६ वाक्यान्वयाधिकरणम्

वाक्यान्वयात् ॥ 1-4-19 ॥

अत्रापि कापिलतन्त्रसिद्धपुरुषतत्त्वावेदनपरं … … तन्त्रसिद्धं पुरुषमेवाभिदधतीति तदधिष्ठिता प्रकृतिरेव जगदुपादानम् , नेश्वरः इति ॥

वाक्यान्वयात् । कर्मवश्यवाचिपदेन तद्रहितस्वरूपोक्तिः लाक्षणिकीति जीवपरत्वं निरस्तम् । अत्र तु बद्धमुक्तसाधारणात्मशब्दश्रवणात् मुक्तलिङ्गश्रवणाच्च तत्परत्वं युक्तमिति शङ्कया सङ्गतिः । पूर्वमेवात्र न कर्मसंबन्धोऽन्यथा नेयः भोक्तृत्वश्रववणादिति वा शङ्कया सङ्गतिः । विज्ञातारम् इति जीवलिङ्गा नुगृहीतत्वात् विज्ञातृशब्दो जीवपर इति भावः । स्पष्टम् ॥

सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे - वाक्यान्वयात् इति । सर्वेश्वर एव … … गुणाः परमात्मन एव संभवन्ति । अतः स एवात्र प्रतिपाद्यते ॥

राद्धान्ते - समञ्जसः - स्वारसिकः । स्वारस्यं च सजातीय श्रुत्यन्तरैकार्थ्यमित्यभिप्रायेणाह - तमेव इति । प्रजापतिवाक्याद्यैकार्थ्यात् स्वारस्यमित्यत्राह - परमपुरुष इति । प्रधानार्थपरवाक्यैकार्थ्यं स्वारस्यमित्यर्थः . उपक्रमस्वारस्यं दर्शितम् ; उपरितनानां कारणत्वप्रतिज्ञानैक्योपदेशपरवाक्यानां सामञ्जस्यं दर्शयति - तथा इत्यादि । एतत् अयम् इति श्रुतिस्थेदंशब्दस्थाने भाष्ये एतत् शब्दः । जीवस्यैक्योपदेशात् अनुपपतिं्त दर्शयति - न हि इदंशब्दवाच्यम् इत्यादिना ।

स्थूलसूक्ष्मचिदचिच्छरीरत्वाभावान्न कार्येण जगदैक्यसंभव इत्यर्थः । अत एव - सर्वस्य परमात्मकत्वादेव ॥

यत्तूक्तं पतिजायापुत्रवित्तपश्वादिप्रियान्वयिनो … … स परमात्मैव द्रष्टव्य

इत्युपदिश्यते ॥

यत् तु इत्यादि । कथमनन्वयः , कथं वा तस्यानिष्टत्वमित्यत्राह आत्मा वा इति । पूर्ववाक्यस्यात्मनो द्रष्टव्यत्वोपयोगित्वं स्वरसतः प्रतीयते इत्यर्थः । जीवपरत्वेऽनन्वयमुपपादयति - आत्मन इति त्यादिना । श्रुतौ प्रिय शब्दो भोगार्हत्वपरः । कामाय - प्रीत्यै । न पत्यादिशेषतया पत्यादीनां प्रयत्वम् इति । पत्यादीनां भोगार्हत्वं न पत्यादिप्रीतिहेतुतया , किन्तु स्वप्रीतिहेतुतया , इत्यर्थः । वाक्यभेदः - महावाक्यभेदः । सोऽयम् इत्यादि। स्वयं निरतिशयानन्दः सन् इति । स्वाश्रितानन्दावहस्य स्वयं निरतिशयानन्दत्वमर्थसिद्धमिति भावः । श्रुत्यन्तरेषु तथा स्पष्टत्वाच्च । उपदिश्यते इत्यन्तेन तात्पर्यार्थ उक्तः ॥

तदयमर्थः - न वा अरे पत्युः कामाय पतिः प्रियो भवति … … आत्मा वा अरे द्रष्टव्यः इति पूर्वोक्तप्रक्रिययोभयत्रात्मशब्दावेकविषयौ ॥ 19 ॥

कथमस्य शाब्दत्वमित्यत्राह - तदयमर्थः इति । जीवपरत्वेऽप्यन्वयो घटते । स्वप्रीतये स्वातन्त्र्यात् पत्यादीनामुपादानं चेत् नानित्यानन्दपत्याद्यनुभवाय प्रवर्तेत, किं तु नित्यानन्दस्वरूपानुभवाय प्रवर्तेत इति शङ्कायां द्वितीयं निर्वाहमाह - जीवात्मपरत्वेऽपि इति । जीवादप्यतिशयानन्दत्वात् परमात्मप्राप्तौ प्रवर्तेत इत्यर्थ उचिततर इत्यर्थः । तर्हि अयमेव निर्वाहः स्यादिति शङ्कायामाह - अस्मिंस्तु इति । परमात्मन एव अभिधानात् इति वक्ष्यमाणसूत्रप्रकारेणेत्यर्थः । समाधिभेदायोगो हेतुतया विवक्षितः । अत एव प्रथमस्य आत्म शब्दस्य सद्वारकत्वं चास्वरसम् । तस्मादद्वारकब्रह्मविषयौ पूर्वोत्तरवाक्यस्थात्मशब्दौ॥19॥

मतान्तरेणापि जीवशब्देन परमात्माभिधानोपपादनायाह -

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ 1-4-10 ॥

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेः … … अतो जीवशब्देन परमात्माभिधानमिति ॥ 20 ॥

अनन्तरसूत्रमवतारयति - मतान्तरेण इति । प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । प्रतिज्ञोपपादककार्यकारणभावकृतैक्यसिद्धेरित्यर्थः ॥ 20 ॥

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ 1-4-21 ॥

यदुक्तं जीवस्य ब्रह्मकार्यतया ब्रह्मणैक्येन … … जीवशब्देन

परमात्मनोऽभिधानमित्यौडुलोमिराचार्यो मन्यते स्म ॥ 21 ॥

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः । पूर्वाविरुद्धमतोदयायोगात् सूत्राभिप्रेतं प्राक्तनमतदूषणमाह - यदुक्तम् इत्यादिना । स्पष्टम् ॥

अवस्थितेरिति काशकृत्स्नः ॥ 1-4-22 ॥

यदुक्तम् - उत्क्रमिष्यतो जीवस्य ब्रह्मभावात् … … न पुरुषस्तदधिष्ठिता च प्रकृतिरिति स्थितम् ॥ 22 ॥

अवस्थितेरिति काशकृत्स्नः। स्पष्टम् । काशकृत्स्नमतवैषम्यमाह एवम् इति । स्वीकृतवान् इति । एवं वादरायण #ः इति मतान्तराकथनात् अस्य सामञ्जस्याच्च इति भावः ॥

इह प्रकरणे जीववाचिपदं किम् , तेन परस्याभिधानं कथमित्यत्राह अयमत्र इति । प्रोत्साहनाय इति । स्वरूपस्य प्राप्यत्वज्ञानात् प्रवृत्तिरधिका स्यात् इत्यर्थः । एकीकृत्य इति । समित्येकीकारे इति भावः । यत्र हि इत्यादि । तत् केन कम् इति अतदात्मकद्रष्टृदृश्यतत्साधननिषेधः ॥

येन इदम् इति वाक्यं तत्प्रसादादृते तस्य दुरवगमत्वपरम् । विज्ञातारम् इति वाक्यमुक्तोपायादृते तत्प्रसादनस्य दुर्लभत्वपरम् । उपसंहरति - अतः इति ॥ 22॥

इति वाक्यान्वयाधिकरणम् -6