प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ 1-4-23 ॥
एवं निरीश्वरसांख्ये निरस्ते सति सेश्वरसांख्यः … … नोपादानम् । उपादानं तु तदधिष्ठितं प्रधानमेव इति ॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । सङ्गतिमाह - एवम् इति । श्रुत्यर्थापत्तिमाह - एवमश्रुतेऽपि इति । श्रुतेरनुग्राहकतर्कमाह एवमेव इति । वैजात्येऽपि वृश्चिको गोमयं वा वृश्चिकोपादानं , तथा प्रकृतिर्वा ईश्वरो वा जगदुपादानं स्यात् , एकैकस्य कारणत्वश्रुतेरित्यत्राह कार्यनिष्पत्तिश्च इति । श्रुतिप्रतिपन्नं कथं त्याज्यमित्यत्राह - एवमिति । तर्कानुगृहीतवाक्यमितरस्मात् प्रबलम् । इतरत् तु यूपादित्यैक्यवाक्यवत् इत्यर्थः ॥
सिद्धान्तः
एवं प्राप्तेऽभिधीयते - प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् इति । … …. विकारजननीमज्ञाम् अजामेकाम् इत्यादिभिरभिधीयते इति ॥
राद्धान्ते प्रधानस्वभावव्यावृत्त्यर्थमुक्तम् - उपादानं च इति । चार्थंवदन् वाक्यार्थमाह - न निमित्त इति । विज्ञातमेव स्यात् इत्यन्तेन हेतुवाचिपदं विवृतम् । वैशेषिकमतेन प्रतिज्ञानुपपत्तिमाशङ्क्य परिहरन् वाक्यार्थमाह - कारणमेव
इति ॥
निमित्तान्तराशङ्कां परिहर्तुं यत्तु इति परोक्तमनूद्य व्युदस्यति तदसत् इति । उपदेशतत्कर्मत्वव्युदासाय प्रकृतिप्रत्ययौ व्याचष्टे प्रशिष्यतेऽनेन इति । अन्यतरास्वारस्यसाम्येऽपि अर्थौचित्यमधिकमाह एतस्य इति । शासितृत्वं ह्यसाधारणम् । अकर्त्रर्थप्रत्ययान्तत्वमाशङ्क्याह साधक इति । विवक्षातः कारकाणि इति न्यायादिति भावः ॥
कारणवाक्येऽपि निमित्तोपादनैक्यं दर्शयति - सदेव इति । प्रकृतिशब्देन - प्रकृतिवाचकशब्देन । अन्वयव्यतिरेकाभ्यां तदात्मकत्वपरं सर्वं खलु यत्र तु इति वाक्यद्वयम् । ब्रह्मव्यतिरिक्तं नास्ति चेत् विकारापुरुषार्थौ ब्रह्मणि स्यातामित्यत्राह - एतदुक्तम् इति । तर्हि कार्यकारणदशयोः को भेद इत्यत्राह - कदाचित् इति । ततः किं प्रकृतस्येत्यत्राह एवं सर्वदा इति ॥
ननु च महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते … … अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ 23 ॥
सूक्ष्मावस्थस्याप्युत्पत्तिमुखेन चोदयति - ननु च इति । अव्यक्तावस्थाया अपि सूक्ष्मावस्थासंभवात् । तदवस्थाचिद्विशिष्टं ब्रह्माव्यक्तकारणमिति । परिहरति नैष इति । तत्र प्रमाणमाह - यदा तमः इति। अत एव - तमःशब्दवाच्याचितस्तदा सद्भावादेव । पृथिवीत्वादिवत् तमस्त्वावस्थाप्रहाणेन परमात्मद्रव्यं भवति चेत् , लयशब्दः श्रूयेत ; न च श्रुतः । अतः तमस्तस्मिन् स्थितमित्यर्थः । वस्तुभेदसद्भावेऽप्यनुद्भूतत्वात् एक शब्दो युक्तः , यथा वह्निगर्भे दारुणि, यथा चान्तर्वत्याम् । इदं तमोभूतम् इत्यनेनावस्थान्तरापत्तिरेव लयः , न तु द्रव्यविनाश इति स्फुटम् अग्न्यवस्थे च सलिले इत्यादिना च ॥
यत् तु इत्यादिना परोक्तस्य सतर्कश्रुतिप्राबल्यस्य परिहार उच्यते । मृदादेः इति । केवलनिमित्तत्वे केवलोपादानत्वे बहुकारकापेक्षत्वे च असार्वज्ञ्यासर्वशक्तित्वासत्यसङ्कल्पत्वाद्युपाधयः इत्यर्थः ॥ 23 ॥
अभिध्योपदेशाच्च ॥ 1-4-24 ॥
इतश्चोभयं ब्रह्मैव - सोऽकामयत … … सङ्कल्पपूर्विका हि सृष्टिरुपदिश्यते ॥ 24 ॥
अभिध्योपदेशाच्च । स्फुटम् ॥ 24॥
साक्षाच्चोभयाम्नानात् ॥ 1-4-25 ॥
न केवलं प्रतिज्ञादृष्टान्ताभिध्योपदेशादिभिः …. ब्रह्मैवोपादानमुपकरणानि चेति परिहृतम् । अतश्चोभयं ब्रह्म ॥ 25 ॥
साक्षाच्चोभयाम्नानात् । प्रश्नप्रतिवचनरूपेणोक्तिफलमाह - अत्र हि इति
॥ 25 ॥
आत्मकृतेः ॥ 1-4-26 ॥
सोऽकामयत बहु स्यां प्रजायेय इति … स्वयमेवात्मानं तथाऽकुरुत इति निमित्तमुपादानं च ॥ 26 ॥
आत्मकृतेः । स्वस्य कर्तृत्वं विरुद्धम् । सिद्धः कर्ता साध्यं कार्यमिति एकस्य
सिद्ध्यसिद्धिविरोधमाशङ्क्याकारभेदेन परिहरति - अविभक्त इति । आकार्यैक्यान्निमित्तोपादानैक्यमाह - स्वयमेव इति ॥
सत्यं ज्ञानमनन्तं ब्रह्म , आनन्दो ब्रह्म … …
परिणामात् ॥ 1-4-27 ॥
परिणामस्वाभाव्यात् ; नात्रोपदिश्यमानस्य … … अनादित्वादुपपद्यते चाप्युपलभ्यते च इति ॥
अनन्तरसूत्रशङ्कामाह - सत्यं ज्ञानम् इति । परिणामात् । परिणामात् इत्युक्ते तस्य विरोधिहेतुत्वमेव इत्याशङ्क्याह परिणामस्वाभाव्यात् इति । स्वभाव एव हि विरोधहेतुरित्यत्राह - नात्र इति । कथमित्यपेक्षायाम् उक्तं विवृणोति - एवमेव हि इति । तत्त्वक्रमसृष्टिवत् तदुपयोगिगुणवच्च अनुक्तं सद्वारकत्वमन्यतो ग्राह्यमिति दर्शयन् प्रधानविषयश्रुतीनां परपर्यन्ततामाह - अशेष इति । स्वशरीरतया अपि इति एक शब्दव्याख्यानम् । उक्तार्थे मानमाह - तथैव इति । आवरणत्वात् तमः अनर्थमूलत्वात् मृत्युः स्वरूपैक्यव्यावृत्त्यर्थमाह - अविभाग इति ॥
एवं स्वस्माद्विभागव्यपदेशानर्हतया परमात्मना … … अतो ब्रह्मैव जगतो निमित्तमुपादानं च ॥ 27 ॥
उदाहृतश्रुतिसिद्धमर्थमाह - एवं स्वस्मात् इति । ततः किं प्रस्तुतविरोधस्य इति शङ्कायाम् , अविरोधेन पश्चात् व्याख्यातुं विरोधस्फोरकमेतत्प्रकरणस्थवाक्यमादत्ते - सत्यं ज्ञानम् इति । व्याख्येयपदानि व्याचष्टे अत्र इति । तप आलोचने इति धातु #ः ॥
श्रुत्यन्तरानुगृहीते तत्प्रकरणवाक्यानामर्थमाह - तदयमर्थ इति । उदाहृतवाक्येषु घटकवाक्यस्यार्थमाह - तदेव इति । कथं विरोधः परिहृत इत्यत्राह - एवम् इति । कार्यत्वदोषासङ्करं चाह - परमात्मनि इत्यादिना । अवाप्तकामलीलासृष्टौ मानमाह - सर्वाणि इति । पूर्वपक्ष्युपात्तश्रुत्यर्थमाह - अस्मात् इति स्पष्टम् ।
इदं सूत्रं मृषावादिनां विरुद्धम् । भेदाभेदपक्षेऽपि भोग्यांशेन परिणामः । अस्मन्मते तु विशेषणांशेन इति अस्वारस्यं तुल्यम् । श्रुत्यन्तरोपपत्त्यानुगुण्यं त्वधिकमिति वैषम्यम् ॥ 27 ॥
योनिश्च हि गीयते ॥ 1-4-28 ॥
इतश्च जगतो निमित्तमुपादानं च ब्रह्म … … यथोर्णनाभिः सृजते गृह्णते च इति वाक्यशेषादवगम्यते ॥ 28 ॥
योनिश्च हि गीयते । स्पष्टम् ॥ 28 ॥
इति प्रकृत्यधिकरणम् - 7