सारः (द्रष्टुं नोद्यम्)
अधिकरणार्थः – ब्रह्मणो जगदपेक्षया वैलक्षण्यं जगत्कारणत्वाविरोधि
पूर्व-पक्षः
विश्वास-प्रस्तुतिः
न +++(ब्रह्म +उपादान-कारणं जगतः -)+++ विलक्षणत्वाद् अस्य।
तथात्वं च शब्दात् ॥ 2-1-4 ॥
Thibaut
- Not, on account of the difference of character of that; and its being such (appears) from Scripture.
मूलम्
न विलक्षणत्वादस्य
तथात्वं च शब्दात् ॥ 2-1-4 ॥
श्रुत-प्रदीपिका
न विलक्षणत्वादस्य तथात्वं च शब्दात् ।
मन्वादि-स्मृतिभिर् वेदानाम् उपबृंहणं कार्यम् इत्य् उक्तम् ।
तास् तर्कविरुद्धाः ।
तर्कानुगृहीत-सांख्य-स्मृत्यैव कार्यम्
इति प्रत्यवस्थानात् सङ्गतिः ।
सङ्गतेः प्रदर्शनम्, सूत्राक्षरविवरणम्
विश्वास-प्रस्तुतिः
पुनर् अपि स्मृति-विरोध-वादी
तर्कम् अवलम्बमानः प्रत्यवतिष्ठते -
यत् साङ्ख्य-स्मृति-निराकरणेन
जगतो ब्रह्म-कार्यत्वम् उक्तम्,
तन् नोपपद्यते;
अस्य प्रत्यक्षादिभिर्
अचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य
चिद्–अ-चिद्–आत्मकस्य जगतः
भवद्-अभ्युपेतात् सर्वज्ञात् सर्वेश्वराद् +हेय-प्रत्यनीकाद् आनन्दैकतानाद् ब्रह्मणो विलक्षणत्वात् ।
Thibaut
The same opponent who laid stress on the conflict between Scripture and Smr̥ti now again comes forward, relying this time (not on Smr̥ti but) on simple reasoning.
Your doctrine, he says, as to the world being an effect of Brahman
which you attempted to prove by a refutation of the Sānkhya Smr̥ti
shows itself to be irrational for the following reason.
Perception and the other means of knowledge show this world with all its sentient and non-sentient beings to be of a non-intelligent and impure nature,
to possess none of the qualities of the Lord,
and to have pain for its very essence;
and such a world totally differs in nature from the Brahman, postulated by you,
which is said to be all-knowing, of supreme lordly power,
antagonistic to all evil, enjoying unbroken uniform blessedness.
मूलम्
पुनरपि स्मृतिविरोधवादी तर्कमवलम्बमानः प्रत्यवतिष्ठतेयत्साङ्ख्यस्मृतिनिराकरणेन जगतो ब्रह्मकार्यत्वमुक्तम्,तन्नोपपद्यते; अस्य प्रत्यक्षादिभिरचेतनत्वेनाशुद्धत्वेनानीश्वरत्वेन दुःखात्मकत्वेन चोपलभ्यमानस्य चिदचिदात्मकस्य जगतः भवदभ्युपेतात्सर्वज्ञात्सर्वेश्वराद्धेयप्रत्यनीकादानन्दैकतानाद्ब्रह्मणो विलक्षणत्वात् ।
श्रुत-प्रदीपिका
सोत्र न इति पदं व्याचष्टे यत् इति ।
अस्य इति व्याख्येयम् ।
विलक्षणत्वात् इति पदं व्याचष्टे
भवद्-अभिमत इति ।
शब्दतश्च ब्रह्मणि जगद्वैलक्षण्यप्रदर्शनम्
विश्वास-प्रस्तुतिः
न केवलं प्रत्यक्षादिभिर् एव जगतो वैलक्षण्यम् उपलभ्यते,
शब्दाच् च तथात्वम् विलक्षणत्वम् उपलभ्यते“विज्ञानं चाविज्ञानं च”
“एवम् एवैता भूत-मात्राः
प्रज्ञा-मात्रास्व् अर्पिताः
प्रज्ञामात्राः प्राणे अर्पिताः”“समाने वृक्षे पुरुषो निमग्नो
ऽग्नीशया शोचति मुह्यमानः”“अनीशश्चात्मा बध्यते भोक्तृ-भावात्”
इत्य्-आदिभिः ।
Thibaut
This difference in character of the world from Brahman is, moreover, not only known through Perception, and so on, but is seen to be directly stated in Scripture itself; compare
‘Knowledge and non-knowledge’ (Taitt. Up. II, 6, 1);
‘Thus are these objects placed on the subjects, and the subjects on the prāṇa’ (Kau. Up. III, 9);
‘On the same tree man sits grieving, immersed, bewildered by his own impotence’ (Śvet. Up. IV, 7);
‘The soul not being a Lord is bound because he has to enjoy’ (Śvet. Up. I, 8);
and so on;
मूलम्
न केवलं प्रत्यक्षादिभिरेव जगतो वैलक्षण्यमुपलभ्यते, शब्दाच्च तथात्वम् विलक्षणत्वम् उपलभ्यते “विज्ञानं चाविज्ञानं च” “एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः” समाने वृक्षे पुरुषो निमग्नोऽग्नीशया शोचति मुह्यमानः" “अनीशश्चात्मा बध्यते भोक्तृभावात्” इत्यादिभिः ।
श्रुत-प्रदीपिका
तथात्वम् इत्य्-आदि-सूत्र-खण्डं व्याचष्टे
न केवलम् इति ।
Thibaut
all which texts refer to the effect, i.e. the world as being non-intelligent, of the essence of pain, and so on.
विश्वास-प्रस्तुतिः
कार्यस्य हि जगतो ऽचेतनत्व-दुःखित्वादयो निर्दिश्यन्ते ।
मूलम्
कार्यस्य हि जगतोऽचेतनत्वदुःखित्वादयो निर्दिश्यन्ते ।
कार्य-समान-लक्षणस्यैव कारणत्वे युक्तिः
विश्वास-प्रस्तुतिः
यद्+धि यत्-कार्यम्,
तत् तस्माद् अ-विलक्षणम्,
यथा मृत्-सुवर्णादि-कार्यं घट-रुचकादि।
Thibaut
The general rule is that an effect is non-different in character from its cause; as e.g. pots and bracelets are non-different in character from their material causes–clay and gold.
मूलम्
यद्धि यत्कार्यम्, तत्तस्मादविलक्षणम्, यथा मृत्सुवर्णादिकार्यं घटरुचकादि;
श्रुत-प्रदीपिका
ततः किम् इत्य्-अत्राह - यद्धि इति ।
विश्वास-प्रस्तुतिः
अतो ब्रह्मविलक्षणस्यास्य जगतस्
तत्-कार्यत्वं न सम्भवतीति
साङ्ख्य-स्मृत्य्-अनुरोधेन
कार्य-स-लक्षणं प्रधानम् एव
कारणं भवितुम र्हति ।
Thibaut
The world cannot, therefore, be the effect of Brahman from which it differs in character,
and we hence conclude that, in agreement with the Sānkhya Smr̥ti, the Pradhāna which resembles the actual world in character must be assumed to be the general cause.
मूलम्
अतो ब्रह्मविलक्षणस्यास्य जगतस्तत्कार्यत्वं न सम्भवतीति साङ्ख्यस्मृत्यनुरोधेन कार्यसलक्षणं प्रधानमेव कारणं भवितुमर्हति ।
प्रमाणानां तर्कानुग्रहापेक्षा-विशदी-करमम्
विश्वास-प्रस्तुतिः
अवश्यं च शास्त्रस्य +अनन्यापेक्षस्य +अतीन्द्रियार्थ-गोचरत्वे ऽपि
तर्को ऽनुसरणीयः,
यतस् सर्वेषां प्रमाणानां
क्वचित् क्वचिद् विषये त र्कानुगृहीतानाम् एवार्थनिश्चय-हेतुत्वम् ।
Thibaut
Scripture, although not dependent on anything else and concerned with super-sensuous objects, must all the same come to terms with ratiocination (tarka); for all the different means of knowledge can in many cases help us to arrive at a decisive conclusion, only if they are supported by ratiocination.
मूलम्
अवश्यं च शास्त्रस्यानन्यापेक्षस्यातीन्द्रियार्थगोचरत्वेपि तर्कोऽनुसरणीयः, यतस्सर्वेषां प्रमाणानां क्वचित् क्वचिद्विषये तर्कानुगृहीतानामेवार्थनिश्चयहेतुत्वम् ।
श्रुत-प्रदीपिका
शास्त्रेण तर्को बाध्य इत्यत्राह अवश्यं च इति । अनन्यापेक्षस्य - प्रमाणान्तरानपेक्षस्य ।
न हि तर्को मानम् ;
अतोऽङ्गत्वाद् अपेक्षित इत्यर्थः ।
क्वचित् क्वचित् - स्वतोऽस्पष्टार्थविषयेषु ॥
विश्वास-प्रस्तुतिः
तर्को हि नाम
अर्थ–स्व-भाव–विषयेण वा
+++(परिकर-)+++सामग्री-विषयेण वा निरूपणेन
+अर्थ-विशेषे प्रमाणं व्यवस्थापयत्
तद्+++(=??)+++-इति-कर्तव्यता-रूपम्
ऊहाऽपर-पर्यायं ज्ञानम्।
Thibaut
For by tarka
we understand that kind of knowledge (intellectual activity)
which in the case of any given matter,
by means of an investigation
either into the essential nature of that matter
or into collateral (auxiliary) factors,
determines what possesses proving power,
and what are the special details of the matter under consideration:
this kind of cognitional activity is also called ūha.
मूलम्
तर्को हि नाम अर्थस्वभावविषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत्तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम्
श्रुत-प्रदीपिका
तर्केण मानस्य किञ्चित्-कारम् आह - तर्को हि इति ।
विश्वास-प्रस्तुतिः
तद्-अपेक्षा च सर्वेषां प्रमाणानां समाना;
Thibaut
All means of knowledge equally stand in need of tarka;
मूलम्
तदपेक्षा च सर्वेषां प्रमाणानां समाना;
प्रत्यक्ष-विलक्षणस्य शास्त्रस्य तर्कानुग्रहापेक्षा-नियमः
विश्वास-प्रस्तुतिः
शास्त्रस्य तु
विशेषेणाकाङ्क्षा-सन्निधि-योग्यता-ज्ञानाधीन-प्रमाण-भावस्य
सर्वत्रैव तर्कानुग्रहापेक्षा ;
Thibaut
Scripture however, the authoritative character of which specially depends on expectancy (ākānkshā), proximity (sannidhi), and compatibility (yogyatā), throughout requires to be assisted by tarka.
मूलम्
शास्त्रस्य तु विशेषेणाकाङ्क्षासन्निधियोग्यताज्ञा- नाधीनप्रमाणभावस्य सर्वत्रैव तर्कानुग्रहापेक्षा ;
विश्वास-प्रस्तुतिः
उक्तं च मनुना
" यस् तर्केणानुसन्धत्ते
स धर्मे वेद नेतरः"
इति ।
Thibaut
In accordance with this Manu says,‘He who investigates by means of reasoning, he only knows religious duty, and none other.’
मूलम्
उक्तंच मनुना " यस्तर्केणानुसन्धत्ते स धर्मे वेद नेतरः" इति ।
श्रुत-प्रदीपिका
शास्त्रस्य तु इति - तु-शब्दः साध्यवैषम्ये ।
विशेषेण इति साधनवैषम्ये ।
विश्वास-प्रस्तुतिः
तद् एव हि तर्कानुगृहीत-शास्त्रार्थ-प्रतिष्ठापनं श्रुत्या च “ मन्तव्यः" इत्युच्यते ।
Thibaut
It is with a view to such confirmation of the sense of Scripture by means of Reasoning that the texts declare that certain topics such as the Self must be ‘reflected on’ (mantavya).
मूलम्
तदेव हि तर्कानुगृहीतशास्त्रार्थप्रतिष्ठापनं श्रुत्या च “ मन्तव्यः" इत्युच्यते ।
जगति अनुद्भूत-चैतन्यस्याभ्युपगमेन ब्रह्म-सालक्षण्याशङ्का-परिहारौ
विश्वास-प्रस्तुतिः
अथोच्येत –
श्रुत्या जगतो ब्रह्मैक-कारणत्वे निश्चिते सति
तत्-कार्यस्यापि जगतश्
चैतन्यानुवृत्तिर् अभ्युपगम्यते।
Thibaut
Now here it might possibly be said that as Brahman
is ascertained from Scripture to be the sole cause of the world,
it must be admitted that intelligence exists in the world also, which is an effect of Brahman.
मूलम्
अथोच्येत – श्रुत्या जगतो ब्रह्मैककारणत्वे निश्चिते सति तत्कार्यस्यापि जगतश्चैतन्यानुवृत्तिरभ्युपगम्यते।
विश्वास-प्रस्तुतिः
तथा चेतनस्य
सु-षुप्ति–मूर्च्छादिषु
चैतन्यानुपलम्भः;
तथा घटादिष्व् अपि
सद् एव चैतन्यम् अनुद्भूतम्,
अत +++(→अनुभवाननुभवत)+++ एव चेतनाचेतन-विभागः
– इति ॥
Thibaut
In the same way as the consciousness of an intelligent being is not perceived
when it is in the states of deep sleep, swoon, &c., so the intelligent nature of jars and the like also is not observed, although it really exists;
and it is this very difference of manifestation and non-manifestation of intelligence on which the distinction of intelligent and non-intelligent beings depends.
मूलम्
तथा चेतनस्य सुषुप्तिमूर्च्छादिषु चैतन्यानुपलम्भः;
तथा घटादिष्वपि सदेव चैतन्यमनुद्भूतम्,
अत एव चेतनाचेतनविभागः – इति ॥
श्रुत-प्रदीपिका
स्वापे चैतन्यानुपलम्भः ,
तच्छक्ति-योगश् च वेद-तद्-इतराभिमतौ ।
विश्वास-प्रस्तुतिः
नैतद् उपपद्यते,
यतो नित्यानुपलब्धिर् अ-सद्भावम् एव साधयति।
अत एव चैतन्य-शक्ति-योगो ऽपि तेषु निरस्तः।
Thibaut
–But to this we reply that permanent non-perception of intelligence proves its non-existence.
This consideration also refutes the hypothesis of things commonly called non-intelligent possessing the power, or potentiality, of consciousness.
मूलम्
नैतदुपपद्यते, यतो नित्यानुपलब्धिरसद्भावमेव साधयति। अत एव चैतन्यशक्तियोगोऽपि तेषु निरस्तः।
विश्वास-प्रस्तुतिः
यस्य हि क्वचित् कदाचिद् अपि यत्-कार्यानुपलब्धिः;
तस्य तत्-कार्य-शक्तिं ब्रुवाणो
वन्ध्या-सुत-समितिषु तज्-जननीनां प्रजनन-शक्तिं ब्रूताम् ॥
Thibaut
For if you maintain that a thing possesses the power of producing an effect while yet that effect is never and nowhere seen to be produced by it, you may as well proclaim at a meeting of sons of barren women that their mothers possess eminent procreative power!
मूलम्
यस्य हि क्वचित्कदाचिदपि यत्कार्यानुपलब्धिः;
तस्य तत्कार्यशक्तिं ब्रुवाणो वन्ध्यासुतसमितिषु तज्जननीनां प्रजननशक्तिं ब्रूताम् ॥
विश्वास-प्रस्तुतिः
किञ्च वेदान्तैर्
जगतो ब्रह्मोपादानता-प्रतिपादन-निश्चये सति
घटादीनां चैतन्य-शक्तेश्
चैतन्यस्य वाऽनुद्भूतस्य सद्भावनिश्चयः, तन्-निश्चये सति
वेदान्तैर्
जगतो ब्रह्मोपादानताप्-रतिपादन-निश्चय
इतीतरेतराश्रयत्वम्।
Thibaut
Moreover, to prove at first from the Vedānta-texts that Brahman is the material cause of the world, and from this that pots and the like possess potential consciousness, and therefrom the existence of non-manifested consciousness; and then, on the other hand, to start from the last principle as proved and to deduce therefrom that the Vedānta-texts prove Brahman to be the material cause of the world, is simply to argue in a circle;
मूलम्
किञ्च वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चये सति घटादीनां चैतन्यशक्तेश्चैतन्यस्य वाऽनुद्भूतस्य सद्भावनिश्चयः, तन्निश्चये सति वेदान्तैर्जगतो ब्रह्मोपादानताप्रतिपादननिश्चय इतीतरेतराश्रयत्वम्।
विश्वास-प्रस्तुतिः
विलक्षणयोर् हि कार्य-कारण-भावः
प्रतिपादयितुम् एव न शक्यते ॥
Thibaut
for that the relation of cause and effect should exist between things different in character is just what cannot be proved.
मूलम्
विलक्षणयोर्हि कार्यकारणभावः प्रतिपादयितुमेव न शक्यते ॥
श्रुत-प्रदीपिका
कथं ब्रह्मोपादानतोक्तेः
घटादौ धी-निश्चयापेक्षेत्य् अत्राह - विलक्षणयोर्हि इति । यूपादित्यैक्यवद् इति भावः ।
प्रसक्त-सालक्षण्य-विवेचनतः ब्रह्मणः उपादानत्वं तन्निषेधश् च
विश्वास-प्रस्तुतिः
किं पुनः प्रकृति-विकारयोस् सालक्षण्यम् अभिप्रेतम्,
यद्-अभावाज्
जगतो ब्रह्मोपादानता-प्रतिपादनासम्भवं ब्रूषे?
Thibaut
What sameness of character, again,
of causal substance and effects,
have you in mind
when you maintain that
from the absence of such sameness
it follows that Brahman cannot be proved to be the material cause of the world?
मूलम्
किं पुनः प्रकृतिविकारयोस्सालक्षण्यमभिप्रेतम्, यदभावाज्जगतो ब्रह्मोपादानता-प्रतिपादनासम्भवं ब्रूषे;
विश्वास-प्रस्तुतिः
न तावत् सर्व-धर्म-सारूप्यम्,
कार्य-कारण-भावानुपपत्तेः।
Thibaut
It cannot be complete sameness of all attributes, because in that case the relation of cause and effect (which after all requires some difference) could not be established.
मूलम्
न तावत्सर्वधर्मसारूप्यम्, कार्यकारणभावानुपपत्तेः।
किं पुनः इत्यादिना वैलक्षण्यासिद्धिराशङ्क्य परिहृता । ननु च इत्यादिना अनैकान्त्यम् ॥ 4 ॥
अथ स्यात् - अचेतनत्वेनाभिमतानामपि … …
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ 2-1-5 ॥
तु शब्दश्चोदिताशङ्कानिवृत्त्यर्थः … … जगतः प्रधानोपादानत्वं वेदान्तैः प्रतिपाद्यते - इति ॥ 5 ॥
अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति । अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । चोदिताशङ्कानिवृत्त्यर्थः , न तु पूर्वपक्षव्युदासार्थ इति भावः । स्फुटम् ॥ 5 ॥
सिद्धान्तः
एवं प्राप्तेऽभिधीयते -
दृश्यते तु ॥ 2-1-6 ॥
तुशब्दात् पक्षो विपरिवर्तते - … … माक्षिकगोमयक्रिमिवृश्चिकादिषु दृश्यते ॥ 6 ॥
दृश्यते तु । स्पष्टम् । पराभिमतसालक्षण्यं च सुवचम् । चिदचिद्विशिष्टस्य कारणत्वस्यैव कार्यत्वाच्च । इदानीं तु पराभिमतसालक्षण्यनियमो भग्नः ॥ 6 ॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ 2-1-7 ॥
यदि कार्यभूतात् जगतः कारणभूतं …. … सति च वैलक्षण्ये कुण्डलहिरण्ययोरिव द्रव्यैक्यमस्त्येव ॥ 7॥
असदिति चेन्न प्रतिषेधमात्रत्वात् । प्रत्यभिज्ञार्हसालक्षण्यनियमनिषिद्धः , न तु द्रव्यैक्यमित्यर्थः ॥ 7 ॥
अत्र चोदयति -
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ 2-1-8 ॥
अपीतावित्यपीतिपूर्वकसृष्ट्यादेः …. …. ब्रह्मकारणवादे वेदान्तवाक्यानामसामञ्जस्यम् - इति ॥ 8 ॥
उत्तरसूत्रमवतारयति - अत्र इति । अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । सृष्ट्यादेः । आदिशब्दात् स्थितिः । सिद्धान्तं शङ्कते अथ इति । चेष्टाश्रयत्वमुक्तम् पञ्चवृत्ति इति । आयतन शब्दः साधनविशेषपरः । अत एव हि भोगसाधनमात्रस्य इत्युक्तम् । सिद्धान्त्यभिमतलक्षणं दूषयति - अथ मतम्
इति । अव्याप्तिमाह - शरीरतया इति । अतिव्याप्तिमाह - साल इति । पक्षैकदेशव्याप्तिमाह - चेतनस्य इति । क्रियादिषु । आदि शब्दात् गुणः ॥ 8 ॥
अत्रोत्तरम् -
न तु दृष्टान्तभावात् ॥ 2-1-9 ॥
नैवमसामञ्जस्यम् - एकस्यैव … … सूत्रद्वयेन इतरव्यपदेशात् इत्यधिकरणसिद्धोऽर्थः स्मारितः॥ 9 ॥
न तु दृष्टान्तभावात् । हेयासंभवे को दृष्टान्त इत्यत्राह एतदुक्तम् इति । अमुख्यत्वमाशङ्क्याह - अथ च इति । अपामेव देवत्वादिधर्माः , न पुरुषस्येत्यत्राह - भूतसूक्ष्म इति । सोऽभिध्याय इत्यत्र चिदचितोरस्पष्टत्वादाह - भूतसूक्ष्मात् इति ।
आसीदिदम् इत्यादिना प्रकृतत्वादिति भावः ।
विश्वास-प्रस्तुतिः
स्मरन्ति च
“जगत् सर्वं शरीरं ते”
“यद् अम्बु वैष्णवः कायः”
“तत् सर्वं वै हरेस् तनुः”
“तानि सर्वाणि तद्-वपुः”
“सोऽभिध्याय शरीरात् स्वात्”
इत्यादि ।
भूत-सूक्ष्मात् स्वाच् छरीराद् इत्यर्थः ।
मूलम्
स्मरन्ति च
“जगत्सर्वं शरीरं ते”
“यदम्बु वैष्णवः कायः”
“तत्सर्वं वै हरेस्तनुः”
“तानि सर्वाणि तद्वपुः”
“सोऽभिध्याय शरीरात्स्वात्” इत्यादि ।
भूतसूक्ष्मात्स्वाच्छरीरादित्यर्थः ।
विश्वास-प्रस्तुतिः
लोके च शरीर-शब्दो
घटादि-शब्द-वद् एकाकार-द्रव्य-नियत-वृत्तिम् अनासादितः
क्रिमि-कीट-पतङ्ग-सर्प-नर-पशु-प्रभृतिष्व् अत्यन्त-विलक्षणाकारेषु द्रव्येषु
अगौणः प्रयुज्यमानो दृश्यते ।
तेन तस्य प्रवृत्ति-निमित्त-व्यवस्थापनं सर्व-प्रयोगानुगुण्येनैव कार्यम् ।
त्वद्-उक्तञ् च “कर्म-फल-भोग-हेतुः” इत्य्-आदिकं +++(शब्द-प्रयोग-)+++प्रवृत्ति-निमित्त-लक्षणं
न सर्व-प्रयोगानुगुणम् -
यथोक्तेषु ईश्वर-शरीरतया अभिहितेषु पृथिव्य्-आदिषु अव्याप्तेः ।
मूलम्
लोके च शरीरशब्दो
घटादिशब्दवदेकाकारद्रव्यनियतवृत्तिमनासादितः
क्रिमिकीटपतङ्गसर्पनरपशुप्रभृतिष्वत्यन्तविलक्षणाकारेषु द्रव्येषु
अगौणः प्रयुज्यमानो दृश्यते ।
तेन तस्य प्रवृत्तिनिमित्तव्यवस्थापनं सर्वप्रयोगानुगुण्येनैव कार्यम्।
त्वदुक्तञ्च “कर्मफलभोगहेतुः” इत्यादिकं प्रवृत्तिनिमित्तलक्षणं
न सर्वप्रयोगानुगुणम्यथोक्तेषु ईश्वरशरीरतया अभिहितेषु पृथिव्यादिषु अव्याप्तेः ।+++(4)+++
श्रुत-प्रदीपिका
लोके च इत्यादि ।
क्रिमि-कीट-पतङ्गादाव् अनुगतत्वाय हि
त्वया चेष्टाश्रयत्वादि-लक्षणम् उक्तम् ;
न तु द्विपात्त्वादि ।
विश्वास-प्रस्तुतिः
किञ्च +ईश्वरस्य इच्छा-विग्रहेषु
मुक्तानां च “स एकधा भवति” इत्य्-आदि-वाक्यावगतेषु विग्रहेषु
तल्-लक्षणं अव्याप्तम् -
कर्म-फल-योग-निमित्तत्वाभावात्,
तेषाम् परम-पुरुषेच्छा-विग्रहाच् च
न पृथिव्य्-आदि-भूत-सङ्घात-विशेषाः, -
“न भूतसङ्घ-संस्थानो
देहोऽस्य परमात्मनः”
इति स्मृतेः ।
मूलम्
किञ्च +ईश्वरस्य इच्छाविग्रहेषु
मुक्तानां च “स एकधा भवति” इत्यादिवाक्यावगतेषु विग्रहेषु
तल्लक्षणं अव्याप्तम्कर्मफलयोगनिमित्तत्वाभावात्,
तेषाम्परमपुरुषेच्छाविग्रहाच्च
न पृथिव्यादिभूतसङ्घातविशेषाः,
“न भूतसङ्घसंस्थानो
देहोऽस्य परमात्मनः”
इति स्मृतेः ।
विश्वास-प्रस्तुतिः
अतो भूतसङ्घात-रूपत्वं च शरीरस्याव्याप्तम्।
मूलम्
अतो भूतसङ्घातरूपत्वं च शरीरस्याव्याप्तम्।
विश्वास-प्रस्तुतिः
पञ्च-वृत्ति-प्राणाधीन-धारणत्वं च
स्थावर-शरीरेष्व् अव्याप्तम् ।
स्थावरेषु हि प्राण-सद्भावे ऽपि
तस्य पञ्च-धा अवस्थाय
शरीरस्य धारकत्वेनावस्थानं नास्ति ।
मूलम्
पञ्चवृत्तिप्राणाधीनधारणत्वं च
स्थावरशरीरेष्वव्याप्तम्।
स्थावरेषु हि प्राणसद्भावेऽपि
तस्य पञ्चधा अवस्थाय शरीरस्य धारकत्वेनावस्थानं नास्ति ।
विश्वास-प्रस्तुतिः
अहल्यादीनां कर्म-निमित्त-शिला-काष्ठादि-शरीरेष्व्
इन्द्रियाश्रयत्वं च सुख-दुःख-हेतुत्वं चाव्याप्तम्।
मूलम्
अहल्यादीनां कर्मनिमित्तशिलाकाष्ठादिशरीरेष्विन्द्रियाश्रयत्वं च सुखदुःखहेतुत्वं चाव्याप्तम्।
श्रुत-प्रदीपिका
अनुयायिनि संभवति ,
अन्-अनुगत-स्वीकारायोगात् ।
एवं लौकिक-वैदिक-सर्व-प्रयोगानुगत-लक्षणे संभवति ,
अननुगत-स्वीकारेण
क्वचित् गौणत्वाश्रयणम् अयुक्तम्
इति भावः ।
लक्षणम्
विश्वास-प्रस्तुतिः
अतो
यस्य चेतनस्य यद् द्रव्यम् +++(चेतनम् अ-चेतनं वापि, न क्रियादि)+++
सर्वात्मना+++(=यावद्-द्रव्य-भावितया, न घटादिवत्)+++ स्वार्थे+++(=शरीरार्थे - न मनुष्यशरीरस्य डयनार्थे)+++ नियन्तुम्,
धारयितुम् च शक्यं +++(न तु रुग्णावस्थायाम् इव सर्वदा नियाम्यते, दहारयत चैवेति)+++;
तच्-छेषतैक-स्वरूपञ् +++(न तु गृहवद् बहूनां शेषम्)+++ च
तत् तस्य शरीरम्।
इति शरीर-लक्षणम् आस्थेयम् ।
मूलम्
अतो
यस्य चेतनस्य यद्द्रव्यं
सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं
तच्छेषतैकस्वरूपं च
तत्तस्य शरीरमिति शरीरलक्षणमास्थेयम्।
श्रुत-प्रदीपिका
अतः - अनुयायिनो लक्षणत्वात् ,
त्वद्-उक्तस्य चाननुयायित्वाद् इत्य् अर्थः ॥
अनुगत-लक्षणम् आह - यस्य इति ।
चेष्टाश्रयत्वादिकं त्रितयम् अननुगतम् ;
इदं तु लक्षण-त्रयम् अनुगतम् -
- यस्य चेतनस्य यत् द्रव्यं
सर्वात्मना स्वार्थे नियन्तुं श्क्यं
तत् तस्य शरीरम् , - यस्य चेतनस्य यत् द्रव्यं
सर्वात्मना स्वार्थे धारयितुं शक्यं ,
तत् तस्य शरीरम् ; - यस्य चेतनस्य यत् द्रव्यं
शेषतैकस्वरूपं च ,
तत् तस्य शरीरम्
इति विभागः ।
स्वार्थे - स्वविषये शक्येऽर्थे ।
सर्वात्मना - यावद्-द्रव्य-भावितया ।
एतत्+++(→स्वार्थ-सर्वाम्त-शब्द-युगल)+++-स्थाने
तृतीये एक-शब्दः ।
स्वार्थ-शक्य-शब्दानपेक्षणात्
तृतीयस्य पृथग् उक्तिः ।
यस्य इति - पित्रादिवद्
देहस्य स-प्रतियोगिक-वस्तुत्वं दर्शितम् ।
तावता पित्रादेर् देहत्वं प्रसजेद् इत्य् उक्तं - नियाम्यम् इति ।
द्रव्यम् इति क्रियादि-व्युदासः ।
सर्वात्मना इति घटादि-व्यावृत्तिः ।
मनुष्यादीनां गगन-गमनादेर् अशक्यत्वात्
असंभव-व्यावृत्त्यर्थं स्वार्थे इति ।
शक्यम् इति रुग्ण-देहादौ अ-व्याप्ति-व्युदासः।
चेतनस्य इति धर्म-भूत-ज्ञान–व्यावृत्तिः ।
न हि तत् +++(→धर्म-भूत-ज्ञानं स्वरूपतः परिपूर्णं सत्)+++ ज्ञान-विशिष्टेन +++(चेतनेन)+++ नियाम्यम् ।
द्वितीय-तृतीययोः प्रभा-व्यावृत्तिश् च ।
तृतीये तु एक-शब्देन गृहादि-व्यावृत्तिः।
शरीरत्व-प्रयुक्त-दोषम् आशङ्क्याह -
उपरितन इति ॥ 9 ॥
स्वपक्षदोषाच्च ॥ 2-1-10 ॥
न केवलं ब्रह्मकारणवादस्य …. अभ्युपगमेऽप्यर्थाभावात् इत्यादिना प्रपञ्चयिष्यते ॥ 10 ॥
स्वपक्षदोषाच्च । अनभ्युपगमात् - नित्यनिर्विकारत्वोपगमादित्यर्थः
॥ 10 ॥
तर्काप्रतिष्ठानादपि ॥ 2-1-11 ॥
सर्वस्याप्रतिष्ठितत्वादपि … … तर्काणामन्योन्यव्याघातात् तर्कस्याप्रतिष्ठितत्वं गम्यते ॥ 11 ॥
तर्काप्रतिष्ठानादपि । स्पष्टम् ॥ 11 ॥
अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ 2-1-12 ॥
इदानीं विद्यमानानां शाक्यादीनां … … वेदार्थविशदीकरण रूपवेदोपबृंहणतर्कोपादानाय सांख्यस्मृतिर्नादरणीया ॥ 12 ॥
अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः । भूतस्य भूतेनेव भाविनो भाविना तर्कान्तरेण प्रतिहतिः संभवतीत्यर्थः । वेदशास्त्र शब्दवैयधिकरण्येन सांख्यानुमतिशङ्काव्युदासायाह - वेदाख्य इति । वेदश्चक्षुः सनातनम् … … वेदशास्त्रमिति स्थितिः इति प्रकरणात् ॥ 12 ॥
इति विलक्षणत्वाधिकरणम् - 3