८ सर्वव्याख्यानाधिकरणम्

एतेन सर्वे व्याख्याता व्याख्याताः ॥ 1-4-29 ॥

एतेन - पादचतुष्टयोक्तन्यायकलापेन … …. व्याख्याताः इति पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ 29 ॥

इति सर्वव्याख्यानाधिकरणम् - 8

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये

प्रथमस्याध्यायस्य चतुर्थः पादः ॥

॥ समाप्तश्चाध्यायः ॥

एतेन सर्वे व्याख्याता व्याख्याताः । पूर्वाधिकरणशेषत्व व्युदासायाह - पाद इति ॥

इन्द्रादिसृष्टि हिरण्यगर्भरुद्रादीनां कारणत्वं संभवति इत्यधिकाशङ्का । तेषामपि

परमात्मसृज्यत्वसंहार्यत्वश्रवणाविशेषात् अथर्वशिरःप्रभृतयः तच्छरीरकपरमात्मपराः इति परिहारः पदाभ्यास प्रयोजनमाह - व्याख्याताः इति

॥ 29 ॥

इति सर्वव्याख्यानाधिकरणम् -8

इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्ध

वेदव्यासापरनामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत

श्रीभगवद्रामानुजविरचितशारीरकमीमांसाभाष्यहृदयेन

श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रदीपिकायां

**प्रथमस्याध्यायस्य चतुर्थः पादः ॥ **

**॥ समाप्तश्चाध्यायः ॥ **

————— ————–