०५ भोक्त्रापत्त्यधिकरणम्

भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ 2-1-14 ॥

पुनरपि सांख्यः प्रत्यवतिष्ठते - यदुक्तं …. … स्वरूपपरिणामे च ब्रह्मण एव भोक्तृभोग्यत्वापत्तिरिति पुनरप्यसामञ्जस्यमेव ॥

भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् । पूर्वाधिकरणे देहो दृष्टान्तितः । तत्प्रयुक्तभोक्तृत्वशङ्काया उत्थानात् सङ्गतिः । ननु च इत्यादि । अन्यगृह इव कार्यान्तरवशात् त्यन्निधौ भोक्तृत्वमिति पूर्वत्रोक्तम् । इह शरीरस्वामित्वे भोक्तृत्वं न निवार्यते इत्यर्थः । स्थविरत्वादिविकारासंभवेऽपि इति अनेन प्रागुक्तदृष्टान्तपरिहृतांश उक्तः । अपरिहृतांशमाह - शरीर इति । स्यात् लोकवत् इति । सशरीरस्य कारणत्वे दोषः परिहृतः

। केवलब्रह्मणः कारणत्वे दोषमनुपगमेन प्रतिवक्ति मृत्सुवर्ण इति ॥

यत् तु इत्यादिनाऽनूदितं पोक्तार्थं दूषयति - तदयुक्तम् इति । उपाधिश्च इति उपाधिशब्दः शक्त्यविद्योपाधिपरः । वादशब्दवदयंशब्दः । उपाधितदुपहितयोरविभागः शङ्क्यत इत्यत्राह - विलक्षणयोः इति । स्वरूपपरिणामे शङ्कापरिहारौ युक्तावित्यत्राह - स्वरूप इति । कुत इत्यत्राह - न कर्म इति । उपगम्य दूषयति - स्वरूप इति । कालान्तरेण घटशरावादिसङ्करोऽस्तीति चेत् फेनतरङ्गदृष्टान्तेऽपि समानोऽयं दोषः । यस्तु तेन परिह्रियते स्वरूपपरिणामेऽपि परिहार्यः । पूर्वाधिकरणोक्तविकारापुमर्थदोषपरिहारानुपपत्तिमाह - स्वरूप इति ॥ 14 ॥

इति भोक्त्रापत्त्यधिकरणम् - 5