०४ शिष्टापरिग्रहाधिकरणम्

एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ 2-1-13 ॥

शिष्टाः परिशिष्टाः , न विद्यते … … विसंवाददर्शनाच्चाप्रतिष्ठितत्वमेवेति परिहारः ॥ 13 ॥

एतेन शिष्टापरिग्रहा अपि व्याख्याताः । तृतीयासमासव्युदासाय व्याचष्टे - शिष्टाः इति । कर्मधारयत्वे हि सांख्यस्य शिष्टापरिग्रहत्वसिद्धिः । अनेकान्तत्वसत्यासत्यात्मकत्वादि । आदि शब्दात् चातुर्विध्यैकरूप्ये ॥ 13 ॥

इति शिष्टापरिग्रहाधिकरणम् - 4