब्रह्मणोऽभ्युपयन्त एव … … जीवानां भ्रमस्य प्रवाहानादित्वान्न तद्धेतुरन्वेषणीयः - इति ॥
ननु इत्याद्युक्त लौकिकवैदिकव्यवस्थासिध्यर्थं जीवाज्ञानपक्षं प्रस्तौति अत्र इति । कस्य - किमाश्रया । अवस्तुभूतायां - मिथ्याभूतायाम् । अनवक्लप्तिः - असिद्धिः । ब्रह्माव्यतिरेकस्वतःशुद्धिभ्यां ब्रह्मण इव जीवस्यापि अविद्यान्वयो न स्यादित्यत्राह - वस्तुतः इति । स्वतः शुद्धस्यापि औपाधिकाशुद्धिसंभवात् अविद्यान्वयोपपत्तेः जन्मजरादीनां काल्पनिकत्वोपपत्तिरित्यर्थः । अशुद्धिः दोषार्हता । तस्या धीनिवर्त्यत्वायाह अशुद्धिरपि इति । अशुद्धिभ्रमात् अविद्यान्वयः , तेनाशुद्धिभ्रमः इत्यन्योन्याश्रयमाशङ्क्याह - जीवानाम् इति ॥
तदेतदविदिताद्वैतयाथात्म्यानां … .. ब्रह्मैव कल्पकमिति चेत् ब्रह्माज्ञानमेवायातम् ॥
जीवाज्ञानपक्षं दूषयति - तदेतत् इति । किं जीवस्य अकल्पित स्वरूपेणाविद्याश्रयत्वम् , उत कल्पिताकारेण , अथ कल्पिताकारविशिष्टस्वरूपेण इति विकल्पमभिप्रेत्य , प्रथमं शिरो दूषयति- जीवस्य इति । द्वितीयं दूषयति - तदतिरिक्तेन इति । जीवो ह्यविद्याश्रयः तत् कथं जडस्य तदाश्रयत्वमित्यत्राह - न खलु इति । तृतीयं शङ्कते
- कल्पित इति । दूषयति - तन्न इति । कुत इत्यत्राह - स्वरूपस्य इति । ततः किमित्यत्राह - अविद्याश्रयाकार इति । अविद्याश्रयत्वे सति विशिष्टत्वं विशिष्टाकार एव अविद्याश्रय इत्यात्माश्रयणमित्यर्थः ।
अविद्याया एकत्वे दूषणमाह - तत्रैकस्मिन् इति । बहुत्वं शङ्कते प्रति इति। भन्त्स्यते - बद्धो भविष्यति । दूषयति - तन्न इति । अद्वैतहानिप्रसङ्गात् स्वाभाविकत्वानभ्युपगमः । किमस्याः इति । जीवभेदकल्पकाऽविद्या तत्क्लप्तेः प्रागेव नाश्रयितुं क्षमा, जीवासिद्धेरित्यर्थः । बीजाङ्कुरेषु इति । तत्र नोत्पादकस्य उत्पादकतयोत्पाद्यापेक्षेति भिदा । अशकनीयता - साधयितुमशक्यता । कृतनाशादि इति । आदि शब्दात् जीवनित्यत्वादिश्रुतिविरोध उक्तः ॥
जीवाख्यधर्मिक्लृप्तेः प्रवाहानादित्वे कथितं दूषणं जीवत्वधर्मकॢप्ति- प्रवाहानादित्वेऽप्यतिदिशति - अत एव इति । धर्मकॢप्तिपक्षस्य निरस्ततां विवृणोति - अविद्याप्रवाहे इति । पक्षद्वयेऽपि दूषणमेकमाह आमोक्षात् इति । जीवस्य - जीवभावविशिष्टस्य ॥
दुर्घटत्वेन परिहारं दूषयति - यच्चोक्तम् इति । शुद्धविद्यास्वरूपत्वात् - शुद्धज्ञप्तिरूपत्वात् । उक्ताभिः - अन्योन्याश्रयादिभिः । अनिर्मोक्षः आविद्यजीवावस्थितेरित्यर्थः ॥
दार्ष्टान्तिकालोचनया दूषितम् । अथ दृष्टान्तालोचनया दूषयति यच्चोक्तम् इति । दोषप्रतिभासानुपपत्त्या दूषयति - किं च इति । अन्यस्य इति शिरोदृष्टान्तानुरोधादुक्तम् ॥
अविद्याकार्यभ्रमाश्रयनिरूपणया दूषयति - किं च इति । कः कल्पकः को भ्रमाश्रयः । आत्माश्रय इति । जीवसिद्धेः स्वविषयभ्रमाश्रयस्वसिद्धिसापेक्षत्वात् आत्माश्रयः इत्यर्थः ॥
किं च ब्रह्माज्ञानानभ्युपगमे , किं ब्रह्म … … परमार्थतो ब्रह्मव्यतिरिक्ताभावात् तदनन्यत्वं जगतः इति ॥
किं च इति । स्फुटम् । अत एव - ईक्षापूर्वकसृष्ट्यर्थमस्य जीवदर्शनार्थं चाविद्यान्वयस्य उपगमादित्यर्थः। माया - परभ्रमहेतुः ; स्वभ्रमहेतुः अविद्या
इति तन्मतम् । जीवदार्शित्वम् - अपरमार्थजीवदर्शित्वम् । परमोहनहेतुरेव मोहनीयदर्शनहेतुरिति शङ्कते - अथ इति । तर्हि इत्यादि । स्फुटम् । अपुमर्थदृष्टिहेतुत्वाभावानुगमेनापि दूषयति - तन्निरसने
च इति । दुःखहेतुत्वेऽपि अवस्तुभासनमेव अपुमर्थः निरसनीयत्वात् अतो मायायाश्च तद्धेतुत्वादविद्यात्वमिति भावः । अविद्यामन्तरेण नोपपद्यते इति । मृषात्वादिति भावः । नित्यया - अपुमर्थाभावेनानिरसनीयत्वादिति भावः। आश्रयविभागानुपपत्त्या च दूषयति - मायाश्रयतया इति ॥
यत् तु इत्यादि । अत एव - आश्रयैकत्वेऽपि सर्वव्यवस्थोपपादकहेतुना काल्पनिकत्वेन । कार्यपारमार्थ्ये एव कारणबहुत्वम् , न त्वपारमार्थ्य इत्याह - परमार्थिकी इति । ततः किमित्यत्राह - अपारमार्थिकी तु इति ॥
प्रयोगश्च इति । आद्यौ जीवाज्ञानवादिनं प्रति कथितौ । अन्त्यौ द्वौ तं भेदवादिनं च प्रति । जडत्वादयः एकैकमनपेक्षाः। भिन्नत्वे च इति व्यतिरेकित्रयम् । अभिन्नत्वं साध्यम् । वस्तुपरिच्छेदात् परिच्छेदान्तरद्वयं प्रसञ्जयति - वस्तुतः परिच्छिन्नस्य इत्यादिना । ततःकिमित्यत्राह एवं च इति । उत्पत्ति इति । अविकारश्रुतिविरोधश्चेत्यर्थः। एकाविद्यया सर्वव्यवस्थोपपत्तिमुपसंहरति - अतः इति । ब्रह्माज्ञानवादपक्षमुपसंहरति तस्मात् इति । अनन्यत्वं जगतः इति । परमार्थभूतान्यत्वं न भवति इत्यर्थः। अभावः नञर्थः ॥
अत्रोच्यते - निर्विशेषस्वप्रकाशमात्रं ब्रह्म …. … अहंत्वमाद्यर्थविलक्षणं चिन्मात्रं ह्यात्मा त्वन्मते ॥
ब्रह्माज्ञानवादिनं वैशेषिकः प्रतिवदति - अत्रोच्यते इति । निरंशस्य इति । तिरोधानेऽपि जडांशः स्थितः इति दुर्वचमिति भावः । स्ववचनविरुद्धम् - नित्यत्वादिसाधकवचनविरुद्धम् । उक्तम् - अस्मिन् प्रबन्धे सिद्धान्तिना इत्यर्थः । मिथ्यात्वानित्यत्वभेदमाह - यद्देश इति । अनित्यत्वे साध्ये सिद्धसाध्यता ; मिथ्यात्वे तु सोपाधिकत्वव्याघातबाधितत्वानैकान्त्यादीनि इति भावः । देशकालादि इति । आदि शब्दात् क्रियादि । देशकालभ्रमेषु देशकालान्तररूपोपाध्यभावात् साध्यसमव्याप्तिर्नेति न वाच्यम् । तत्रापि क्रियादेरुपाधित्वादिति भावः । बाधार्हत्वं साध्यम् ; बाधितत्वं लिङ्गमिति न साध्याविशिष्टता । दाहार्हत्वदाहकार्यत्ववत् । समवहितात् - समन्वितात् । कारणान्तरम् - अदृष्टेश्वरसङ्कल्पादि । एतदायत्तत्वाभावात् - वस्तुमात्रानायत्तत्वात् अविकृतत्वधर्मितया तद्धि प्रकृतम् ॥
अनुग्राह्यमाह - कारणस्य च इति । परोक्ततर्को जात्युक्तिः । कार्यकारणत्वभङ्गवाचिस्ववचनस्य प्रमितिजनकत्वोपगमात् । न चेत् सुतरां न
कार्यकारणत्वभङ्गः । यथोक्तपरिकरः - देशकालादिः । हेमप्रत्यभिज्ञाकथमित्यत्राह - प्राक् इति । यच्चान्यत् इति । आदि शब्दात् विरोधेऽपिशास्त्रबलीयस्त्वम् ॥
यच्चोक्तम् इत्यादि । देहभेदादप्रतिसन्धिरित्यत्राह - सौभरि इति । अन्तः करणभेदादित्यत्राह - न च इति । एकशरीरवर्त्यात्मन एकत्वे सिद्धसाध्यता । अनेकशरीरवर्तिनां चेत् धर्मिग्राहकबाध इत्यर्थः । सर्वशरीराणामविद्याकल्पितत्वाभावात् इति । सपक्षभूतदेहस्यापि अविद्याकल्पितत्वाभावात् दृष्टान्तस्य
साध्यवैकल्यमित्यभिप्रेतम् ॥
यच्च चेतनात् इत्यादिना अहमेव सर्वं चेतनजातं चेतनत्वात् इतीदमर्थतोऽनूदितम् । कालात्यापदेशेन दूषयति – तदपि इति । उक्तिदूषणमाह - यत् तु इति ॥
किं च निर्विशेषचिन्मात्रातिरेकि सर्वं मिथ्येति वदतो मोक्षार्थश्रवणादिप्रयत्नो निष्फलः … … भेदवादिनस्तु सर्वचिदचिद्दस्तुशरीरत्वेन ब्रह्मणः सर्वप्रकारत्वात् स्वतः परतोऽपि परिच्छेदो न विद्यते ॥
प्रतितर्कानाह - किं च इति । अविद्याकार्यत्वादौ निष्फलत्वादिप्रसङ्ग इत्यर्थः । कर्महेतुकत्वात् तद्वदेव त्वन्मतेऽपि निष्फलत्वादिति चेत् , न , श्रुतेस्तुल्यदोषत्वाभावेन तद्बाधेन परिहारस्य सुवचत्वादिति भावः । स च व्यक्तीभविष्यति ॥
द्विधा मृषावादिनां गतिः । ब्रह्म स्वरूपपरवाक्यप्रतिपाद्यमिति , ब्रह्म तु न प्रतिपाद्यं भेदनिषेधपरा वेदान्ताः इति च । तत्र प्रतिपाद्यत्वपक्षेऽनिष्टं प्रसञ्जयति - किं च निर्विशेष इति । अनुमानैः - तर्कैः । ऊहस्तर्कोऽनुमानोक्तिः इति प्रसिद्धेः । निरस्तान् इति । स्वाभिमतार्थसाधकत्वं निरस्तमित्यर्थः । अतादृशस्य - कर्मकर्तृरहितस्य । तादृशस्य इति पाठे सकर्तृकर्मणस्तस्य निर्विशेषत्वेऽभिमते सा न सिध्यतीति ॥
पूर्वमविद्याहेतोः नैष्फल्यमुक्तम् । तन्न ; असत्यात् सत्योत्पत्तेः इत्यत्राह - यः पुनः
इति । परमते तदसिद्धिमाह - सोऽपि इति । स्वमते तदसिद्धिमाह - अस्माभिरपि इति ॥
बाधादृष्टिमुपगम्य दूषयति - दुष्टकारण इति । सा च नेत्याह - किं च इति । माध्यमिकवचो दोषमूलमित्यत्राह - दोषमूलत्वं तु इति । अतः … न सेत्स्यति इत्यन्वयः । असिद्धिमुपपादयति - लोक इति । ततः किमित्यत्राह - निर्विशेष इति । ज्ञातृत्वसविशेषत्वयोरभावात् आश्रयतया करणतया च न प्रतिभासादिहेतुत्वमित्यर्थः । आदि शब्दात् व्यवहारः ॥
न कश्चिद्विशेषोऽन्यत्र तत्संरंभात् इति । अयमभिप्रायः - अधिष्ठानस्य
मिथ्यात्वेऽधिष्ठानान्तरापेक्षया अनवस्था दोषमृषात्वेऽपि तुल्या । स्वरूपप्रवाहानादित्वाभ्यां दौर्घट्यस्वपरनिर्वाहकाभ्यां च परिहृतिश्च तथा । उपपत्त्यनपेक्षत्वे चातिप्रसङ्गाः प्राक् दर्शिताः । दोषसत्यत्वापेक्षा चापरमार्थत्वप्रयुक्तोपपत्तिरूपेति ॥
यत्तु इत्यादि । आनन्त्यं - सावधिसंख्याराहित्यम् । स्वरूपानन्त्यात् - देशकालाद्युपाधिरहितस्वरूपानन्त्यात् । देशकालादि इति आदि शब्दात् कर्त्रादि । कर्त्रादिनाऽप्यवच्छेददर्शनात् गृहाद्यवच्छिन्नात्मपक्षीकारे सिद्धसाध्यता । अवच्छिन्नघटेषु सपक्षीकृतेषु भिन्नत्वं सोपाधिकम् । अन्यथा दृष्टान्तस्य साध्यवैकल्यम् ॥
यत्तु आत्मनाम् इति बाधितविषयत्वमुक्तम् । यत् तु भिन्नत्वे इति । देशकालपरिच्छेदौ न्यूनाधिकत्वरहितौ , परिच्छेदत्वात् . वस्तुपरिच्छेदवत् इतिवत् वस्तुतः परिच्छिन्नस्य देशकालपरिच्छिन्नत्वम् अबाधितम् इत्यर्थः । वस्तुतः इत्यादि । स्फुटम् ॥
अविद्याब्रह्मभेदानुपगमे दूषणमाह - यदि इति । शुक्तित्वमृषात्वे पुरोवर्ति रजतमेव यथा स्यादिति भावः । प्रतिसंबन्धिन्यविद्या मृषेति चेत् , घटोऽपि मृषेति तद्विलक्षणपटस्येव वस्तुपरिच्छेदतत्प्रयुक्तदोषाः स्युः । अथ सामान्येन भेदानुपगमेन दूषणमाह - भेदतत्त्व इति । स्वपक्षो निर्दोषः , परपक्षः सदोषः इति विभागसत्यत्वे भेदसत्यत्वम् , असत्यत्वे भेदसत्यत्वम् इत्यर्थः । वैशेषिकानन्त्ये स्वाभिमतिप्रकारमाह - आनन्त्य इति । साक्षात्सिद्धान्तिपक्षे तदुपपत्तिमाह - भेदवादिनस्तु इति । स्वतः इति घटादिव्यावृत्तिः । परतः इति धर्मभूतज्ञानव्यावृत्तिः । सर्ववस्तुसामानाधिकरण्यार्हत्वं वस्त्वपरिच्छेदस्वनिष्ठ - वस्त्वन्तराभाव इत्यर्थः । गुणानन्त्यं च यथा षड्वर्णापेक्षया दशवर्णनिष्कस्यापरिच्छेदः । प्रागुक्तोऽप्येतदन्तर्भूतः ॥
तदेवं कारणात् भिन्नस्य कार्यस्य सत्यत्वात् ब्रह्मकार्यं कृत्स्नं जगत् ब्रह्मणोऽन्यदेव ॥
सिद्धान्तः
इति प्राप्ते प्रचक्ष्महे - तदनन्यत्वमारम्भणशब्दादिभ्यः । … .. . बालो युवा स्थविरः इति वुद्धिशब्दान्तरादयः कार्यविशेषाश्च दृश्यन्ते ॥
अथ वैशेषिकपक्षमुपसंहरन् राद्धान्तमवतारयति - तदेवम् इति । तदनन्यत्वमारम्भणशब्दादिभ्यः । अस्य
कस्मादनन्यत्वमित्यत्राह तस्मात् इति ।
अनन्यत्वम् ऐक्यम् । विरोधो नञर्थः । प्रतिज्ञादृष्टान्तवाक्यद्वयं प्रकृत्यधिकरणविषयः । वैशेषिकनिरासेन कार्यकारणैक्योपपादकत्वादस्य वाक्यस्य एतदधिकरणविषयत्वमित्यभिप्रायेणोक्तं तदुपपादयद्भ्यः इति । ऐकपद्यव्युदासाय वाचादिभ्यः इत्यनुक्तिः । षष्ठीतत्पुरुषव्युदासायाह आरम्भणशब्द इति ॥
उदाहृतवाक्यानां तदनन्यपरत्वमुपपादयति - तथा हि इति । दृष्टान्तवाक्यं व्याचष्टे - यथैक इति । वाचा इत्यादिवाक्यस्य तदुपपादकत्वमाह - अत्र इति । नाम्नो मृदारब्धत्वाभावात् स्पर्शार्थतया व्याख्यातम् । घटेन इति वाचा इत्यजहल्लक्षणेत्यर्थः । सिद्धये इति प्रयोजनतया हेतुत्वमित्यर्थः । तेनेव - पूर्ववाक्यप्रस्तुतेन । स्पर्शशब्दार्थं विवृण्वन् उक्तं संग्रहेणाह उदक इति । बुद्ध्यादिभेदः घटः पटः आस्ते शेते इत्यादौ बुद्धिभेदादवस्थाभेदाच्च दृष्टः । अत्र त्ववस्थाभेदनिबन्धनत्वे किं नियामकमित्यत्राह - अतः इति । एवकारार्थमाह - न तु इति । सामान्येन बुद्ध्यादिभेदानामन्यथासिद्धिमाह - अतः इति । देहक्षणिकत्वेऽपि बालादिशब्दानां चेतनपर्यन्तत्वान्न साध्यविकलता दृष्टान्तस्य , देहस्याबाधितप्रत्यभिज्ञाविषयत्वाच्च ।
यदुक्तम् - सत्यामेव मृदि घटो नष्ट इति व्यवहारात् … … तदेवमारम्भ णशब्दादिभ्यो जगतः परमकारणात् परस्मात् ब्रह्मणोऽनन्यत्वमुपपाद्यते ॥
भावाभावविरोधं परिहरति - यदुक्तम् इति । कार्यभेदं परिवक्ति - तत्तत् इति । कारकव्यापारवैयर्थ्यं व्युदस्यति - संस्थानयोग इति । भूतप्रत्ययनिर्देशः प्रथमक्षणापेक्षयेति योगशब्दस्य भावः । अतो नोत्पद्यते इति व्याहारः नात्र शक्त्त्यु त्पन्नव्याहाराभावश्च । तत एव कपालत्वे सति घटस्य निष्ठत्वोक्तिश्च एवं युक्ता ।
संस्थानस्य इत्यादिनोपन्यस्तचोद्यं प्रतिबन्दीमुखेन परिहरति - असत्कार्यवादिनोऽपि इति । यथोत्पत्तेरुत्पत्तिचोदनं नित्यसमजात्युक्तिः तथाऽवस्थाया उत्पत्तिमुखेन चोद्यमपि ; अवस्थाविशेषस्य चोत्पत्तिरूपत्वादित्यर्थः । अस्माकं तु इति । पृथक्स्थितिप्रतीतिकार्यानर्हाणां न पृथगुत्पत्त्याद्यपेक्षा यथोत्पत्तेः ,
किं तु तदर्हाणामेव पृथगुत्पत्याद्यपेक्षेत्यर्थः । संख्याभेदं परिहरति - कपालत्व इति ॥
अथ सौत्रादिशब्दोपात्तेषु वाक्येषु दार्ष्टान्तिकवाक्यस्यार्थमाह तथा इति । सदेव इति एवकारात् कार्यासत्त्वव्युदासः । कथम् असत इत्यादिवाक्यैकार्थ्यात् तथा …
उपपादितम् इत्यन्वयः ॥
पदानामुक्तार्थपरत्वं द्रढयितुमुपरितनवाक्यानामर्थं वदन् , अनन्यत्वसिद्धिमाह - तथा तदैक्षत इति । बहुत्वेक्षितृत्वशब्दाभ्याम् एक अद्वितीय शब्दार्थं#ः स्फुटीकृतः । व्यष्टिसृष्टिसङ्कल्पवाक्यस्य शङ्कामाह - सच्छब्द इति । सच्छब्दो ब्रह्मपरश्चेदिदं सामानाधिकरण्यमयुक्तम् । जगत्परश्चेदीक्षणाद्ययोग इत्यर्थः ॥
तादात्म्यस्य व्याप्तिहेतुकत्वज्ञापनायोदाहृतवाक्यं विवृणोति - तिस्रः इति । कृत्स्नम् तिस्र इति न्यूनतां व्यावर्तयति । न तु मानान्तरसिद्धमधिकमिति भावः । अचिद्वस्तु - इदंशब्दसमानाधिकरण देवता शब्दो लक्षणयाऽधिष्ठेयाचित्पर इति भावः । वस्तुशब्दो ऽचित्पारमार्थ्यसूचकः । तत्पारमार्थ्यं तु असृजत इति सृज्यत्वोक्तेः ॥
स्वात्मक इति । अनेन जीवेनात्मना इति आत्म शब्दः स्ववाचीति भावः । नामरूपे कस्येत्यत्राह - एतत् इति । सन्निहितमेव नामरूपभागिति भावः । विचित्र इति । देवादिव्यष्टिनामरूपे इत्यर्थः । अनेन तेजःशब्द- तेजस्त्वप्रभृतिसमष्टिनामरूपव्यावृत्तिः । समष्टिनामरूपे हि प्रागेव व्याकृते । स्ववाचकस्य आत्मना इति पदस्य जीवविशेषणशङ्काव्युदासाय जीवेन इति पदस्य आत्मवि शेषणत्वं दर्शयन् , समष्ट्यवस्थजीवानुप्रवेशव्यावृत्त्यर्थमनुप्रवेशं विशिंषन् जीवस्यापि नामरूपभाक्त्वं दर्शयति - अनेन इति । अत्र एतच्छब्दो जीवविशिष्टाचित्परः । आत्मतया - नियन्तृतया । जीवपरयोः स्वरूपैक्यव्युदासाय स्वात्मकत्वं विवृणोति - स्वात्मनः इति । सिहेन मया इतिवदित्यर्थः ॥
श्रुत्यन्तरेणेदं स्पष्टयति तत् - सृष्ट्वा इति । कार्यदशायां ह्ययमनुप्रवेशः , न तु कारणदशायामित्यत्राह - तदेतत् इति । ततः किमित्यत्राह - अनेन इति । सत् इदं शब्दयोः केवलब्रह्मकेवलजगत्परत्वाभावादिति भावः । तरपो मुख्यत्वमर्थः । स्पष्टम् । आदि शब्दोपात्तप्रकरणान्तरवाक्यैरनन्यत्वमाह - तथा इति ॥
अत्रेदं तत्त्वम् - चिदचिद्वस्तुशरीरतया तत्प्रकारं ब्रह्मैव … … सदात्मना च सर्वस्य अभिन्नत्वे सर्वज्ञत्वेन
सर्वस्वभावप्रतिसन्धानात् सर्वगुणदोषसङ्करप्रसङ्गश्च पूर्वमेवोक्तः । अतो यथोक्तप्रकारमेव अनन्यत्वम् ॥ 15 ॥
विभक्ततमःकार्यं ह्यक्षरादि । तमसः एकीभावश्रवणात् चिदचितोरुत्पत्तिप्रलयश्रवणात् , अग्रे बहुत्वाभावेन शरीरशरीभावान्न स्वभावव्यवस्था युक्ता । भेदव्यपदेशात् तदनन्यत्वम्
इत्यादिसूत्राणां व्याहतिश्चेत्यत्राह अत्रेदम् इति । परमात्मनित्यत्वोपादानत्वजीवनित्यत्वबहुत्ववैषम्यादिपरिहारोचितदेहात्म- भावश्रुत्यन्यथानुपपत्त्या तदानीमपि चिदचिच्छरीरकत्वसिद्धिरिति भावः ॥
अस्य सूत्रस्य मृषावादिभिरुक्तमर्थं दूषयति - ये तु इति । भास्करोक्तं व्युदस्यति - ये च इति । उपाधिसंबन्धात् इत्यन्तेन चिद्गतदोषसङ्ग उक्तः । हेयाकार इत्यचिद्दोषसङ्गः । न स्वरूपे हेयान्वयः , शक्तेरचिद्रूपपरिणामादित्यत्राह - शक्ति इति ॥
यादवप्रकाशोक्तं व्युदस्यति - ये पुनः इत्यादिना । विप्लवः - विकारः । सदैव - कारणदशायामपीति भावः । यः सर्वज्ञः सर्ववित् … तस्मादेतत् इति हि श्रुतिः । ततः स्वयंभूः इति । भगवच्छब्दः ईश्वरपरः इति भावः । न्यायविरोधमाह - न च इति । सविशेषत्वात् - नियन्तृरूपविशेषवत्त्वात् । न लक्षणा ; शक्तौ प्रत्ययविधानात् इत्यत्राह - न च पाचक इति ।
केषाञ्चिदेव इति । अन्यथा विशेषोपादानवैयर्थ्यमिति भावः । पाचकादिषु शक्त्यर्थत्वं दृष्टमित्यत्राह - पाचक इति ॥
अनुवृत्तं सत्त्वं धर्म इति पक्षे दूषणमाह - न च इति । प्रसङ्गादसत्त्वं शिक्ष यति - विरोधि इति । द्रव्यपक्षे दूषणमाह - द्रव्यमेव इति । द्रव्यसंबन्धः क्रियादेः सत्त्वमित्यत्राह - क्रियादिषु इति । सूत्रार्थमुपसंहरति अतः इति ॥ 15 ॥
अथोच्येत - एकस्यैवावस्थान्तरयोगेऽपि … ….
भावे चोपलब्धेः ॥ 2-1-16॥
कुण्डलादिकार्यसद्भावे च कारणभूत … … बुद्धिशब्दान्तरादयोऽवस्थाभेदमात्रनिबन्धना इत्यवगम्यते । तस्मात् कारणादनन्यत् कार्यम् ॥ 16 ॥
उत्तरसूत्रशङ्कामाह - अथोच्येत इति । भावे चोपलब्धेः । मृत्तिका इत्यादेरर्थ इहोक्तः । सामानाधिकरण्येन प्रत्यभिज्ञविवक्षिता । प्रतिसन्धानानुपपत्तेः । न हि घटस्थेम्भसि घटप्रतिसन्धानमित्यर्थः । चोद्यं शङ्कते - गोमय इति । न तत्रापि इति । समवाय्यनुवृत्तिवादिना त्वयाऽपि आदिकारणप्रतिसन्धिर्वाच्या इति भावः । स्फुटम् ॥ 16 ॥
इतश्च
सत्त्वाच्चापरस्य ॥ 2-1-17 ॥
अपरस्य कार्यस्य कारणे सत्त्वाच्च … … वेदे च सदेव सोम्येदमग्र आसीत् इति
॥ 17 ॥
सत्त्वाच्चापरस्य । पूर्वसूत्रे द्रव्यैक्यधीप्रत्यभिज्ञोक्ता ; इह तु तथा व्यपदेशः । व्यपदिश्यते इति हि भाष्यम् । यद्वा अयं स इत्यभिज्ञोच्यते ॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः
शब्दान्तराच्च ॥ 2-1-18 ॥
यदुक्तं कारणे कार्यस्य सत्त्वं … … तद्धेदं तर्ह्मव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत इति सुस्पष्टमुक्तम् ॥ 18 ॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च । द्रव्यधर्मावित्युक्तम् इति । व्यवहारयोग्यता हि सत्त्वम् इत्यादिना । अन्तर शब्दार्थमाह - तत्र इति । अश्रुतवाक्यशेषेषु प्रदेशेषु निर्वाहमाह - तदैकार्थ्यात् इति । स्फुटम् ॥ 18 ॥
इदानीं कार्यस्य कारणादनन्यत्वे निदर्शनद्वयं … …
पटवच्च ॥ 2-1-19 ॥
यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं भजन्ते , तद्वत् ब्रह्मापि ॥ 19 ॥
अनन्तरसूत्रद्वयकृत्यमाह - इदानीम् इति । इदानीम् - अनन्यत्वे साधिते । अतो न साध्यविकलतेति भावः । निदर्शनद्वयम् इति । लौकिकं वैदिकं च । पटवच्च । बहूनामेकावस्थत्वं निदर्शितम् ॥ 19 ॥
यथा च प्राणादिः ॥ 2-1-20 ॥
यथा च वायुरेक एव शरीरे वृत्तिविशेषं … … परमकारणात् परस्माद्ब्र ह्मणोऽनन्यत्वं जगतः सिद्धम् ॥ 20॥
यथा च प्राणादिः । एकस्य बह्ववस्थत्वं निदर्शितम् । अधिकरणार्थमुपसंहरति - इति इति ॥ 20 ॥
इति आरम्भणाधिकरणम् - 6