२ चमसाधिकरणम्

चमसवदविशेषात् ॥ 1-4-8 ॥

अत्रापि तन्त्रसिद्धप्रक्रिया निरस्यते … … स्वातन्त्र्येण सरूपाणां बह्वीनां स्रष्ट्ठत्वश्रवणाच्च इति ॥

चमसवदविशेषात् । पूर्वं कारणशब्दस्य कार्यशरीरपरत्वमुक्तम् । इह तु कार्यवाचिशब्दाश्रवणात् कारणं प्रधानमेवोच्यत इति शङ्कया सङ्गतिः। परैः किं प्रधानपरमुत तेजोबन्नपरमिति विचारः कृतः तत्र स्ववाक्यस्वारस्याभावं वक्ष्यन् श्रुत्यन्तरास्वारस्यज्ञापनाय प्रधानविषयं वाक्यजातमुदाहर्तुमाह - अत्रापि इति ॥

अध्यासिता - अधिष्ठिता । तन्यते - समष्टिरूपेण प्रेर्यते व्यष्टिसृष्ट्यर्थम् । अथ तदन्तर्यामिपरवाक्यजातमुदाहर्तुमाह - यदात्मकाः इति । अपरे च इति । इह च वाक्यान्तरैकार्थ्यात् ब्रह्मात्मकत्वसिद्धिरिति भावः । तत्त्वभावात् - तत्वाविर्भावात् । प्रकृत्यादयः । आदि शब्देन महदादिः । विषयमाह - श्वेत इति । स्वातन्त्र्येण इति। सृजमानाम् इति कर्तरि शानच् । स्वतन्त्रः कर्ता इति भावः ॥

एवं प्राप्तेऽभिधीयते - चमसवदविशेषात् । … …. अतोऽनेन मन्त्रेण नाब्रह्मात्मिका अजा अभिधीयते ॥ 8 ॥

राद्धान्ते प्रतिज्ञाऽध्याहर्तव्या । चमसः - चमनसाधनम् । अजात्वमात्रश्रवणं ब्रह्मात्मकस्य प्रामाणिकत्वे तदविरोधीत्यर्थः । न चास्याः इति । निरुपपदत्वान्न स्वातन्त्र्येण सृष्टित्वप्रतीतिरित्यर्थः ॥ 8 ॥

ब्रह्मात्मकाजाग्रहण एव विशेषहेतुरस्तीत्याह -

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ 1-4-9 ॥

तु शब्दोऽवधारणार्थः … … तस्या एव प्रतीतेर्नास्मिन् मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्ध #ः ॥ 9 ॥

अनन्तरसूत्रमवतारयति - ब्रह्मात्मक इति । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । नात्र मन्त्रे उत्पत्तिप्रतीतिरित्यत्राह - सर्वस्य इति । प्रयाजादीनामङ्गत्ववदिति भावः । अन्येन इति न मुक्तकीर्तनम् सृष्टिप्रकरणविच्छेदात् ; किं तु तद्विशेषणत्वेन । यस्माज्जाता न परा नैव किंचनास इति उत्तरत्र सृष्ट्यनुवृत्तेरिति भावः । इयं च कृत्वाचिन्ता इहापि इत्यादिना स्वशाखायामेव ब्रह्मात्मकत्वख्यापनात् ॥ 9 ॥

कथं तर्हि ज्योतिरुपक्रमाया … …

कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ 1-4-10 ॥

प्रसक्ताशङ्कानिवृत्त्यर्थश्चशब्दः । … … संबन्धयोग्यच्छागत्वपरिकल्पन मत्यन्तविरुद्धम् ॥ 10 ॥

अनन्तरसूत्रशङ्कामाह -

कथं तर्हि इति । कल्पनोपदेशाच्च मध्वादिवदविरोधः । चः त्वर्थः । ज्योतिःकल्पन शब्दौ वेदनिर्देशानुसारात् संप्रसादात् इतिवत् । सूत्रखण्डं व्याचष्टे - मधु इति । उदयास्तमयमधुत्वकॢप्तितदभावयोरिव अवस्थाभेदादविरोध इत्यर्थः ॥

सूत्रद्वयस्य परोक्तार्थं दूषयितुं प्रथमस्यैतदुक्तार्थम् अन्ये तु इत्यादिनानूदितं विकल्पयति - किम् इति । अजात्वैकत्वसिद्ध्यर्थं मध्यमशिर उक्तिः। प्रत्येकम् इति न समुदायैकत्वम् । समुदायत्रिकमेवेत्यर्थः । द्वितीयं विकल्पयति - द्वितीय इति । किं तेजोबन्नरूपा अवस्था अजाशब्दोक्ताः , उत स्वरूपमिति विकल्पः । द्वितीयेऽपि इति श्रुत्यस्वारस्यमुक्तम्। सूत्रास्वारस्यमाह - तेजोऽबन्न इति । ज्योतिरुपक्रम शब्दः तेजोबन्नवाचीति हि परैः व्याख्यातम् । प्राथमिकविकल्पेषु तृतीयं दूषयति - तृतीयेऽपि इति ॥

अथ तृतीयसूत्रस्य परोक्तार्थमनूद्य व्युदस्यति - यत् पुनः इत्यादिना । मुख्यार्थे संभवति गौणस्वीकारायोगात् प्रयोजनाभावात् अर्थविरोधात् आत्मानं रथिनम् इतिवत् रूप्यरूपकवाचिशब्दाभावात् गौरनाद्यन्तवती इतिवत् उचितविशेषणाभावात् प्रयोजनसाधनत्वादिमात्रविवक्षायामस्वारस्यात् तस्य च पदान्तरस्वारस्यार्थाभावाच्च छागत्वकॢप्तिरयुक्तेत्यर्थः । अस्मदुक्तार्थस्तु वैदिकनिर्देशानुसारिणां स्वरस एव

॥ 10 ॥

इति चमसाधिकरणम् -2