कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः ॥ 1-4-14 ॥
पुनः प्रधानकारणवादी प्रत्यवतिष्ठते … … अतो ब्रह्मैककारणं जगदिति निश्चीयते ॥ 14 ॥
प्रधानकारणत्वं निरस्तम् । तदयुक्तमित्युत्थानात् सङ्गतिः । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । एकस्मात् - एकरूपात् । ब्रह्मणि इव इति वैधर्म्यदृष्टान्तः ॥
राद्धान्ते – त्वर्थेन चशब्देन फलितां प्रतिज्ञामाह - सर्वज्ञात् इति । यथा व्यपदिष्टम् इति श्रुतौ व्यपदिष्टत्वव्यावृत्त्यर्थमाह - जन्मादि इति । आकाशादिषु - आकाशादीनाम् ॥ 14 ॥
ननु - असद्वा इदमग्र आसीत् … …
समाकर्षात् ॥ 1-4-15 ॥
असद्वा इदमग्र आसीत् इत्यत्रापि … … अतो ब्रह्मैककारणं जगदिति स्थितम् ॥ 15 ॥
समाकर्षात् । ब्रह्मणा विपश्चिता इत्यादिवाक्यान्यभिप्रेत्य विपश्चित्त्वा दिकमुक्तम् । स्पष्टम् । प्रधानस्यापि कार्यानुप्रवेशो युक्त इत्यत्राह -
अन्तः प्रविष्ट इति । अन्येन व्याकृतत्वशङ्काव्यावृत्त्यर्थं व्याचष्टे - तदेव अविभक्त इति
॥ 15 ॥
इति कारणत्वाधिकरणम् - 4