३ संख्योपसंग्रहाधिकरणम्

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ 1-4-11 ॥

वाजसनेयिनः समामनन्ति - यस्मिन् पञ्च पञ्चजनाः … …. पञ्चसंख्याका विशेष्यन्ते , पञ्च पञ्चजना इति , सप्त सप्तर्षय इतिवत् ॥ 11 ॥

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च । प्रकृतेर्ब्रह्मात्मकत्वं साधितम् । तदत्रायुक्तम् । परमात्मपरत्वे संख्याधिक्यादिति शङ्कया सङ्गतिः । पञ्चशब्दद्वयात् दशसंख्या स्यात् । समसंख्यापरशब्दयोः कथं विशेषणविशेष्यभावः , कथं च कापिलतन्त्रार्थसिद्धिरित्यत्राह - एतदुक्तम् इति । आत्माकाशाभ्यां सप्तविंशतिप्रतीतिः सत्त्वरजस्तमसां पृथग्द्रव्यत्वाभ्युपगमात् युक्तेति भावः ॥

राद्धान्ते नानात्वं - पृथक्त्वम् अन्यत्वं विवक्षितं , न तु बहुत्वम् । विना ना हिरुक् पृथक् इति पर्यायपाठात् । कालस्य वस्त्वन्तरविशेषणत्वे षड्र्विशत्वम् ; वस्त्वन्तरविवक्षायां सप्तविंशत्वम् । पञ्चसु इति । एकोपाधिगृहीतत्वं हि समूहत्वम् । तन्नेत्यर्थः । शाब्ददूषणमुक्तम् अन्यथा इति । सत्त्वादीनां द्रव्यत्वमसिद्धम् , गुणत्वात् ॥

11 ॥

के पुनस्ते पञ्चजना इत्यत आह -

प्राणादयो वाक्यशेषात् ॥ 1-4-12 ॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुः … …. प्राणादय एव पञ्च पञ्चजनाः इति विज्ञायन्ते ॥ 12 ॥

उत्तरसूत्रशङ्कामाह - के पुनः इति । प्राणादयो वाक्यशेषात् । स्पष्टम्

॥ 12 ॥

अथ स्यात् - काण्वानां माध्यन्दिनानां च …

ज्योतिषैकेषामसत्यन्ने ॥ 1-4-13 ॥

एकेषां काण्वानां पाठे … … न कापिलतन्त्रसिद्धतत्त्वप्रतीतिरिति स्थितम् ॥ 13 ॥

अनन्तरसूत्रशङ्कामाह - अथ स्यात् इति । ज्योतिषैकेषामसत्यन्ने । कथं वाक्यशेषे चतुष्टयोक्तिः इत्यत्राह - तेषाम् इति । ज्योतिषा इत्यस्य कोऽर्थ ? कथं चेन्द्रियावगम इत्यत्राह - एतदुक्तम् इति । ज्योतिषा इति शब्दस्वरूपनिर्देशः । ज्योतिःशब्देन प्रदर्शनायोगात् । अयं सिद्धान्तेऽपि तुल्यः । इन्द्रियप्रकरणं पदत्रयस्वारस्यप्राबल्यं च ज्ञापयितुं चक्षुरादीनां स्वशब्देन व्याख्यानम् । पञ्चत्वं निर्देशापेक्षया । ज्योतिष्ट्वपञ्चत्वमनोयोगपरिशेषैः तन्त्रोपादाननिश्चयः । फलितमाह - तदेवम् इति । द्विधा परिहारोक्तिप्रयोजनं वदन् निगमयति - अतः इति ॥ 13 ॥

इति संख्योपसंग्रहाधिकरणम् -3