विश्वास-प्रस्तुतिः
एतेन योगः प्रत्युक्तः ॥ 2-1-3 ॥
Thibaut
- Hereby the Yoga is refuted.
मूलम्
एतेन योगः प्रत्युक्तः ॥ 2-1-3 ॥
विश्वास-प्रस्तुतिः
एतेन कापिल-स्मृति-निराकरणेन
योग-स्मृतिर् अपि प्रत्युक्ता ।
Thibaut
By the above refutation of Kapila’s Smr̥ti the Yoga-smr̥ti also is refuted.
मूलम्
एतेन कापिलस्मृतिनिराकरणेन योगस्मृतिरपि प्रत्युक्ता ।
विश्वास-प्रस्तुतिः
का पुनर् अत्राधिका शङ्का
यन्-निराकरणाय +++(सूत्रान्तर-रूपेण)+++ न्यायातिदेशः?
योग-स्मृताव् अपीश्वराभ्युपगमान् मोक्ष-साधनतया
वेदान्त-विहित-योगस्य चाभिधानात्
वक्तुर् हिरण्य-गर्भस्य सर्व-वेदान्त-प्रवर्तनाधिकृतत्वाच् च
तत्-स्मृत्या वेदान्तोपबृंहणं न्याय्यम्
इति ।
Thibaut
–But a question arises, What further doubt arises here with regard to the Yoga system,
so as to render needful the formal extension to the Yoga of the arguments previously set forth against the Sānkhya?–
It might appear, we reply, that the Vedānta should be supported by the Yoga-smr̥ti,
firstly, because the latter admits the existence of a Lord;
secondly, because the Vedānta-texts mention Yoga as a means to bring about final Release;
and thirdly, because Hiraṇyagarbha, who proclaimed the Yoga-smr̥ti is qualified for the promulgation of all Vedānta-texts.
मूलम्
का पुनरत्राधिकाशङ्का, यन्निराकरणाय न्यायातिदेशः, योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानात् वक्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यमिति ।
श्रुत-प्रदीपिका
एतेन योगः प्रत्युक्तः ।
अक्षरार्थम् उक्त्वा
शङ्कायां तात्पर्यार्थमाह योग इति ।
विश्वास-प्रस्तुतिः
परिहारस् तु-
अ-ब्रह्मात्मक–प्रधान-कारण-वादान्,
निमित्त-कारण-मात्रेश्वराभ्युपगमात्,
ध्यानात्मकस्य योगस्य
ध्येयैक-निरूपणीयस्य
ध्येय-भूतयोर् आत्मेश्वरयोर् ब्रह्मात्मकत्व–जगद्-उपादानतादि–
सर्व-कल्याण-गुणात्मकत्व–विरहेणावैदिकत्वाद्
वक्तुर् हिरण्य-गर्भस्यापि
क्षेत्र-ज्ञ-भूतस्य कदाचिद् रजस्-तमोऽभिभव-सम्भवाच् च
योग-स्मृतिर् अपि
तत्-प्रणीत–रजस्-तमो-मूल–
पुराणवद्-भ्रान्ति-मूलेति
न तया वेदान्तोपबृंहणं न्याय्यम् इति ॥
Thibaut
–But these arguments refute themselves as follows.
In the first place the Yoga holds the Pradhāna,
which is independent of Brahman,
to be the general material cause,
and hence the Lord acknowledged by it is a mere operative cause.
In the second place the nature of meditation,
in which Yoga consists,
is determined by the nature of the object of meditation, and as of its two objects, viz. the soul and the Lord,
the former does not have its Self in Brahman,
and the latter is neither the cause of the world
nor endowed with the other auspicious qualities (which belong to Brahman),
the Yoga is not of Vedic character.
And as to the third point,
Hiraṇyagarbha himself is only an individual soul,
and hence liable to be overpowered by the inferior guṇas, i.e. passion and darkness;
and hence the Yoga-smr̥ti is founded on error,
no less than the Purāṇas, promulgated by him,
which are founded on rajas and tamas.
The Yoga cannot, therefore, be used for the support of the Vedānta.
मूलम्
परिहारस्तु- अब्रह्मात्मकप्रधानकारणवादान्निमित्तकारणमात्रेश्वराभ्युपगमात् ध्यानात्मकस्य योगस्य ध्येयैकनिरूपणीयस्य ध्येयभूतयोरात्मेश्वरयोर्ब्रह्मात्मकत्वजगदुपादानतादिसर्वकल्याणगुणात्मकत्वविरहेणावैदिकत्वाद्वक्तुर्हिरण्यगर्भस्यापि क्षेत्रज्ञभूतस्य कदाचिद्रजस्तमोऽभिभवसम्भवाच्च योगस्मृतिरपि तत्प्रणीतरजस्तमोमूलपुराणवद्भ्रान्तिमूलेति न तया वेदान्तोपबृंहणं न्याय्यमिति ॥
श्रुत-प्रदीपिका
अब्रह्मात्मक इति । तत्त्व-वैषम्यम् उक्तम् । ध्यानात्मकस्य इत्य् अनुष्ठानवैषम्यम्
॥ 3 ॥
विश्वास-प्रस्तुतिः
इति योगप्रत्युक्त्यधिकरणम् -2
Thibaut
–Here finishes the adhikaraṇa of ’the refutation of the Yoga.'
मूलम्
इति योगप्रत्युक्त्यधिकरणम् -2