०१ स्मृत्यधिकरणम्

विश्वास-प्रस्तुतिः

+++(एकदेश-)+++स्मृत्य्-अनवकाश-दोष-प्रसङ्ग

इति चेन् न -
+++(तद्-इतर-)+++अन्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात् ॥ 2-1-1 ॥

Thibaut

\1. If it be said that there would result the fault of there being no room for (certain) Smr̥tis:
(we reply) ’no,’ because there would result the fault of want of room for other Smr̥tis.

मूलम्

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ 2-1-1 ॥

पूर्वपक्षः

विश्वास-प्रस्तुतिः

प्रथमं तावत् +++(साङ्ख्याख्य-)+++कपिल-स्मृति-विरोधाद् वेदान्तानाम्,
अ-तत्+++(→प्रथमाध्यायोक्त)+++-परत्वम् आशङ्क्य
तन् निराक्रियते ।

Thibaut

The Sūtrakāra at first turns against those who maintain that
the Vedanta-texts do not establish the view indicated above,
on the ground of that view being contradicted by the Smr̥ti of Kapila, i. e. the Sānkhya-system.

मूलम्

प्रथमं तावत् कपिलस्मृतिविरोधाद्वेदान्तानां अतत्परत्वमाशङ्क्य तन्निराक्रियते ।

श्रुत-प्रदीपिका

द्वितीयाद्य-प्रतिपाद्यमाह - प्रथमम् इति ।

विश्वास-प्रस्तुतिः

कथं स्मृति-विरोधाच्
छ्रुतेर् +++(स्मृति-विशेषापेक्षया)+++ अन्य-परत्वम् ?
उक्तं हि “विरोधे त्व् अनपेक्ष्यं स्यात्”
इति श्रुति-विरुद्धायाः स्मृतेर् अनादरणीयत्वम् ।

Thibaut

But how can it be maintained at all that
Scripture does not set forth a certain view
because thereby it would enter into conflict with Smr̥ti?
For that Smr̥ti if contradicted by Scripture is to be held of no account, is already settled in the Pūrva Mīmāṁsā (‘But where there is contradiction Smr̥ti is not to be regarded,’ I, 3, 3).

मूलम्

कथं स्मृतिविरोधाच्छ्रुतेरन्यपरत्वम् ?
उक्तं हि “विरोधे त्वनपेक्ष्यं स्यात्”
इति श्रुतिविरुद्धायाः स्मृतेरनादरणीयत्वम् ।

श्रुत-प्रदीपिका

उत्थानम् आक्षिपति कथम् इति।

विश्वास-प्रस्तुतिः

सत्यम्, “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इत्य्-आदिषु
स्वत एवार्थ-निश्चय-सम्भवात्
तद्-विरुद्धा स्मृतिर् अनादरणीयैव।

Thibaut

–Where, we reply, a matter can be definitely settled on the basis of Scripture–as e.g. in the case of the Vedic injunction, ‘he is to sing, after having touched the Uḍumbara branch’ (which clearly contradicts the Smr̥ti injunction that the whole branch is to be covered up)–Smr̥ti indeed need not be regarded.

मूलम्

सत्यम्, “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इत्यादिषु स्वत एवार्थनिश्चयसम्भवात् तद्विरुद्धा स्मृतिरनादरणीयैव;

श्रुत-प्रदीपिका

परिहरति - सत्यम् इति ।
औदुम्बर्यादिवाक्येषु श्रुतिन्यायानपेक्षं श्रुत्यर्थस्य निश्चित्वात् तद्विरुद्धस्मृस्यनादरो युक्तः ।

विश्वास-प्रस्तुतिः

इह तु वेदान्त-वेद्य-तत्त्वस्य दुर्-अवबोधत्वेन
परम-र्षि-प्रणीत-स्मृति-विरोधे सति
“अयम् अर्थ” इति निश्चयात्
योगास्मृत्या श्रुतेर् अ-तत्-परत्वोपपादनम् अ-विरुद्धम् ।

Thibaut

But the topic with which the Vedānta-texts are concerned is hard to understand,
and hence, when a conflict arises between those texts and a Smr̥ti propounded by some great R̥shi,
the matter does not admit of immediate decisive settlement:
it is not therefore unreasonable to undertake to prove by Smr̥ti
that Scripture does not set forth a certain doctrine.

मूलम्

इह तु वेदान्तवेद्यतत्त्वस्य दुरवबोधत्वेन परमर्षिप्रणीतस्मृतिविरोधे सति अयमर्थ इति निश्चयात् योगास्मृत्या श्रुतेरतत्परत्वोपपादनमविरुद्धम् ।

श्रुत-प्रदीपिका

इह तु श्रुतिवैविध्यात्
श्रुत्यर्थे संशय्यमाने ,
तद्विरोघेन स्मृति-त्यागायोगात्
विचारो युक्त इत्यर्थः ॥

विश्वास-प्रस्तुतिः

एतद् उक्तं भवति -

प्राचीन-भागोदित–निखिलाभ्युदय-साधन-भूत-
+अग्नि-होत्र–दर्श-पूर्ण-मास–ज्योतिष्टोमादि-कर्माणि
यथावद् अभ्युपगच्छता

श्रुति-स्मृतीतिहास-पुराणेषु
“ऋषिं प्रसूतं कपिलम्” इत्य्-आदि-वाक्यैर्
आप्तत्वेन सङ्कीर्तितेन परम-र्षिणा कपिलेन

परम-निःश्रेयस–तत्-साधनावबोधित्वेन +उपनिबद्ध-स्मृत्य्-उपबृंहणेन विना
अल्प-श्रुतैर् मन्द-मतिभिः वेदान्तार्थ-निश्चयायोगात्

यथा-श्रुतार्थ-ग्रहणे चाप्त-प्रणीतायास् साङ्ख्य-स्मृतेः सकलाया एव अनवकाश-प्रसङ्गाच् च

“स्मृति-प्रसिद्ध एवार्थो वेदान्त-वेद्य”
इति बलाद् अभ्युपगमनीयम्

इति ।

Thibaut

That is to say–
we possess a Smr̥ti composed with a view to teach men the nature and means of supreme happiness,
by the great R̥shi Kapila
to whom Scripture, Smr̥ti, Itihāsa and Purāṇa alike
refer as a person worthy of all respect (compare e. g. ’the R̥shi Kapila,’ Śvet. Up. V, 2),
and who moreover (unlike Br̥haspati and other Smr̥ti–writers) fully acknowledges the validity of all the means of earthly happiness
which are set forth in the karmakāṇda of the Veda,
such as the daily oblations to the sacred fires, the New and Full Moon offerings and the great Soma sacrifices.
Now, as men having only an imperfect knowledge of the Veda,
and moreover naturally slow-minded,
can hardly ascertain the sense of the Vedānta-texts
without the assistance of such a Smr̥ti,
and as to be satisfied with that sense of the Vedānta which discloses itself on a mere superficial study of the text
would imply the admission that the whole Sānkhya Smr̥ti,
although composed by an able and trustworthy person,
really is useless;
we see ourselves driven to acknowledge that the doctrine of the Vedānta-texts
cannot differ from the one established by the Sānkhyas.

मूलम्

एतदुक्तं भवति - प्राचीनभागोदितनिखिलाभ्युदयसाधनभूताग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्माणि यथावदभ्युपगच्छता श्रुतिस्मृतीतिहासपुराणेषु “ऋषिं प्रसूतं कपिलम्” इत्यादिवाक्यैराप्तत्वेन सङ्कीर्तितेन परमर्षिणा कपिलेन परमनिःश्रेयसतत्साधनावबोधित्वेन उपनिबद्धस्मृत्युपबृंहणेन विना अल्पश्रुतैर्मन्दमतिभिः वेदान्तार्थनिश्चयायोगात् यथाश्रुतार्थग्रहणे चाप्तप्रणीतायास्साङ्ख्यस्मृतेः सकलाया एव अनवकाशप्रसङ्गाच्च स्मृतिप्रसिद्ध एवार्थो वेदान्तवेद्य इति बलादभ्युपगमनीयमिति ।

श्रुत-प्रदीपिका

कपिलस्य महर्षित्वे किं मानम् ?
सत्यपि तस्मिन् बृहस्पत्य्-आद्य्-उक्त-लोकायतादिवत् किं न स्यात् ?
उक्त-प्राथमिक-न्यायतो निर्णीतत्वात्
न च स्मृत्य्-अपेक्षेत्य्-अत्राह - एतदुक्तम् इति ।

अभ्युपगच्छता इत्य्-अन्तेन लोकायतादि-व्यावृत्तिर् उक्ता । ऋषिम् इति मानोक्तिः ।
स्मृत्युपबृंहणम् स्मृतिरूपोबृंहणम् ।
अल्पश्रुतैः इत्यादिना तदपेक्षा दर्शिता ।
न च न्यायतः स्मृत्य्-अनपेक्षता ,
“वचन-विरोधे न्याय-दौर्बल्याद्” इति भावः ।
सकलायाः इति मन्वादिस्मृतिव्यावृत्तिः -
तासां सावकाशत्वात् ।
अस्याश् चाप्त-प्रणीताया अनवकाशत्वम् अयुक्तम् ।

विश्वास-प्रस्तुतिः

न च वाच्यं -

मन्वादि-स्मृतीनां ब्रह्मैक-कारणत्व-वादिनीनाम्
एवं सत्य् अनवकाशत्व-दोषप्रसङ्ग

इति;
धर्म-प्रतिपादन-पर–प्राचीन-भागोपबृंहण एव सावकाशत्वात् ।

Thibaut

Nor must you object that to do so would force on us another unacceptable conclusion, viz. that those Smr̥tis, that of Manu e.g.,
which maintain Brahman to be the universal cause, are destitute of authority;
for Manu and similar works inculcate practical religious duty
and thus have at any rate the uncontested function of supporting the teaching of the karmakāṇda of the Veda.

मूलम्

न च वाच्यं मन्वादिस्मृतीनां ब्रह्मैककारणत्ववादिनीनामेवं सत्यनवकाशत्वदोषप्रसङ्ग इति; धर्मप्रतिपादनपरप्राचीनभागोपबृंहण एव सावकाशत्वात् ।

विश्वास-प्रस्तुतिः

अस्यास् तु कृत्स्नायास्
तत्त्व-प्रतिपादन-परत्वात्
तथा ऽन्-अभ्युपगमे निरवकाशत्वम् एव स्यात् ।

Thibaut

The Sānkhya Smr̥ti, on the other hand, is entirely devoted to the setting forth of theoretical truth (not of practical duty), and if it is not accepted in that quality, it is of no use whatsoever.–

मूलम्

अस्यास्तु कृत्स्नायास्तत्त्वप्रतिपादनपरत्वात्तथानभ्युपगमे निरवकाशत्वमेव स्यात् ।

विश्वास-प्रस्तुतिः

तद् इदम् आशङ्कते -

“स्मृत्य्-अनवकाश-दोष-प्रसङ्ग” इति चेद्

इति ।

Thibaut

On this ground the Sūtra sets forth the primā facie view,

‘If it be said that there results the fault of there being no room for certain Smr̥tis.’

मूलम्

तदिदमाशङ्कते - स्मृत्यनवकाशदोषप्रसङ्ग इति चेदिति ।

श्रुत-प्रदीपिका

पूर्वपक्षस्यानुत्सूत्रत्वम् आह - तदिदम् इति ॥

सिद्धान्तः

विश्वास-प्रस्तुतिः

तत्रोत्तरम्-

नान्य-स्मृत्य्–अन्-अवकाश-दोष-प्रसङ्गाद्

इति ।

Thibaut

The same Sūtra replies

’no; because there would result the fault of want of room for other Smr̥tis.’

मूलम्

तत्रोत्तरम्- नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति ।

श्रुत-प्रदीपिका

परिहार-खण्डम् अवतारयति - तत्रोत्तरम् इति ।

विश्वास-प्रस्तुतिः

अन्या हि मन्व्-आदि-स्मृतयो
ब्रह्मैक-कारणतां वदन्ति;
यथाह मनुः - “आसीदिदं तमोभूतम्” इत्य्-आरभ्य

(आसीद् इदं तमोभूतम्
अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं
प्रसुप्तम् इव सर्वतः ॥ १.५ ॥
)

“ततः स्वयम्-भूर् भगवान्
अव्यक्तो व्यञ्जयन्न् इदम् ।
महाभूतादि वृत्तौजाः
प्रादुरासीत् तमोनुदः”

“सो ऽभिध्याय शरीरात् स्वात्
सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ
तासु वीर्यम् अपासृजत्

इति ।

Thibaut

For other Smr̥tis, that of Manu e.g., teach that Brahman is the universal cause. Thus Manu says,

‘This (world) existed in the shape of darkness, and so on.
Then the divine Self existent, indiscernible but making discernible all this, the great elements and the rest, appeared with irresistible power, dispelling the darkness.

He, desiring to produce beings of many kinds from his own body, first with a thought created the waters, and placed his seed in them’ (Manu I, 5-8).

मूलम्

अन्या हि मन्वादिस्मृतयो ब्रह्मैककारणतां वदन्ति; यथाह मनुः - “आसीदिदं तमोभूतम्” इत्यारभ्य “ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः” “सोऽभिध्याय शरीरात्स्वात् सिसृक्षुविर्विधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत्"इति ।

श्रुत-प्रदीपिका

सर्व-कर्माराध्यत्वाय
कार्य-भूत–सर्व-देवतात्मत्व-सिद्धये
परम-कारणत्वं वक्तुं
सृष्टेः पूर्वत्वात्
प्रलय-दशासु बाल-श्रुत्य्-अनुसारेणोच्यते - आसीत् इति ।

इदं - जगत् , तमोभूतम् तमोवस्थम् आसीत् ;
अग्न्यवस्थे च सलिले इतिवत् ।
अप्रज्ञातम् प्रकृष्ट-रूप-प्रत्यक्ष-ज्ञानागोचरः ।
कुतः ? अलक्षणम् ; शब्दस्पर्शरूपादिलक्षणरहितत्वादित्यर्थः ।

कार्य-गुण-सिद्ध्य्-अर्थं
कारणेनापि विशेष-गुणवता भाव्यम् इत्य्-अत्राह -
अप्रतर्क्यम् - तर्कागोचरः ।
अविज्ञेयम् - विभज्य ज्ञातुम् अशक्यम् ।
तम एकी-भवति इत्य्-उक्ताविभक्तावस्थम् इत्यर्थः ॥

स्वरूपैक्य-शङ्कां व्युदस्यति प्रसुप्तम् इव
सुषुप्ताव् इव पृथग्-व्यवहारान् नर्हाति सूक्ष्मावस्थापन्नम् ।
स्वापाद्वैषम्यमाह - सर्वतः इति ।
ततः - सर्गकाले प्राप्ते ।
स्वयंभूः इति कारणान्तरवत्त्वव्युदासः । भगवान् इति । सृष्ट्य्-उपयोगि-गुण-पौष्कल्य-देवता-विशेषोक्तिः योग-रूढिभ्याम् ।
इदं - व्यष्टि कार्यं व्यञ्जयितुम्
{महा-भूतानाम् आदिभूत}-महद्-अहङ्कार–विषय-प्रवृत्त-स्वसङ्कल्प-रूप-ज्ञानः
तद्-अर्थं तमः प्रेरयन्
अव्यक्तावस्थ-प्रकृति-शरीरकः
प्रादुरासीत्
अक्षरावस्थाऽप्य् अर्थ-सिद्धा ॥

स्व-रूप-परिणाम-निबन्धन–
निर्दोषत्वादि-विरोध-शङ्काव्-युदासायाह - शरीरात् स्वात् इति ।
अप्-शब्दो ऽण्ड-कारण-तत्त्व-प्रदर्शनार्थः ।
महा-भूतादि-वृत्तौजाः इत्युक्तत्वात् ।
वीर्यम् - त्रिवृत्-करण-जनिताम् अण्डोत्पादन-शक्तिं ;
तद्-अभावे नाशक्नुवन् प्रजाः स्रष्टुम्
इति ह्युक्तम् ।
“आसीद् इदम्” इत्यादि-सप्त-श्लोक्य् अनुसन्धेया ।

विश्वास-प्रस्तुतिः

भगवद्गीतासु च

“अहं कृत्स्नस्य जगतः
प्रभवः प्रलयस्तथा”

“अहं सर्वस्य प्रभवो
मत्तस् सर्वं प्रवर्तते”

इति च ।

Thibaut

And the Bhagavad-gitā,

‘I am the origin and the dissolution of the whole Universe’ (VII, 6).

‘I am the origin of all; everything proceeds from me’ (X, 8).

मूलम्

भगवद्गीतासु च “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा” “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते” इति च ।

श्रुत-प्रदीपिका

“अहं कृत्स्नस्य” इत्यादि स्फुटम् ॥

विश्वास-प्रस्तुतिः

महाभारते

“कुतः सृष्टम् इदं सर्वं
जगत् स्थावर-जङ्गमम् ।
प्रलये च कम् अभ्येति
तन् मे ब्रूहि पितामह”

इति पृष्ट आह

“नारायणो जगन्-मूर्तिर्
अनन्तात्मा सनातनः”

इति । तथा

“तस्माद् अव्यक्तम् उत्पन्नं
त्रिगुणं द्विजसत्तम”

इति,

“अव्यक्तं पुरुषे ब्रह्मन्
निष्क्रिये सम्प्रलीयते”

इति च ।

Thibaut

Similarly, in the Mahābhārata, to the question

‘Whence was created this whole world with its movable and immovable beings?’

the answer is given,

‘Nārāyaṇa assumes the form of the world,
he the infinite, eternal one’;

and

‘from him there originates the Unevolved
consisting of the three guṇas’;

and

’the Unevolved is merged in the non-acting Person.’

मूलम्

महाभारते “कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् । प्रलये च कमभ्येति तन्मे ब्रूहि पितामह” इति पृष्ट आह “नारायणो जगन्मूर्तिरनन्तात्मा सनातनः” इति । तथा “तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम” इति, “अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते” इति च ।

विश्वास-प्रस्तुतिः

आह च भगवान् पराशरः

“विष्णोस् सकाशाद् उद्भूतं
जगत्तत्रैव च स्थितम्,
स्थिति-संयमकर्ता ऽसौ
जगतोऽस्य जगच् च सः”

इति ।

Thibaut

And Parāśara says,

‘From Vishṇu there sprang the world
and in him it abides;
he makes this world persist
and he rules it–
he is the world.’

मूलम्

आह च भगवान्पराशरः “विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम्, स्थिति-संयमकर्ता ऽसौ जगतोऽस्य जगच्च सः” इति ।

विश्वास-प्रस्तुतिः

आह चापस्तम्बः

“पूः प्राणिनः सर्व एव
गुहाशयस्य अ-हन्यमानस्य विकल्मषस्य”

इत्य्-आरभ्य

“तस्मात् कायाः प्रभवन्ति सर्वे
स मूलं शाश्वतिकस् स नित्यः”

इति ।

Thibaut

Thus also Āpastamba,

‘The living beings are the dwelling of him
who lies in all caves,
who is not killed,
who is spotless’;

and

‘From him spring all bodies;
he is the primary cause, he is eternal, permanent.’
(Dharmasū. I, 8, 22, 4; 23, 2).–

मूलम्

आह चापस्तम्बः “पूः प्राणिनः सर्व एवगुहाशयस्य अहन्यमानस्य विकल्मषस्य” इत्यारभ्य “तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकस्स नित्यः” इति ।

विश्वास-प्रस्तुतिः

यदि कपिल-स्मृत्या वेदान्त-वाक्यार्थ-व्यवस्था स्यात्,
तदैतासां सर्वासां स्मृतीनाम्
अन्-अवकाशत्व-रूपो महान् दोषः प्रसज्येत ।

Thibaut

If the question as to the meaning of the Vedānta-texts were to be settled by means of Kapila’s Smr̥ti, we should have to accept the extremely undesirable conclusion that all the Smr̥tis quoted are of no authority.

मूलम्

यदि कपिलस्मृत्या वेदान्तवाक्यार्थव्यवस्था स्यात्, तदैतासां सर्वासां स्मृतीनामनवकाशत्वरूपो महान् दोषः प्रसज्येत ।

विश्वास-प्रस्तुतिः

अयम् अर्थः-

यद्य् अपि वेदान्त-वाक्यानाम्
अतिक्रान्त–प्रत्यक्षादि-सकलेतर-प्रमाण–
सम्भावना-भूमि-
भूतार्थ+++(=सिद्धार्थ)+++-प्रतिपादन-परत्वात्

तत्-तद्-अर्थ-वैशद्याय
अल्प-श्रुतानां तद्-अर्थानुसारिणीनाम्
+++(आप्त-मात्र-कपिलापेक्षया)+++ आप्ततम-प्रणीतानां बह्वीनां स्मृतीनां
तद्-उपबृंहणाय प्रवृत्तानाम्
अन्-अवकाशत्वं मा प्रसाङ्क्षीद्

इति श्रुति-विरुद्धार्था कपिल-स्मृतिर् उपेक्षणीया

Thibaut

It is true that
the Vedānta-texts are concerned with theoretical truth
lying outside the sphere of Perception and the other means of knowledge,
and that hence students possessing only a limited knowledge of the Veda
require some help in order fully to make out the meaning of the Vedānta.
But what must be avoided in this case
is to give any opening for the conclusion that
the very numerous Smr̥tis which closely follow the doctrine of the Vedānta,
are composed by the most competent and trustworthy persons
and aim at supporting that doctrine, are irrelevant;

and it is for this reason that Kapila’s Smr̥ti which contains a doctrine opposed to Scripture must be disregarded.

मूलम्

अयमर्थः- यद्यपि वेदान्तवाक्यानाम् अतिक्रान्तप्रत्यक्षादिसकलेतरप्रमाणसम्भावनाभूमिभूतार्थप्रतिपादनपरत्वात् तत्तदर्थवैशद्यायाल्पश्रुतानां तदर्थानुसारिणीनामाप्ततमप्रणीतानां बह्वीनां स्मृतीनां तदुपबृंहणाय प्रवृत्तानामनवकाशत्वं मा प्रसाङ्क्षीदिति श्रुतिविरुद्धार्था कपिलस्मृतिरुपेक्षणीया ।

श्रुत-प्रदीपिका

मन्व्-आदिस्मृतयः सावकाशाः , कपिलश्चाप्तः । उपबृंहणं चापेक्षितम् इत्य् उक्तम् ।
कथं तत्-स्मृतिं हित्वा
स्मृत्य्-अन्तरम् आदीयत इत्य्-अत्राह -
अयम् अर्थ” इति ।

भूतार्थ इति । सिद्धार्थ इत्यर्थः ।
कार्य-रूपार्थ इव विकल्पो दुर्वच इति अन्यतम-त्यागो ऽवश्यंभावीति भावः ।

आप्ततम-शब्देन यथावद्-दर्शन-सहित–यथा-दृष्ट-वादित्वं विवक्षितम् ।
कपिलस्य ऋषित्वम् एव । अत्र आप्तिमात्रम् ।
“यद्वै मनुरवदत् तद्भेषजम्” इत्य्
उभयं मन्वादीनाम् अस्ति इति आप्ततमम्

“प्रणीताः बह्व्यः न्यायोपेताश्च” इति वैषम्य-त्रयम्+++(=??)+++ उक्तम् ।

विश्वास-प्रस्तुतिः

उपबृंहणं च श्रुति-प्रतिपन्नार्थ-विशदी-करणम्;
तच् च विरुद्धार्थया स्मृत्या
न शक्यते कर्तुम् ।

Thibaut

The support required is elucidation of the sense conveyed by Scripture, and this clearly cannot be effected by means of a Smr̥ti contradicting Scripture.

मूलम्

उपबृंहणं च श्रुतिप्रतिपन्नार्थविशदीकरणम्; तच्च विरुद्धार्थया स्मृत्या न शक्यते कर्तुम् ।

श्रुत-प्रदीपिका

हेत्वन्तरं चाह - उपबृंहणं च इति ॥

विश्वास-प्रस्तुतिः

न चैतासां स्मृतीनां
प्राचीन-भागोदित-धर्मांश–विशदी-करणेन सावकाशत्वम्;
पर-ब्रह्म-भूत–परम-पुरुषाराधनत्वेन धर्मान् विदधतीनाम् एतासाम्
आराध्य-भूत–परम-पुरुष-प्रतिपादनाभावे सति
तद्-आराधन-भूत–धर्म-प्रतिपादनासम्भवात् ।+++(5)+++

Thibaut

Nor is it of any avail to plead, as the Pūrvapakshin does, that Manu and other Smr̥tis of the same kind fulfil in any case the function of elucidating the acts of religious duty enjoined in the karmakāṇda.
For if they enjoin acts of religious duty as means to win the favour of the Supreme Person
but do not impress upon us the idea of that Supreme Person himself who is to be pleased by those acts,
they are also not capable of impressing upon us the idea of those acts themselves.

मूलम्

न चैतासां स्मृतीनां प्राचीनभागोदितधर्मांशविशदीकरणेन सावकाशत्वम्; परब्रह्मभूतपरमपुरुषाराधनत्वेन धर्मान्विदधतीनामेतासामाराध्य भूतपरमपुरुषप्रतिपादनाभावे सति तदाराधनभूतधर्मप्रतिपादनासम्भवात् ।

श्रुत-प्रदीपिका

न च इत्यादि स्फुटम् ।

विश्वास-प्रस्तुतिः

तथा हि
परम-पुरुषाराधन-रूपता
सर्वेषां कर्मणां स्मर्यते

Thibaut

That it is the character of all religious acts to win the favour of the Supreme Spirit, Smr̥ti distinctly declares,

मूलम्

तथा हि परमपुरुषाराधनरूपता सर्वेषां कर्मणां स्मर्यते

विश्वास-प्रस्तुतिः

“यतः प्रवृत्तिर् भूतानां
येन सर्वम् इदं ततम् ।
स्वकर्मणा तम् अभ्यर्च्य
सिद्धिं विन्दति मानवः”+++(5)+++

Thibaut

‘Man attains to perfection by worshipping with his proper action Him from whom all Beings proceed; and by whom all this is stretched out’ (Bha. Gī. XVIII, 46);

मूलम्

“यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः”

विश्वास-प्रस्तुतिः

“ध्यायेन् नारायणं देवं
स्नानादिषु च कर्मसु ।
ब्रह्मलोकम् अवाप्नोति
न चेहावर्तते पुनः” +++(5)+++

Thibaut

‘Let a man meditate on Nārāyaṇa, the divine one, at all works, such as bathing and the like; he will then reach the world of Brahman and not return hither’ (Daksha-smr̥ti);

मूलम्

“ध्यायेन्नारायणं देवं स्नानादिषु च कर्मसु ।
ब्रह्मलोकमवाप्नोति न चेहावर्तते पुनः”

विश्वास-प्रस्तुतिः

“यैस् स्व-कर्म-परैर् नाथ
नरैर् आराधितो भवान् ।
ते तरन्त्य् अखिलाम् एतां
मायाम् आत्म-विमुक्तये”

Thibaut

and ‘Those men with whom, intent on their duties, thou art pleased, O Lord, they pass beyond all this Māya and find Release for their souls’ (Vi. Pu.).

मूलम्

“यैस्स्वकर्मपरैर्नाथ नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये”

विश्वास-प्रस्तुतिः

न चैहिकामुष्मिक-सांसारिक-फल–साधन-कर्म-प्रतिपादनेन
तासां सावकाशत्वम्;
यतस् तेषाम् अपि कर्मणां
परम-पुरुषाराधनत्वम् एव स्वरूपम्;

Thibaut

Nor can it be said that Manu and similar Smr̥tis have a function in so far as setting forth works (not aiming at final Release but) bringing about certain results included in transmigratory existence, whether here on earth or in a heavenly world; for the essential character of those works also is to please the highest Person.

मूलम्

न चैहिकामुष्मिकसांसारिकफलसाधनकर्मप्रतिपादनेनतासां सावकाशत्वम्; यतस्तेषामपि कर्मणां परमपुरुषाराधनत्वमेव स्वरूपम्;

श्रुत-प्रदीपिका

विद्याङ्ग-कर्मणां हि भगवद्-आराधन-रूपत्वं ,
स्वर्गादि-फलानां तु
तद्-अभावात् आराध्य-भूत-ब्रह्मणि न तात्पर्यम्
इत्य्-अत्राह न चैहिक इति । स्पष्टम् ॥

विश्वास-प्रस्तुतिः

यथोक्तं

“येऽप्यन्यदेवताभक्ता
यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय
यजन्त्यविधिपूर्वकम् ।
अहं हि सर्वयज्ञानां
भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति
तत्त्वेनातश् च्यवन्ति ते”

इति;

Thibaut

As is said in the Bhagavad-gītā (IX, 23, 24); ‘Even they who devoted to other gods worship them with faith, worship me, against ordinance. For I am the enjoyer and the Lord of all sacrifices; but they know me not in truth and hence they fall,’

मूलम्

यथोक्तं “येऽप्यन्यदेवताभक्तता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्तिते” इति;

विश्वास-प्रस्तुतिः

तथा

“यज्ञैस् त्वम् इज्यसे नित्यं
सर्व-देवमयाच्युत ।
हव्य-कव्य-भुग् एकस् त्वं
पितृ-देव–स्व-रूप-धृक्”

इति ।

Thibaut

and ‘Thou art ever worshipped by me with sacrifices; thou alone, bearing the form of pitr̥s and of gods, enjoyest all the offerings made to either.’

मूलम्

तथा “यज्ञैस्त्वमिज्यसे नित्यं सर्वदेवमयाच्युत । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्” इति ।

विश्वास-प्रस्तुतिः

यद् उक्तं

“ऋषिं प्रसूतं कपिलम्”
इति कपिलस्याप्ततया सङ्कीर्तनात्
तत्-स्मृत्य्-अनुसारेण
वेदान्तार्थ-व्यवस्थापनं न्याय्यम्

इति;
तद् असत्,

बृहस्-पतेः श्रुति-स्मृतिषु
सर्वेषाम् अतिशयित-ज्ञानानां निदर्शनत्वेन सङ्कीर्तनात्
तत्-प्रणीतेन लोकायतेन
श्रुत्य्-अर्थ-व्यवस्थापन-प्रसक्तेर्

इति ।

Thibaut

Nor finally can we admit the contention that it is rational to interpret the Vedánta-texts in accordance with Kapila’s Smr̥ti because Kapila, in the Śvetāśvatara text, is referred to as a competent person. For from this it would follow that, as Br̥haspati is, in Śruti and Smr̥ti, mentioned as a pattern of consummate wisdom, Scripture should be interpreted in agreement with the openly materialistic and atheistic Smr̥ti composed by that authority.

मूलम्

यदुक्तं “ऋषिं प्रसूतं कपिलम्” इति कपिलस्याप्ततया सङ्कीर्तनात्तत्स्मृत्यनुसारेण वेदान्तार्थव्यवस्तापनं न्याय्यमिति; तदसत्, बृहस्पतेः श्रुतिस्मृतिषु सर्वेषामतिशयितज्ञानानां निदर्शनत्वेन सङ्कीर्तनात्तत्प्रणीतेन लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसक्तेरिति ।

श्रुत-प्रदीपिका

यदुक्तम् इत्यादि । श्रुतिप्रामाण्याङ्गीकारेऽपि श्रुत्यर्थविरोधस्यानादरणीयत्वे प्रयोजकत्वात् तत् कापिललोकायतमतयोरविशिष्टमिति त्याज्यत्वमित्यर्थः ॥ 1 ॥

योगि-प्रत्यक्ष-निरासः

विश्वास-प्रस्तुतिः

अथ स्यात्,

कपिलस्य स्व-योग-महिम्ना वस्तु-याथात्म्योपलब्धेस्
तत्-स्मृत्य्-अनुसारेण वेदान्तार्थो व्यवस्थापयितव्य

इति; अत उत्तरं पठति -

Thibaut

But, it may here be said, the Vedānta-texts should after all be interpreted in agreement with Kapila’s Smr̥ti, for the reason that Kapila had through the power of his concentrated meditation (yoga) arrived at an insight into truth.–To this objection the next Sūtra replies.

मूलम्

अथ स्यात्, कपिलस्य स्वयोगमहिम्ना वस्तुयाथात्म्योपलब्धेस्तत्स्मृत्यनुसारेण वेदान्तार्थो व्यवस्थापयितव्य इति; अत उत्तरं पठति -

श्रुत-प्रदीपिका

उत्तरसूत्रशङ्कामाह - अथ स्यात् इति ।
मन्व्-आदीनां धर्म-प्रवर्तना ऽन्यपरत्वात्
न योगावसर इति भावः ।

विश्वास-प्रस्तुतिः

+++(मन्वादि-)+++इतरेषां चानुपलब्धेः +++(योगादि-साधनैः कपिल-स्मृत्यर्थस्य)+++ ॥ 2-1-2 ॥

Thibaut
  1. And on account of the non-perception (of truth on the part) of others.
मूलम्

इतरेषां चानुपलब्धेः ॥ 2-1-2 ॥

विश्वास-प्रस्तुतिः

-शब्दस् तु-शब्दार्थश्
चोदिताशङ्का-निवृत्त्यर्थः ।

Thibaut

The ‘and’ in the Sūtra has the force of ‘but,’ being meant to dispel the doubt raised.

मूलम्

चशब्दस्तुशब्दार्थश्चोदिताशङ्कानिवृत्त्यर्थः ।

विश्वास-प्रस्तुतिः

इतरेषाम्- मन्व्-आदीनां बहूनां
स्व-योग-महिम–साक्षात्-कृत–
परावर-तत्त्व-याथात्म्यानां

निखिल-जगद्–भेषज-भूत–स्व-वाक्यतया
“यद्वै किञ्चन मनुर् अवदत् तद् भेषजम्”
इति श्रुति-प्रसिद्धानां

कपिल-दृष्ट-प्रकारेण तत्त्वानुपलब्धेः
श्रुति-विरुद्धा कपिलोपलब्धिर् भ्रान्तिमूलेति
न तया यथोक्ता वेदान्तार्थश् चालयितुं शक्य

इति सिद्धम् ॥

Thibaut

There are many other authors of Smr̥tis, such as Manu, who through the power of their meditation had attained insight into the highest truth, and of whom it is known from Scripture that the purport of their teaching was a salutary medicine to the whole world (‘whatever Manu said that was medicine’). Now, as these R̥shis did not see truth in the way of Kapila, we conclude that Kapila’s view, which contradicts Scripture, is founded on error, and cannot therefore be used to modify the sense of the Vedānta-texts.

मूलम्

इतरेषाम्- मन्वादीनां बहूनां स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां निखिलजगद्भेषजभूतस्ववाक्यतया “यद्वै किञ्चन मनुरवदत्तद्भेषजम्” इति श्रुतिप्रसिद्धानां कपिलदृष्टप्रकारेण तत्त्वानुपलब्धेः श्रुतिविरुद्धाकपिलोपलब्धिर्भ्रान्तिमूलेति न तया यथोक्ता वेदान्तार्थश्चालयितुं शक्य इति सिद्धम् ॥ इति स्मृत्यधिकरणम् ॥

श्रुत-प्रदीपिका

इतरेषां चानुपलब्धेः ।
बहूनामुपलब्धिभिः एकोपलब्धेः भ्रान्तित्व-निश्चयः ।
धर्मानुष्ठान-परत्वं तु मनो-नैर्मल्य-हेतुर्
इति मन्व्-आद्य्-उपलब्धि-प्राबल्य-हेतुः ।
तद्-राहित्यं मनो-मालिन्यात् भ्रान्तित्वावहम् इत्य्-अर्थः ॥2 ॥

विश्वास-प्रस्तुतिः

इति स्मृत्यधिकरणम् ॥

Thibaut

–Here finishes the adhikaraṇa treating of ‘Smr̥ti.’

मूलम्

इति स्मृत्यधिकरणम् ॥