५ जगद्वाचित्वाधिकरणम्

जगद्वाचित्वात् ॥ 1-4-16 ॥

पुनरपि सांख्यः प्रत्यवतिष्ठते - यद्यपि … … चेतनधर्मा अस्मिन्नेवोपपद्यन्ते इत्येतदधिष्ठितं प्रधानमेव जगत्कारणम् ॥

जगद्वाचित्वात् । सङ्गतिमाह - यद्यपि इति । न अर्थान्तरम् - न ईश्वर इत्यर्थः । पूर्वाधिकरण ईक्षत्यधिकरणाक्षेपात् इह आनन्दमयाधिकरणाक्षेपः फलितः । तत्तदुत्पत्तिहेतुकर्मवत्वं हि कर्तृत्वम् । अतः पुरुषाणां कर्ता इत्युक्ते यस्य वैतत् कर्म इत्युक्तिवैयर्थ्यं स्यात् । बद्धस्वरूपं च नोपदेश्यमित्यत्राह - तदयमर्थ इति । कृतिमत्त्वं कर्तृत्वम् । शुद्धस्वरूपमविदितम् । कर्मसंबन्धस्तूपलक्षणमित्यर्थः । एतस्मादात्मनः प्राणाः इति । प्राणशब्दः प्रञ्चवृत्तिप्राणपरः पूर्वपक्षे । अस्मिन् प्राणे इति । प्राण शब्दस्य लाक्षणिकत्वव्युदासाय योजनान्तरमाह - अथवा इति । परमात्मपरत्वमाशंक्याह -

प्राणशब्दस्य इति ॥

सिद्धान्तः

इति प्राप्ते प्रचक्ष्महे - जगद्वाचित्वात् । … प्रसिद्धं परं ब्रह्मैवात्र वेदितव्यतयोपदिश्यते ॥ 16 ॥

राद्धान्ते - स्वपक्षे कर्त्रादिशब्दस्वारस्योपपादकविशेषणानि वदन् प्रतिजानीते - अत्र इत्यादिना । अविदितत्वं कर्मसंबन्धरहितस्वरूपस्य भवतीत्यत्राह - पुरुषस्य इति । कर्मसंबन्ध वाचिशब्दस्य तद्रहितस्वरूपपरत्वे लक्षणेत्यर्थः । जगद्वाचित्वे युक्त्यन्तरमाह - यस्य इति । पृथङ्निर्देशप्रयोजनमाह - य एतेषाम् इति । जगदुत्पत्तेः इति । कुलालस्य हि घटकर्तृत्वं न घटविनियोगादृष्टवतः इति भावः । प्रसिद्धम् इति । यच्छब्दनिर्देशात् यतो वा इमानि इतिवत् प्रसिद्धं कारणमनूद्यवेदितव्यत्वविधिरित्यर्थः ॥ 16 ॥

जीवमुख्यप्राणलिङ्गान्नेति चेत्

तद्व्याख्यातम् ॥ 1-4-17 ॥

अथ यदुक्तम् - जीवलिङ्गात् मुख्यप्राणसङ्कीर्तनाच्च … … प्राणशरीरकब्रह्मोपासनार्थं प्राणसङ्कीर्तनं लिङ्गं युज्यते ॥ 17 ॥

अथ उपरितनवाक्यगतहेतुमनूद्य प्रतिवक्ति - जीवमुख्यप्राणलिङ्गान्नेति चेत् तव्द्याख्यातम् । प्रतर्दनविद्यायां कथं परिहृतं , तत्रातिदेष्टव्यांशः कः , स च कथं घटत इत्यत्राह - एतदुक्तम् इति । वर्णनीयानि इत्यन्तेन अतिदेष्टव्यांश उक्तः । न तूपासनार्थत्वमत्यतिदेष्टव्यमित्यर्थः । अत एव हि जीवलिङ्गस्य तदर्थत्वानुक्तिः

॥ 17 ॥

जीवलिङ्गानां पुनः कथं ब्रह्मपरत्वमित्यत्राह -

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ 1-4-18 ॥

तु शब्दो जीवसङ्कीर्तनेन वाक्यस्य … … कारणत्वं क्वचिदपि वेदान्ते प्रतीयत इति स्थितम् ॥ 18 ॥

उत्तरसूत्रस्य शङ्कामाह - जीवलिङ्गानाम् इति । अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥

तुशब्द इत्यादि । न तु मतान्तरेण निर्वाहान्तरपरः । अपि तु पूर्वपक्षात् व्यावृत्त्यर्थः इत्यर्थः । क्वैषः क्व वा इति प्रश्नद्वयं स्वप्नसुषुप्तिस्थानविषयम् । प्राणाः जीवाः । नाडीनाम्

इति । यदा सुप्तः इत्यस्मात् पूर्वभावितया स्वप्नपरे पूर्ववाक्ये नाडीवचनादिति भावः । विज्ञानेन विज्ञानमादाय - मनसा सह ज्ञानमादाय उपरतव्यापारं मनः प्रतीन्द्रियमित्यर्थः । परमात्मगुणतत्सामानाधिकरण्याभावात् जीवश्रुतेः उपासनार्थत्वानुक्तिः । जीवलिङ्गनिर्वाहमुपसंहरति - अतः इति । वेदान्तानां प्रकृतिपुरुषपरत्वासिद्धिमुपसंहरति - तस्मात् इति ॥ 18 ॥

इति जगद्वाचित्वाधिकरणम् - 5